केदार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केदारः, पुं, (के जले दार आदरो यस्य । यद्वा केन जलेन द्रियते आद्रियते इति । निपातनात् एत्वम् ।) क्षेत्रम् । क्षेत् इति भाषा । इत्यमरः । २ । ९ । ११ ॥ (यथा, मनौ ९ । ३८ । “भूमावप्येककेदारे कालोप्तानि कृषीवलैः । नानारूपाणि जायन्ते वीजानीह स्वभावतः” ॥ क्षेत्रस्थक्षुद्रजलाधारविशेषः । यथा, रामायणे ३ । २२ । १८ । “वृषः पिबति केदारे निश्वासाकुलितं पयः” ॥) केदारजलगुणाः । मधुरत्वम् । विपाके गुरुत्वम् । दोषलत्वम् । “तदेव बद्धमुक्तन्तु विशेषाद्दोषदं भवेत्” । इति राजनिर्घण्टः ॥ (के मस्तके शिखर- देशे दारः प्रश्रवणादिकारणस्वरूपविदीर्णस्थानं अस्य ।) पर्व्वतविशेषः । (के मस्तके शिरःस्थित- जटाभ्यन्तरे गङ्गारूपिणी दाराः पत्नी यस्य सर्व्वत्र निपातनात् एत्वम् ।) शिवः । भूमिभेदः । आलवालम् । इति मेदिनी ॥ (भ्रूमध्यस्थानविशेषः । यथा, हठयोगदीपिकायाम् । ३ । २४ । “कालपाशमहाबन्धविमोचनविचक्षणः । त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः” ॥ “केदारभ्रुवोर्मध्ये शिवस्थानं केदारशब्दवाच्यं तं मनः स्वान्तं प्रापयेत्” । इति तट्टीका ॥ तीर्थ- विशेषः । यथा, महाभारते । ३ । ८३ । ६६ । “केदारे चैव राजेन्द्र ! कपिलस्य महात्मनः । ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः । सर्व्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते” ॥ * ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केदार पुं।
क्षेत्रम्
समानार्थक:वप्र,केदार,क्षेत्र,वलज,करण
2।9।11।1।2
पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु। कैदारकं स्यात्कैदार्यं क्षेत्रं कैदारिकं गणे॥
अवयव : मृद्खण्डः,लाङ्गलकृतरेखा
स्वामी : कृषीवलः
: धान्यसामान्योत्पत्तियोग्यक्षेत्रम्, कलमाद्युत्पत्तियोग्यक्षेत्रम्, यवक्षेत्रम्, यवकक्षेत्रम्, षष्टिकक्षेत्रम्, तिलक्षेत्रम्, माषक्षेत्रम्, उमाक्षेत्रम्, अणुधान्यक्षेत्रम्, भङ्गाधान्यक्षेत्रम्, मुद्गाधान्योद्भवक्षेत्रम्, कुद्रवधान्योद्भवक्षेत्रम्, चणकधान्योद्भवक्षेत्रम्, गोधुमधान्योद्भवक्षेत्रम्, कालयधान्योद्भवक्षेत्रम्, कोधुमधान्योद्भवक्षेत्रम्, प्रियङ्गधान्योद्भवक्षेत्रम्, बीजवापोत्तरं_कृष्टक्षेत्रम्, कृष्टक्षेत्रम्, वारत्रयकृष्टक्षेत्रम्, द्विवारकृष्टक्षेत्रम्, द्रोणपरिमितव्रीहिवापयोग्यक्षेत्रम्, आढकपरिमितव्रीहिवापयोग्यक्षेत्रम्, कुडवपरिमितव्रीहिवापयोग्यक्षेत्रम्, प्रस्थपरिमितव्रीहिवापयोग्यक्षेत्रम्, खारीपरिमितव्रीहिवापयोग्यक्षेत्रम्
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केदार¦ पु॰ के शिरसि दारोऽस्य केन जलेन दारोऽस्य वा नि॰एत्त्वम्। हिमालयस्थे पर्व्वतभेदे तत्स्थे
२ शिवलिङ्गभेदेन॰ तन्माहात्म्यादि स्कन्दपु॰ केदारखण्डे दृश्यं तस्यैवकाशीक्षेत्रे आविर्भावात् काशीस्थे
३ लिङ्गभेदे च न॰तत्कथा काशीख॰
७७ अ॰ यथा
“श्रीपार्व्वथुवाच।
