कृत्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्या, स्त्री, (कृ + भावे क्यप् ।) क्रिया । यथा कां कृत्यामकार्षीः । देवता । यज्ञदेवताविशेषः । इत्य- मरभरतौ ॥ यथा, प्रह्लादचरिते । “कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम्” ॥ तस्या ध्यानं यथा, -- “क्रोधाज्ज्वलन्तीं ज्वलनं वमन्तीं सृष्टिं दहन्तीं दितिजं ग्रसन्तीम् । भीमं नदन्तीं प्रणमामि कृत्यां रोरूयमाणां क्षुधयोग्रकालीम्” ॥ * ॥ आभिचारिकी क्रिया । यथा, -- “रोगकृत्याग्रहादीनां निरासः शान्तिरीरिता । वश्यं जनानां सर्व्वेषां विधेयत्वमुदीरितम्” ॥ इति षट्कर्म्मदीपिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्या स्त्री।

क्रिया

समानार्थक:कर्मन्,क्रिया,कृत्या,लीला

3।3।159।1।1

कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः। जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥

 : मनोव्यापारकर्मः, आह्वानम्, अविमृष्टकृत्यम्, क्रीडा, स्वरूपाच्छादनम्, केशबन्धरचना, भूषणक्रिया, शरीरशोभाककर्मः, गतगन्धस्य_प्रयत्नेनोद्बोधनम्, माल्यादिरचना, यज्ञः, यज्ञार्थं_पशुहननम्, यज्ञकर्मः, दानम्, श्राद्धकर्मः, याचनम्, पूजा, अटनम्, आचमनम्, मौनम्, अभिवादनम्, नैत्यिककर्मः, नियमकर्मः, मुण्डनम्, दूतकर्मः, गजसज्जीकरणम्, युद्धारम्भे_अन्ते_वा_पानकर्मः, युद्धम्, मारणम्, वणिक्कर्मः, मृगया, चोरकर्मः, कलाकौशल्यादिकर्मः, मद्यसन्धानम्, मद्यपानम्, प्रशस्तकर्मः, वशीकरणम्, ओषधीनां_मूलैरुच्चाटनकर्मः, कम्पनम्, प्रीणनम्, सूचीक्रिया, कर्तनम्, अपचयः, ग्राहणम्, शब्दकरणम्, पचनम्, राशीकरणम्, सदृशकरणम्, मारणादिक्रिया, धान्यादीनाम्_बहुलीकरणम्, सूत्रवेष्टनक्रिया, दुर्गप्रवेशनक्रिया, निराकरणम्, जुगुप्सनम्, अम्भसां_रयः, उन्नयनक्रिया, आच्छादनम्, चौर्यादिपरोपद्रवकर्मः, कृच्छ्रादिकर्मः

पदार्थ-विभागः : , क्रिया

कृत्या स्त्री।

देवता

समानार्थक:कृत्या

3।3।159।1।1

कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः। जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

कृत्या वि।

धनादिभिः_भेद्यम्

समानार्थक:कृत्या

3।3।159।1।1

कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः। जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्या¦ स्त्री॰ कृ--क्यप् टाप्।

१ क्रियायां

२ अभिचारक्रिया-जन्ये अभिचारोद्देश्यनाशके

२ देवादिमूर्त्तिभेदे च सा चवैदिकाद्यभिचारक्रियाजन्या अदृष्टविशेषनिर्वर्त्त्या देवा-दिमूर्त्तिरूपतयोत्पद्य अभिचारोद्देश्यं पुरुषं निहत्यनश्यतौति अथवेवदे प्रासद्धम्।
“पञ्चकल्पमथर्वाणं[Page2189-b+ 38] कृत्याभिः परिवृहितम्” भा॰ शा॰

३४

४ अ॰। कृत्यावि-शेषोत्पादनकथा भा॰ आनु॰

९० अ॰ यथा(
“इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह। तेषांवै प्रतिकर्त्तुञ्च सर्व्वेषामगमद्गृहम्। स गत्वा हवनी-येऽग्नौ तीव्रं नियममास्थितः। जुहाव संस्कृतैर्म्मन्त्रै-रेकैकामाहुतिं नृपः। तस्मादग्नेः समुत्तस्यौ कृत्यालोकभयङ्करी। तस्या नाम वृषादर्भिर्य्यातुधानीत्यथा-करोत्। सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता। वृषादर्भिं नरपतिं किङ्करोमीति साऽब्रवीत्। वृषादर्भि-रुवाच। ऋषीणां गच्छ सप्तानामरुन्धत्यास्त्रथैव च। दासीभर्त्तुश्च दास्याश्च मनसा नाम धारय। ज्ञात्वा ना-मानि चैवैषां सर्व्व्नेतान् विनाशय। विनष्टेषु तथास्वैरं गच्छ यत्रेप्सितं तव। सा तथेति पतिश्रुत्य यातु-धानीस्वरूपिणी। जगाम तद्वनं यत्र विचेरुस्ते महर्षयः”
“इन्द्रेण च सा नाशितेति तत्रैवान्ते उक्तम् यथा
“रक्षणार्थञ्च सर्वेषां भवतामहमागतः। यातुधानी ह्यु-तिक्रूरा कृत्यैषा वो बधैषिणी। वृषादर्भिप्रयुक्तैषानिहता मे तपोधनाः!। दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा”। कृत्यानिवारणोपायमन्त्राश्च अथ॰

