केवलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवलम्, क्ली, (केवृ ङ सेवने + वृषादित्वात् कलच् । यद्वा, के शिरसि मूर्द्ध्वावच्छेदे वलयति । वल् + अच् । अलुक् समासः ।) निर्णीतम् । इत्यमरमेदि- नीकरौ ॥ ज्ञानभेदः । इति विश्वो हेमचन्द्रश्च ॥ (साङ्ख्यकारिकायां यथा, -- “अविपर्य्ययात् वि- शुद्धं केवलमुत्पद्यते ज्ञानम्” ॥) शुद्धम् । (यथा, रघौ २ । ६३ । “न केवलानां पयसां प्रसूति- मवेहि मां कामदुघां प्रसन्नाम्” ॥) कृत्स्नम् । (यथा, रघुवंशे १० । २९ । “केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास्त्वयि” ॥) असहायः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (अद्वितीयः । यथा, कुमारे ५ । ८३ । “न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्” ॥)

"https://sa.wiktionary.org/w/index.php?title=केवलम्&oldid=128615" इत्यस्माद् प्रतिप्राप्तम्