“नमस्ते देवदेवेश! प्रणमत्करुणा-निधे!। वद केदारमाहात्म्यं भक्तानामनुकम्पया। तस्मिन् लिङ्गे सदा प्रीतिस्तव काश्यामनुत्तमा। तद्भक्ताश्चजना नित्यं देवदेव। महाधियः। श्रीदेवदेव उवाच। शृण्वपर्ण्णे! ऽभिधास्यानि केदारेश्वरसंकथाम्। समाक-र्ण्ण्यापि यां पापोऽप्यपाषोजायते क्षणात्। केदारं यातु-कामस्व पुंसोनिश्चितचेतसः। आजन्मसञ्चितं पापंतत्क्षण्णादेव नश्यति। गृहाद्विनिर्गते पुंसि केदारगति-निश्चिते। जन्मद्वयार्जितं पापं शरीरादपि निर्व्रजेत्। मध्यमार्गं प्रपन्नस्य त्रिजन्मजनित त्वघम्। गेहाद्विनिःसृतस्यापि निराशं याति निश्वसत्। सायं केदारकेदारकेदारेति त्रिरुच्चन्। गेहेऽपि निवसन्नूनं यात्राफलमवाप्नुयात्। दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमन्यु चजन्मजन्मकृतात् पापान्मुच्यते नात्रसंशयः हरभ्या। [Page2238-a+ 38] ह्रदे स्नात्वा केदारेशं प्रपूज्य च। कोटिजन्मार्जितैः पापैर्मुच्यते नात्र संशयः। सकृत् प्रणम्य केदारं हरम्पाप-कृतोदकः। स्थाप्य लिङ्गं हृदम्भोजे प्रान्ते मोक्षं गमि-प्यति। हरम्पापह्रदे श्राद्धं श्रद्धया यः करिष्यति। उद्धृत्य सप्त पुरुषान् स्वर्गलोकं गमिष्यति। पुरा रथ-न्तरे कल्पे यदभूदत्र तत् शृणु। अपर्ण्णे! दत्तकर्ण्णा त्वंवर्ण्णयामि तवाग्रतः। एकोब्राह्मणदायाद उज्जयिन्या-इहागतः। कृतोपनयनः पित्रा ब्रह्मचर्य्यव्रते स्थितः। स्थलीं पाशुपतीं काशीं स विलोक्य समन्ततः। द्विजैःपाशुपतैः कीर्ण्णां जटामुकुटमण्डितैः। कृतलिङ्गस-मार्च्चैश्च भूतिभूषितवर्ष्मभिः। भिक्षाकृतान्नसंतुष्टैः प्लुतैर्गङ्गोदकामृतैः। बभूवानन्दितमना व्रतं जग्राहचोत्तमम्। हिरण्यगर्भादाचार्य्यान्महत् पाशुपताभि-धम्। स च शिष्योवशिष्ठोऽभूत् सर्व्वपाशुपतोत्तमः। स्नात्वा ह्रदे हरम्पापे नित्यं प्रातः समुत्थितः। विभूत्या-ऽहरहः स्नाति त्रिकालं लिङ्गमर्च्चयन्। नान्तरं सविजानाति शिवलिङ्गे गुरौ तथा। स द्वादशाव्ददेशीयो-वशिष्ठो गुरुणा सह। ययौ केदारयात्रार्थं गिरिं गौ-रीगुरोर्गुरुम्। यत्र गत्वा न शोचन्ति किञ्चित् संसारिणः क्वचित्। प्राश्योदकं लिङ्गरूपं लिङ्गरूपत्थमागताः। असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः। गुरुर्हि-रण्यगर्भाख्यः पञ्चत्वमगमत्तदा। पश्यतां तापसानांच विमाने सार्व्वकामिके। आरोप्य तं पारिषदाः कैला-समनयन् मुदा। यस्तु केदारमुद्दिश्य गेहादर्द्धपथेऽप्य-हो। अकातरस्त्यजेत् प्राणान् कैलासे स चिरं वसेत्। तदाश्चर्य्यंसमालोक्य स वशिष्ठस्तपोधनः। केदारमेव लिङ्गेषुबह्वमंस्त सुनिश्चितम्। अथ कृत्वा स कैदारीं यात्रांवाराणसीमगात्। अग्रहीन्नियमं चापि यथार्थं चा-करोत् पुनः। प्रतिचैत्रं सदा चैत्र्यां यावज्जीवमहंध्रुवम्। विलोकयिष्येकेदारं वसन् वाराणसीं पुरीम्। तेन यात्राः कृताः सम्यव्षष्टिरेकाधिका मुदा। आनन्द-कानने नित्यं वसता ब्रह्मचारिणा। पुनर्यात्रां स वै चक्रेमधौ निकटवर्त्मनि। परमोत्साहसंतुष्टः पलिता-कलितोऽप्यलम्। तपोधनैस्तन्निघनं शङ्कमानैर्निवारितः।