कृष्णसारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसारः, पुं, (कृष्णश्चासौ सारःशवलश्चेति ।) हरिण भेदः । इत्यमरः । २ । ४ । १० । कालसार इति भाषा ॥ (यथा, मनौ २ । २३ । “कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः” ॥) अस्य मांसगुणाः । संग्राहित्वम् । रूचिबलकारि- त्वम् । ज्वरनाशित्वञ्च । इति राजवल्लभः ॥ स्नुही- वृक्षः । शिंशपावृक्षः । इति मेदिनी ॥ खदिर- वृक्षः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=कृष्णसारः&oldid=128479" इत्यस्माद् प्रतिप्राप्तम्