केशपवनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशपवनीय¦ पु॰ अतिरात्रयागमेदे तत्करणप्रकारादि कात्या॰श्रौ॰

१५ ।

९ ।

२० दर्शितः यथा
“तदन्ते केशवपनीयोऽतिरात्रःपौर्ण्णमासीसुत्यः” सू॰।
“तयोः पशुबन्धयोरन्ते केशवप-नीयसंज्ञः अतिरात्रसंस्थः सोमयागो भवति स च पौ-र्ण्णमासीसुत्यः। ज्यैष्ठ्यां पौर्ण्णमास्यां तस्य सुत्या भवती-त्यर्थः” सं॰ व्या॰। शत॰ व्रा॰

५ ,

५ ,

३ ,

१ , विशेषोदर्शितः
“एतौ पशुबन्धौ इत्युपक्रमे
“अभिषेचनीयेनेष्टा। केशान्न वपते तद्यत् केशान्न वपतेवीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभि-षिञ्चति तस्याभिषिक्तस्य केशान् प्रथमान् प्राप्नोति स यत्केशान् वपेतैतां श्रियं जिह्मां विनाशयेद्व्युदुह्यात्तस्मात्केशान्न वपते संवत्सरम्। संवत्सरसमिता वैव्रतचर्या तस्मात् संवत्सरं न वपते स एष व्रतविस-र्जनीयोपयोगो नाम स्तोमो भवति केशवपनीयः। तस्यैकविंशं प्रातःसवनम्। सप्तदशं माध्यन्दिनं सवनं,पञ्चदशं तृतीयसवनं सहोक्थैः सह षोडशिना सहरात्र्या त्रिवृद्रथन्तरः सन्धिर्भवति एष एवैकविंशो यएष तपति स एतस्मादेकविंशादपयुङ्क्ते स सप्तदशमभि-प्रत्यवैति सप्तदशात् पञ्चदशं पञ्चदशादस्यामेव त्रिवृति प्र-तिष्ठायां प्रतितिष्ठति तस्य रथन्तरं पृष्ठं भवति इयं वैरथन्तरमस्यामेवैतत् प्रतिष्ठायां प्रतितिष्ठत्यतिरात्रो भवतिप्रतिष्ठा वा अतिरात्रस्तस्मादतिरात्रो भवति। स वै न्येववर्तयते। केशान्न वपते वीर्यं वा एतदपां रसः सम्भृतोभवति येनैनमेतदभिपिञ्चति तस्याभिषिक्तस्य केशान् प्रथमान्प्राप्नोति स यत् केशान् वपेतैतां श्रियंजिह्मां विना-शयेद्व्युदुह्यादथ यन्निवर्तयते तदात्मन्यवैतां श्रियं नियु-नक्ति तस्मान्न्येव वर्तयते केशान्न वपते तस्यैषैव व्रतचर्याभवति यावज्जीवं नास्यां प्रतितिष्ठति। आसन्द्या उपा-नहाऽउपमुञ्चते। उपानद्भ्यामधि यदस्य यानं भवतिरथो वा किञ्चिद्वा सर्वं वा एष इदमुपर्य्युपरि भवत्यर्वा-गेवास्मादिदं सर्वं भवति यो राजसूयेन यजते तस्मादस्येवव्रतचर्या भवति यावज्जीवं नास्यां प्रतितिष्टति” मू॰।