{??}रुण्यपूर्णहृदयैरन्यैरपि च सङ्गिभिः। ततोऽपि नतदुत्साहभङ्गोभूद्दृढचेतसः। मध्ये मार्गं मृतस्यापिगुरोरिव गतिर्मम। इति निश्चितचेतस्के वशिष्ठे ता-{??}से शुचौ। अशूदान्नपरिपुष्टे तुष्टोऽहं चण्डिके![Page2238-b+ 38] ऽभवम्। स्वप्ने मया ससंप्रोक्तो वशिष्ठस्तापसोत्तमः। दृढ-व्रत! प्रसन्नोऽस्मि केदारं विद्धि मामिह। अभीष्टं च वरंमत्तः प्रार्थयस्वाविचारितम्। इत्युक्तवत्यपि मयि स्वप्नो मि-थ्येति सोऽब्रवीत्। ततोऽपि स मया प्रोक्तः स्वप्नोमिथ्याशुचिस्मिते!। भवादृशाममिथ्यैव स्वाध्यायवशवर्त्ति-नाम्। वरं ब्रूहि प्रसन्नोऽस्मि स्वप्नशङ्कां त्यज द्विज!। तव सत्ववतः किञ्चिन्ममादेयं न किञ्चन। इत्युक्तं मेसमाकर्ण्य वरयामास मामिति। शिष्यो हिरण्यगर्भस्यतपस्विजनसत्तमः। यदि प्रसन्नो देवेश! तदा मे येऽनुगा-इमे। सर्व्वे शूलिन्ननुग्राह्या एष एव वरोमम। देवि!तस्येदमाकर्ण्य परोपकृतिशालिनः। वचनं नितरांपीतस्तथेति तसुवाच ह। पुनः परोपकरणं तत्तपोद्विगुणीकृतम्। तेन पुण्येन स मया पुनः प्रोक्तोवरं वृणु। स-वशिष्ठो महाप्राज्ञो दृढपाशुपतस्थितः। देवि। मे प्रार्थ-यामास हिमशैलादिह स्थितिम्। ततस्तत्तपसा तुष्टःकलामात्रेण तत्र हि। हिमशैले स्थितश्चात्र सर्व्वभावेनसंस्थितः। ततः प्रभाते संजाते सर्व्वेषां पश्यतामहम्। हिमाद्रेः प्रस्थितः प्राप्तः स्तूयमानः सुरर्षिभिः। व-शिष्ठं पुरतः कृत्वा सर्व्वसार्थसमायुतम्। हरम्पापह्रदे तीर्थे स्थितोऽहं तदनुग्रहात्। मत्परिग्रहतः सर्वेहरम्पापे कृतोदकाः। आराध्य मामनेनेव पुरुषाः सिद्धि-मागताः। तदा प्रभृति लिङ्गेऽस्मिन् स्थितः साधकसि-द्धये। अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः। तुषा-राद्रिंसमारुह्य केदारं वीक्ष्ययत् फलम्। तत् फलं सप्त-गुणितं काश्यां केदारदर्शने। गौरीकुण्डं यथा तत्रहंसतीर्थञ्च निर्म्मलम्। तथा मधुस्रवा गङ्गा काश्यांतदखिलं तथा। इदं तीर्थं हरम्पापं सप्तजन्माघना-शनम्। गङ्गायां मिलितं पश्चाज्जन्मकोटिशताघहम्। अत्र पूर्ब्बं तु काकोलौ युध्यन्तौ खान्निपेततुः। पश्य-तां तत्र संस्थानां हंसौ भूत्वा विनिर्गतौ। गौरि! त्वयाकृतं पूर्ब्बं स्नानमत्र महाह्रदे। गौरीतीर्थ ततः ख्यातंसर्वतीर्थोत्तमोत्तमम्। अत्रामृतस्रवा गङ्गा महामोहा-न्धकारहृत्। अनेकजन्मजनितं जाड्यध्वंसविधा-यिनी। सरसा मानसेनात्र पूर्ब्बन्तप्तं महत्तपः। अत-स्तन्मानसं तीर्थं जने ख्यातिमिदं गतम्। अत्र पर्ब्बं जनःस्नानमात्रेणैव प्रमुच्यते। पश्चात् प्रसादितश्चाहं त्रिदशैर्मुक्तिदुर्दृशैः। सर्वे मुक्तिं गमिष्यन्ति यदि देवेह मानवाः। केदारकुण्डे सुस्नातास्तन्नश्छित्तिर्भविष्यति। सर्वेषा-[Page2239-a+ 38] मेव वर्णानामाश्रमाणां च धर्म्मिणाम्। तस्मात्तनुवि-सर्गेण मोक्षं दास्यसि नान्यथा। ततस्तदुपरोधेन तथेतिच मयोदितम्। तदारभ्य महादेवि! स्नानात्, केदारकु-ण्डतः। समर्च्चनाच्च भक्त्या वै मम नामजपादपि। नैः-श्रेयसीं श्रियं दद्यामन्यत्रापि तनुत्यजाम्। केदारतीर्थे यःस्नात्वा पिण्डान् दास्यति चात्वरः। एकोत्तरशतं वं-श्यास्तस्य तीर्णा भवाम्बुधेः। भौमवारे यदा दर्शस्तदा यःश्राद्वदोनरः। केदारकुण्डमासाद्य गयाश्राद्धेन किं?