सामग्री पर जाएँ

कृष्णद्वैपायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णद्वैपायनः, पुं, (द्वीपे भव इत्यण् । यद्वा द्वीपः अयनं उत्पत्तिस्थानं यस्य । प्रज्ञाद्यण् । कृष्ण- श्चासौ द्वैपायनश्चेति ।) वेदव्यासः । इति त्रिकाण्ड- शेषः ॥ (यथा, महाभारते १ । १०५ । १३ । “ततस्तस्मिन् प्रतिज्ञाते भीष्मेण कुरुनन्दन ! । कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्” ॥ अस्य यमुनाद्वीपोत्पत्तिकथा यथा तत्रैव १ । १०५ । ७ -- १४ । “धर्म्मयुक्तस्य धर्म्मार्थं पितुरासीत्तरी मम । सा कदाचिदहं तत्र गता प्रथमयौवने ॥ अथ धर्म्मविदां श्रेष्ठः परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन् यमुनां नदीम् ॥ स तार्य्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्ब्बं मुनिश्रेष्ठः कामार्त्तो मधुरं वचः ॥ तमहं शापभीता च पितुर्भीता च भारत ! । वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥ अभिभूय स मां बालां तेजसा वशमानयत् । तमसा लोकमावृत्य नौगतामेव भारत ! ॥ मत्स्यगन्धो महानासीत् पुरा मम जुगुप्सितः । तमपास्य शुभं गन्धमिमं प्रादात् स मे मुनिः ॥ ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥ पाराशर्य्यो महायोगी स बभूव महानृषिः । कन्यापुत्त्रो मम पुरा द्वैपायन इति श्रुतः” ॥ अन्यत् विवरणादिकमस्य व्यासशब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णद्वैपायन¦ पु॰ द्वीपे यमुनाद्वीपे भषः फक् द्वीपोऽयनंजन्मभूमिर्वास्य प्रज्ञाद्यण् कर्म्म॰। वेदव्यासे तस्य यमुना-द्वीपोत्पत्तिकथा भा॰ आ॰

१०

५ अ॰।
“धर्म्मयुक्तस्य धर्म्मार्थं पितुरासीत्तरी मम। सा कदा-चिदहं तत्र गता प्रथमयौवना। अथ धर्मविदा श्रेष्ठःपरमर्षिः पराशरः। आजगाम तरीं धीमांस्तरिष्यन्-यमुनां नदीम्। स तार्य्यमाणो यमुनां मामुपेत्याब्रवी-त्तदा। सान्त्वपूर्वं मुनिश्रेष्ठः कामार्त्तो मधुरं वचः। तमहंशापभीता च पितुर्भीता च भारत!। वरैरसुलभैरुक्ता नप्रत्याख्यातुसुत्सहे। अभिभूय स मां बालां तेजसा वश-मानयत्। तमसा (कुज्झटिकया) लोकमावृत्य नौगता-मेब भारत!। मत्स्वगन्धो महानासीत्पुरा मम जुगुप्-सितः। तमपास्य शुभं गन्धमिमं प्रादात् स मे मुनिः। ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्। द्वोपेऽस्या[Page2214-b+ 38] एव सरितः कन्यैव त्वं भविष्यसि। पाराशर्य्यो महायोगी स बभूव महानृषिः। कन्यापुत्रो मम पुरा द्वैपायनइति श्रुतः। योव्यस्य वेदांश्चतुरस्तपसा भगवानृषिः। लोकेव्यासत्वमापेदे कार्ष्ण्यात् कृष्णत्वमेव च। सत्यवादी शम-परस्तपस्वी दग्धकिल्विषः। सद्योत्पन्नः स तु महान् सहपित्रा ततो गतः”।
“श्रुत्वा तु सर्पसत्राय दीक्षितं जन-मेजयम्। अभ्यगच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा। जनयामास यं काली शक्त्रेः पुत्रात्पराशरात्। कन्यैययमुनाद्वीपे पाण्डवानां पितामहम्। जातमात्रश्च यःसद्य इष्टं देहमवीवृधत्। वेदांश्चाधिजगे साङ्गान् सेति-हासान्महायशाः। यन्नैति तपसा कश्चिन्न वेदाध्ययनेनच। न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना। विव्या-सैकं चतुर्द्धा यो वेदं वेदविदांवरः। परावरज्ञो ब्रह्मषिःकविः सत्यव्रतः शुचिः। यः पाण्डुं धृतराष्ट्रञ्चविदुरं चाप्यजीजनत्। शान्तनोः सन्ततिं तन्वन्पुण्यकीर्त्तिर्महायशाः”।
“मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः। क्षेत्रे विचित्रवीर्य्यस्य कृष्णद्वैपायनः पुरा। त्रीनग्नीनिव कौरव्यान्जनयामास वीर्य्यवान्। उत्पाद्य धृतराष्ट्रञ्च पाण्डुं वि-दुरमेव च। जगाम तपसे धीमान् पुनरेवाश्रमं प्रति”।
“कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः। विचित्रवीर्य्यक्षेत्रे च पाण्डुश्चैव महाबलः। धर्मार्थकुशलो धीमा-न्मेधावी धूतकल्मषः। विदुरः शूद्रयोनौ तु जज्ञे द्वै-पायनादपि”। भारते नानास्थान
“कृष्णद्वैपायनं व्यासं विद्धि नारायणं विभुम्। कोह्यन्यःपुण्डरीक्षात् महाभारतकृत् भवेत्” बिष्णुपु॰। तस्य विष्णोरबरतारत्वकथा भाग॰
“ततः सप्तदशे जातः सत्य-बत्यां पराशरात्। चक्रे वेदतरोः शाखा द्वापरे सोऽल्प-मेधसः”। अवतारशब्दे

४२

२ पृ॰ विवृतिः। कृष्णेति द्वैपा-यनोति च तस्य नामद्वयम् कर्म्म॰ क्वचिदेकनामताऽपि।
“द्वैपायनेन कृष्णेन नगरे वारणावते” भा॰ स॰

७६ अ॰।
“कार्ष्ण्यात् कृष्णत्वमेव च”
“कार्ष्णं वेदमिमं शृणु” इतिच ब्यस्तप्रयोगः।
“तमहमरागमतृष्णं कृष्णद्वैपायनंवन्दै” वेणीस॰। प्रागुक्तभारते च समस्तप्रयोगः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णद्वैपायन¦ m. (-नः) A name of VYASA, the compiler of the Vedas, and Puranas. E. A compound of two other names of the sage: see कृष्ण, and द्वैपायन।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णद्वैपायन/ कृष्ण--द्वैपायन m. " black islander " , N. of व्यास(compiler of the MBh. and of the पुराणs ; so named because of his dark complexion and because he was brought forth by सत्यवतीon a द्वीपor island in the Ganges) MBh. Hariv. Ba1dar. iii , 3 , 32 Sch. VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṚṢṆADVAIPĀYANA : Vyāsa. (See under Vyāsa).


_______________________________
*6th word in right half of page 429 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कृष्णद्वैपायन&oldid=428323" इत्यस्माद् प्रतिप्राप्तम्