केतक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केतकः, पुं, (कितनिवासे + ण्वुल् ।) केतकीवृक्षः । इति त्रिकाण्डशेषः ॥ (यथा, रघुः ६ । १७ । “विलासिनीविभ्रमदन्तपत्र- मापाण्डुरं केतकवर्हमन्यः” ॥ अस्य पर्य्याया गुणाश्च यथा, -- “केतकः सूचिकापुष्पो जम्बुकः क्रकचच्छदः” ॥ “केतकः कटुकः स्वादुर्लधुस्तिक्तः कफापहः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केतक¦ पु॰ कित--निवासे ण्वुल्।
“केतकः सूचिकापुष्पोजम्बु-कः क्रकचच्छदः” इत्युक्तलक्षणे

१ वृक्षे।

२ तत्पुष्पे न॰।
“स्फुरितभृङ्गमृगच्छवि केतकम्” माघः। गौरादि॰ङीष्।

३ केतकीत्यपि तद्वृक्षे स्त्री।
“सुवर्ण्णकेत-की तुल्या लघुपुष्पा सुगन्धिनी” भावप्र॰।
“केतकः कटुकःस्वादुर्लघुस्तिक्तः कफापहः” भावप्र॰। केतक्याः पुष्पम्अण् तस्य बहुलं लुक् लुकि स्त्रीप्रत्ययस्यापि लुक्। केतक

४ तत्पुष्पे न॰। बहुलग्रहणात् पाटलादिवत् स्त्रीप्रत्ययस्यक्वचित् न लुक्।
“केतकीपत्रगर्भा” अर्च्चयेदित्यमुवृत्तौ
“नकेतक्या सदाशिवम्” नैष॰ टी॰ मल्लिनाथधृतवाक्यम्। आ॰ त॰ शिवपूजनाधिकारे भविष्यपु॰
“केतकी चातिमुक्तञ्च कुन्दो यूथी मदल्लिका। शिरीषसर्ज्जबन्धूककुसु-मानि विवर्ज्जयेत्”। एवं शिवपूजने तत्पुष्पस्य निषेधात्राजनि॰ शिवद्विष्टमिति तत्पर्य्याये उक्तम्। अतएव[Page2230-b+ 38] नैषधे
“विनिद्रपत्रालिगतालिकैतवान्मृगाङ्कचूडामणि-वर्जनार्जितम्। दधानमाशासु चरिष्णु दुर्यशः स कौतुकीतत्र ददर्श केतकम्” नैष॰ वर्ण्णितम् वर्ण्णितञ्च तस्याःक्रकचाकारपत्रावृतत्वादि यथा
“वियोगभाजां हृदिकण्टकैः कटुर्निधीयसे कर्णिशरः स्मरेण यत्। ततोदु-राकर्षतया तदन्तकृद्विगीयसे मन्मथदेहदाहिना। त्वदग्र-सूचीसचिवः स कामिनो र्मनोभवः सीव्यति दुर्यशःपटौ। स्फुटञ्च पत्रैः करपत्रमूर्त्तिभिर्वियोगिहृद्दारुणि दारु-णायसे। धनुर्म्मधुस्विन्नकरोऽपि भीमजापरं परागैस्तवधूलिहस्तयन्। प्रसूनधन्वा शरसात्करोति मामिति क्रु-धाक्रुश्यत तेन कैतकम्”। कैतकमित्यत्र अणो न लुक्। पुष्पफलभिन्ने तु नाणो लुक्।
“अगमत् कैतकं रजः” रघुः। केत + स्वार्थे क।

५ ध्वजे पु॰।
“सारोहायुधकेत-कान्” भा॰ क॰

२४ अ॰ अत्र बहुब्रीहौ--कप् इति तु ज्यायः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केतक¦ mf. (-कः-की) A fragrant plant, (Pandanus odoratissimus.) E. किति to abide, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केतकः [kētakḥ], [कित् निवासे ण्वुल्]

N. of a plant; प्रतिभान्त्यद्य वनानि केतकानाम् Ghaṭ.15.

A banner. -कम् A flower of the Ketaka plant; केतकैः सूचिभिन्नैः Me.23; R.6.17; 13.16.

की N. of a plant (= केतक); हसितमिव विधत्ते सूचिभिः केतकीनाम् Ṛs.2.23.

A flower of that plant; मालाः कदम्बनवकेसरकेतकीभिरायोजिताः शिरसि बिभ्रति योषितो$द्य Ṛs.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केतक m. the tree Pandanus odoratissimus MBh. R. Megh. etc.

"https://sa.wiktionary.org/w/index.php?title=केतक&oldid=497230" इत्यस्माद् प्रतिप्राप्तम्