“तृतीये केशपनीयातिरात्रस्य वैशेषिका धर्माउच्यन्ते। पशुबन्धद्वयादनन्तरं केशवनीयातिरात्रयागः कर्त्तव्यः। अभिषेचनीयसोमयागं कृत्वा संवत्सरपर्यन्तं केशवप-नाकरणलक्षणं व्रतमाचर्य्यम् ततस्तद्व्रतविसर्जनार्थमेकःसोमयागः पौर्णमासीसुत्यः कार्यः स एव केशवपनीया-[Page2248-b+ 38] तिरात्रौच्यते रात्रिमतीत्य वर्तत इत्यतिरात्रः अतिरा-त्रसंस्थया कार्य्य इत्यर्थः। विदुह्यात् गतसारोऽपि भवेत्। केशवपनार्थमुपयुज्यमानः क्रियमाणः स्तोमः एकविंशादि-स्तोमवान् यागः केशवपनीयः। तत्र सामगैर्गीयमानेषुस्तोत्रेषु चोदकेन प्रातःसवनादिषु त्रिवृदादिस्तोमप्राप्तौतानपवदितुं विशेषं दर्शयति तस्यैकविंशमिति। प्रातःसव-नमेकविंशस्तोमयुक्तं कर्त्तव्यम् माष्यन्दिनं सप्तदशस्तो-मकम् अस्य सोमयागस्यातिरात्रसंस्थानि तृतीयसवनेऽग्नि-ष्टोमवद् द्वादश स्तोत्राणि तत उत्तरं त्रीण्युक्थस्तोत्राणिएकं षोडशिस्तोत्रं रात्रिपर्यायस्तोत्राणि द्वादश तानिसर्वाण्यपि पञ्चदशस्तोमकानि कर्त्तव्यानि। स्तोमत्रिवृत्प्र-चारस्तु प्राचीमारोहेत्यत्र दिक्समारोहणमन्त्रव्याख्या-वसरे दर्शितः। किं च पूर्वदिवसरात्रिशेषे उत्तरदिवस-स्योषःकाले यज्ञसंस्थापकमेकं चरमं स्तोत्रं तृतीयपर्या-यस्यान्ते रथन्तरसाम्ना गातव्यम् तत् सन्धिस्तोत्रमित्युच्यतेतत् स्तोत्रं त्रिवृत्स्तोत्रयुक्तं कार्य्यम्। एकविंशादवरो-हणं त्रिवृत्पर्य्यन्तं यत् स्तोमकरणमुक्तं तत् सूर्य्यलोका-दिक्रमाद् भूम्यवस्थानात्मना प्रशंसति एष एवैकविंश इतिय एष तपति स एकविंशः सूर्य्य इत्यर्थः तस्मादपयुङ्क्तेअवरोहतीत्यर्थः सोऽवरुह्यावरुह्य त्रिवृद्रूपायामस्यां भू-मिलक्षक्षणायां प्रतिष्ठायां प्रतिष्ठितवान् भवति साध्यन्दिनसवने रथन्तरं वृहत्साम वा पृष्ठस्तोत्रं प्रकृतौ वि-कल्पितं अत्रैकं नियमयति तस्य रथन्तरमिति। अस्यसोमकालस्यातिरात्रसंस्थात्वं प्रतिष्ठात्मना प्रशंसति अति-रात्र इति। अतिरात्रसंस्थात्मना कृतएष क्रतुः प्रतिष्ठा-रूपः। अस्य क्रतोः केशावापव्रतविसर्जनार्थं क्रियमाण-त्वात्तदन्ते केशवापः कार्य्यः तत्र कञ्चिद्विशेषं विधत्ते सवैन्येवेति स यजमानो निवर्तयते केशान्निकृन्तेदेव न वपेत्वपनं नाम मुण्डनं तन्न कुर्यात् निवर्तनं कर्तनं तत्कु-र्यात् एषा केशकर्तनलक्षणा व्रतचर्या यावज्जीवनं क-र्त्तव्या न केशमुण्डनं कार्य्यम् कदाचिदप्यनुपानत्-कोऽपादुकः कस्यां चिदपि भूमौ उपानहौ पादुके न प्रतितिष्ठति अवस्थापनं न कुर्य्यात्। आसन्द्या अवरोहणस-मयेऽपि उपानहौ पादुके उपसुञ्चते इतस्ततः संचरण-समये रथं वा यानं वारोहेत्”। भा॰

"https://sa.wiktionary.org/w/index.php?title=केशपवनीय&oldid=295328" इत्यस्माद् प्रतिप्राप्तम्