५ ,

१३ ,

१४ , उक्ता यथा
“सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन्न सा। दिप्सौषधे!त्वं दिप्सन्तमव कृत्याकृतं जहि। अव जहि यातुधाना-नव कृत्याकृतं जहि। अथो यो अस्मान्दिप्सति तमु त्वंजह्योषधे!। रिश्यस्येव परीशांस परिकृत्य परि त्वचः। कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत। पुनःकृत्यां कृत्याकृते हस्तेगृह्य पराणय। समक्षमस्मा आधेहि यथा कृत्याकृतं हनत्। कृत्याः सन्तुकृत्याकृते शपथःशपथोयते। सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः। यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने। तामु तस्मैनयामस्यश्वमिवाश्वाभिधान्या। यदि वासि देवकृता यदिवा पुरुषैः कृता। तं त्वा पुनर्णयामसोन्द्रेण सयुजावयम्। अग्ने पृतनाषाट् पृतनाः सहस्व। पुनः कृत्यांकृत्याकृते प्रतिहरणेन हरामसि। कृतव्यधनि! विध्यतं यश्चकार तमिज्जहि। न त्वामचक्रुषे वयं बधायसं शिशीमहि। पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितोदश। बन्धमिवावक्रामी गच्छ कृत्ये! कृत्याकृतं पुनः। उदेणीव वारण्याभिस्कन्दं मृगीव। कृत्या कर्तारमृच्छतुइष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति। सा तं मृग[Page2190-a+ 38] मिव गृह्णातु कृत्या कृत्याकृतं पुनः। अग्निरिवैतु प्रति-कूलमनुकूलमिवोदकम्। सुखो रथ इव वर्ततां कृत्याकृत्याकृतं पुनः”। ( सुश्रुते चान्यप्रकारोऽत्र सामान्यतो दर्शितः यथा
“कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च। रक्षाकर्म्मकरिष्यामि ब्रह्मा तदनुमन्यताम्। नागाः पिशाचा ग-न्धर्व्वाः पितरो यक्षराक्षसाः। अभिद्रवन्ति ये ये त्वांब्रह्माद्या घ्नन्तु तान् सदा। पृथिव्यामन्तरीक्षे च येचरन्ति निशाचराः। दिक्षु वास्तुनिवासाश्च पान्तु त्वांते नमस्कृताः। पान्तु त्वां मुनयो ब्राह्म्या दिव्या राज-र्षयस्तथा। पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्वेऽपि सागराः। अग्नीरक्षतु ते जिह्वां प्राणान् वायुस्तथैव च। सोमोव्यान, मपानंते पर्जन्यः परिरक्षतु। उदानं विद्युतः पान्तु,समानं स्तनयित्नवः। बलमिन्द्रो बलपति र्मनुर्मन्ये मतिंतथा। कामांस्ते पान्तु गन्धर्व्वाः, सत्वमिन्द्रोऽभिरक्षतु। प्रज्ञां ते वरुणो राजा, समुद्रो नाभिमण्डलम्। चक्षुःसूर्य्यो, दिशः श्रोत्रे, चन्द्रमाः पातु ते मनः। नक्षत्राणिसदा रूपं, छायां पान्तु निशास्तव। रेतस्त्वाप्याययन्त्वापो,रोमाण्योषधयस्तथा। आकाशं खानि ते पातु, देहं तववसुन्धरा। वैश्वानरः शिरः पातु, विष्णुस्तव पराक्रमम्। पौरुषं पुरुषश्रेष्ठो, ब्रह्मात्मानं, ध्रुवो भ्रुवौ। एता देहेविशेषेण तव नित्या हि दवताः। एतास्त्वां सततं पा-न्तु दीर्घमायुरवाप्नुहि। स्वस्ति ते भगवान् ब्रह्मा स्वस्तिदेवाश्च कुर्वताम्। स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति ना-रदपर्वतौ। स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः। पितामहकृता रक्षा स्वस्त्यायुर्वर्द्धतां तव। ईततयस्तेप्रशाम्यन्तु सदा भव गतव्यथः। इति स्वाहा। एतैर्वेदात्मकैर्म्मन्त्रैः कृत्याव्याधिविनाशनैः। मयैवं कृतरक्ष-स्त्वं दीर्घमायुरवाप्नुहि”।
“ततोऽसुरा एषु लोकेषु कृत्यां वलगान्निचखुरुतैवं चि-द्देवानमिभवेमेति,
“तद्वै देवा अस्पृण्वत। तएतैः कृत्यांवलगानुदखनन्, यदा वै कृत्यामुत्खनन्ति” अत्र कश्चिद्द्वि-षन भ्रातृत्यः कृथां वलगान्निखनति” इति च शत॰ ब्रा॰

३ ,

५ ,

४ ,

२ ,

३ ,
“यामयो यानि गेहानि शपन्त्यप्रतिपूजि-ताः। तानि कृत्याहतानीव विनश्यन्ति न संशयः” मनुः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्या f. ( Pa1n2. 3-3 , 100 ) action , act , deed , performance , achievement AV. v , 9 , 8 Mn. xi , 125 MBh. xii , 3837

कृत्या f. (with gen. रुजस्)ill usage or treatment Mn. xi , 67

कृत्या f. magic , enchantment AV. etc.

कृत्या f. (especially personified) a kind of female evil spirit or sorceress RV. x , 85 , 28 and 29 VS. etc.

कृत्या f. a female deity to whom sacrifices are offered for destructive and magical purposes L.

कृत्या f. N. of a river MBh. vi , 9 , 18

कृत्या f. of कृत्यSee.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛtyā : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used for drinking by people 6. 10. 17, 13; all the rivers listed here are called mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*6th word in right half of page p314_mci (+offset) in original book.

previous page p313_mci .......... next page p315_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛtyā : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used for drinking by people 6. 10. 17, 13; all the rivers listed here are called mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*6th word in right half of page p314_mci (+offset) in original book.

previous page p313_mci .......... next page p315_mci

"https://sa.wiktionary.org/w/index.php?title=कृत्या&oldid=497092" इत्यस्माद् प्रतिप्राप्तम्