ततः। केदारं गन्तुकामस्य बुद्धिर्देया नरैरियम्। काश्यांस्पृश त्वं केदारं कृतकृत्यो भविष्यसि। चैत्रकृष्णच-तुर्दश्यामुपवासं विधाय च। त्रिगण्ड्रषीं पिबन् प्रात-र्मल्लिङ्गमधितिष्ठति। केदारोदकपाने तु यथा तत्र फलंभवेत्। तथाऽत्र जायते पुंसां स्त्रीणां चापि न संशयः। केदारभक्तं संपूज्य वासोऽन्नद्रविणादिभिः। आजन्म-जनितं पापं त्यक्त्वा याति ममालयम्। आषण्मासंत्रिकालं यः केदारेशं नमस्यति। तं नमस्यन्ति सततंलोकपाला यमादयः। कलौ केदारमाहात्म्य योऽपिकोऽपि न वेत्स्यति। योवेत्स्यति च पुण्यात्मा सर्वंवेत्स्यति स ध्रुवम्। केदारेशं सकृत् दृष्ट्वा देवि! मेऽनु-चरो भवेत्। तस्मात् काश्यां प्रयत्नेन केदारेशं विलोकयेत्। चित्राङ्गदेश्वरं लिङ्गं केदारादुत्तरे शुभम्। तस्यार्च्चनान्न-रोनित्यं स्वर्गभोगानुपाश्नुते। केदाराद्दक्षिणे भागे नी-लकण्ठविलोकनात्। संसारोरगदष्टस्य तस्य नास्तिविषाद्भयम्। तद्वायव्येऽम्बरीषेशो नरस्तदवलोकनात्। गर्भवासं न चाप्नोति संसारे दुःखसङ्कुले। इन्द्रद्युम्नेश्वरंलिङ्गं तत्समिपे समर्च्य च। तेजोमयेन यानेन सस्वर्गभु-वि मोदते। तद्दक्षिणे नरोदृष्ट्वा लिङ्गं कालञ्जरेश्वरम्। जराकालं विनिर्जित्य मम लोके वसेच्चिरम्। दृष्ट्वा कामे-श्वरं लिङ्गमुदक् चित्राङ्गदेश्वरात्। सर्व्वत्र क्षेममाप्नोतिलोकेऽत्र च परं दिवि। श्रीस्कन्दौवाच। देवदेवेन!विन्व्यारे! केदारमहिमा महान्। इत्याख्यायि पुराऽ-म्बायै मया ते ऽपि निरूपितः। केदारेश्वरलिङ्गस्यश्रुत्वोत्पत्तिं कृती नरः। शिवलोकसवाप्नोति निष्पा-पोजायते क्षणात्”। लिङ्गपरत्वे न॰ केदारेशकेदारे-{??}रादयोप्यत्र पु॰। वदर्व्याश्रमस्याऽन्तिकस्थे
३ क्षेत्रभेदे
“केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी” देवी-गीता
४ भूमिप्रदेशभेदे अमरः
“मतङ्गस्य च केदारस्तत्रैवकुरुनन्दन!” भा॰ व॰
८४ अ॰।
“केदारे चेव राजेन्द्र![Page2239-b+ 38] कपिलस्य महात्मनः” भा॰
८३ अ॰। जलनिवारणार्थे चतुः-पार्श्वे सेतुबन्धयुक्ते
५ क्षेत्रे
६ आलवाले च मेदि॰
“यथा
“तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्यतद्वदेव चतुष्कोणाद्याकारं भवति” वेदा॰ प॰।
“भूमा-वप्येककेदारे कालोप्तानि कृषीवलैः। नानारूपाणिजायन्ते वीजानीह स्वभावतः” मनुः
“स्थानछेदस्य के-दारमाहुः शल्यबतोमृगः” मनुः। केदारणां समूहः
“केदाराद्यञ् च”
“ठञ् कवचिनश्च” पा॰ यञ् वुञ् ठञ्च। केदारर्य्य कैदारक कैदारिक तत् समूहे न॰
“कैदा-रिकाणामभित समाकुलाः” माघः। अत्र केदारादितिनिर्द्देशात् नि॰ एत्त्वम्। तस्येदमण्। कैदार तत्सम्बन्धि-जलतण्डुलादौ त्रि॰ तद्गुणाः
“केदारं क्षेत्रमुद्दिष्टंकैदारं तज्जलं स्मृतम्। कैदारं वार्य्यभिष्यन्दि मधुरं गुरुदोषकृत्” भावप्र॰।
