कृष्णः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कृष्णः, पुं, (कर्षत्यरीन् महाप्रभावशक्त्या । यद्वा, कर्षति आत्मसात् करोति आनन्दत्वेन परिण- मयतीति मनो भक्तानां इति यावत् “कृषे र्व्वर्णे” । उणां । ३ । ४ । इति बाहुलकात् वर्णं विनापि । नक् णत्वञ्च । यद्वा, कर्षति सर्व्वान् स्वकुक्षौ प्रलयकाले । “कर्षणात् कृष्णो रमणात् रामो व्यापनात् विष्णुः” । इति श्रुते स्तथात्वम् ॥ अपरा व्युत्पत्तिर्यथा, -- “कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यात् परं ब्रह्म कृष्ण इत्यभिधीयते” ॥ इति श्रीधरस्वामी ॥ तथा च, महाभारते । ५ यानसन्धिपर्व्वणि ७० । ५ । “कृषिर्भूवाचकः शब्दो णश्चनिर्वृतिवाचकः । कृष्णस्तद्भावयोगाच्च कृष्णो भवति सात्त्वतः” ॥) भगवदवतारविशेषः । स च भूभारहरणार्थं द्वाप- रयुगशेषे भाद्रकृष्णाष्टम्यां रोहिणीनक्षत्रे निशीथे देवकीगर्भे आविर्भूतः । तस्य जन्मसमयो यथा, “उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषो लाभगो जीवः सिंहतुलालिषु क्रमवशात् पूषो- शनोराहवः । नैशीथः समयोऽष्टमी बुधदिनं ब्रह्मर्क्षमत्रक्षणे श्रीकृष्णाभिधमम्बुजेक्षणमभू- दाविः परं ब्रह्म तत्” ॥ इति खमाणिक्यनाम- ज्योतिर्ग्नन्थः ॥ (यदि च भगवतो विष्णोः कृष्णाव- तारकालः क्वचित् द्वापरयुगशेषे इत्ययं पाठो लक्ष्यते तथापि कलावेव कृष्णावतार इत्येव भूरि- सम्मतमिति बोध्यम् । तत्र भूरि भूरिप्रमाणानि च सन्ति तेषां कानिचिदत्रोद्धृतानि । तद्यथा, ब्रह्मपुराणे, -- “अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे । अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः” ॥