केयूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूरम्, क्ली, (के बाहुशिरसि भूषणतां याति । या गत्यां + ऊरः । अलुक् समासः ।) अलङ्कार- विशेषः । ताड इति भाषा । तत्पर्य्यायः । अङ्गदम् २ । इत्यमरः । २ । ६ । १०७ ॥ (यथा, महा- भारते । ६ । ६७ । २१ । “पादानां भूषणानाञ्च केयूराणाञ्च सर्व्वशः । राशयश्चात्र दृश्यन्ते भीष्मभीमसमागमे” ॥)

केयूरः, पुं, रतिबन्धविशेषः । यथा, -- “स्त्रीजङ्घे चैव संपीड्य दीर्भ्यामालिङ्ग्य सुन्दरीम् । कारयेत् ष्ठापनं कामी बन्धः केयूरसंज्ञकः” ॥ इति स्मरदीपिका ॥ अप्रि च । “स्त्रीणां जङ्घान्तराविष्टौ गाढमालिङ्ग्य सुन्दरीम् । कामयेद्विपुलं कामी बन्धः केयूरसंज्ञकः” ॥ इति रतिमञ्जरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूर पुं-नपुं।

प्रगण्डाभूषणम्

समानार्थक:केयूर,अङ्गद

2।6।107।2।1

आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्. केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूर¦ पु॰ के बाहुशिरसि याति या--ऊर किच्च अलुक् समा॰। (वाजु) (ताड)

१ बाहुभूषणे अमरः।
“विदूरे केयूरे कुरुकरयुगे रत्नवलयम्” सा॰ द॰
“केयूरबन्धोच्छ्रसितैर्नुनोद” रघः।

२ रतिबन्धभेदे पु॰ स च द्विधा।
“स्त्रोजङ्घे चैव[Page2241-a+ 38] संपीड्य दोर्भ्यामालिङ्ग्य सुन्दरीम्। कारयेत् स्थापनं कामीबन्धः केयूरसंज्ञितः” स्मरदीपिका।
“स्त्रीणां जङ्घान्त-राविष्टो गाढमालिङ्ग्य सुन्दरीम्। कामयेद्विपुलं कामीबन्धः केयूरसंज्ञितः”। रतिमञ्जरी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूर¦ n. (-रं) A bracelet worn on the upper arm. E. क the head, here implying the head of the arm, यु to join, ऊर aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूरः [kēyūrḥ] रम् [ram], रम् [के बाहुशिरसि यति, या-ऊर किच्च अलुक् समा˚ Tv.] A bracelet worn on the upper arm, an armlet; केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः Bh.2.19; R.6.68; Ku.7.69. -रः A kind of coitus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केयूर n. a bracelet worn on the upper arm MBh. R. Ragh. etc.

केयूर m. id. Bhartr2. ii , 16

केयूर m. a kind of coitus

केयूर m. N. of a समाधिKa1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=केयूर&oldid=497261" इत्यस्माद् प्रतिप्राप्तम्