“कैदारा वातवितपित्तघ्नाः गुरवःकफशुक्रलाः। कषाया अल्पवर्चस्काः मेध्याश्चैव बला-वहाः” भावप्र॰ केदारशाल्यादिगुणा उक्ताः
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केदार¦ m. (-रः)
1. A field, a meadow, a plain.
2. A mountain.
3. A name of SIVA.
4. A particular place, the modern Kedar, part of the Himalaya mountains.
5. A basin for water round the root of a tree.
6. A bed in a garden or field. E. क water, earth, &c. दृ to tear or rend, घञ् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केदारः [kēdārḥ], 1 A field under water; meadow; केदारेभ्यस्त्व- पो$गृह्णन्कर्षका दृढसेतुभिः Bhāg.1.2.41; Ms.9.38,44; cf. the play on words in the Subhās. के दारपोषणरताः ? and the reply is केदारपोषणरताः.
A basin for water round the root of a tree.
A mountain.
A particular mountain forming part of the Himālayas (modern Kedār).
A form of Śiva.
N. of a Rāga (in music).-Comp. -खण्डम् a small dyke, earth raised to keep out water; गच्छ केदारखण्डं बधान Mb.1.3.22. -नाथः a particular form of Śiva.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केदार m. ( n. L. )a field or meadow , especially one under water Mn. ix , 38 and 44 MBh. R. etc.
केदार m. कपिलस्य क्, " कपिल's field " , N. of a तीर्थMBh. iii , 6042 ff.
केदार m. मतङ्गस्य क्, " मतङ्ग's field " , another तीर्थ8159
केदार m. a basin for water round the root of a tree L.
केदार m. a bed in a garden or field W.
केदार m. plain , area Ka1tyS3r. xviii , 5 , 4 Sch.
केदार m. N. of a particular constellation VarBr2.
केदार m. of a राग(in music)
केदार m. of a mountain country (the modern Kedar , part of the हिमा-लयmountains W. ) MBh. vi , 427 NandiP.
केदार m. N. of शिवas worshipped in the हिमा-लय
केदार m. of the author of a work entitled अब्धि
केदार n. N. of a तीर्थMatsyaP.
केदार n. of a लिङ्गib.
केदार n. (in the हिमा-लय) S3ivaP.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a क्षेत्रम् in which वृक performed तपस् to शिव; a तीर्थम् sacred to पितृस् and the goddess मार्ग- दायीनी. भा. X. ८८. १७; M. १३. ३०; २२. ११; १८१. २९.
(II)--one of the forms of ब्रह्मा in the गया stone. वा. १०६. ५६; १११. ७२.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
KEDĀRA : A holy place in the interior of Kurukṣetra. It is mentioned in Mahābhārata, Vana Parva, Chapter 83, that those who bathe in this holy Bath would obtain the fruits of good actions. One of the twelve Liṅgas consecrated in important places, is in Kedāra.
_______________________________
*2nd word in left half of page 403 (+offset) in original book.