कैलास

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैलासः, पुं, (के जले लासो लसनं दीप्तिरस्य । “हलदन्तात् सप्तम्याः” । ६ । ३ । ९ । इति अलुक् केलसः स्फटिकमणिः तद्वत् शुभ्रः इत्यण् । यद्वा, केलीनां समूहः । कैलं । “तस्य समूहः” । ४ । २ । ३७ । इत्यण् वृद्धिश्च । कैलेनास्यतेऽत्र । आस् + अधिकरणे घञ् ।) स्वनामख्यातपर्व्वतः । इत्यमरः । १ । २ । ७४ ॥ स च शिवकुवेरयोः स्थानम् । तस्य परिमाणं यथा । “जठरदेवकूटौ मेरोः पूर्ब्बेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः । एवमपरेण पवन- पारिपात्रौ दक्षिणेन कैलासकरवीरौ प्रागा- यतौ” । इति श्रीभागवतम् ॥ (अयं हि वृहत्सं- हितायां कूर्म्मविभागे उत्तरस्यामुक्तः ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैलास पुं।

कुबेरस्थानम्

समानार्थक:कैलास

1।1।70।2।1

अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः। कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्.।

स्वामी : कुबेरः

सम्बन्धि1 : कुबेरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैलास¦ पु॰ के जले लासो लसनं दीप्तिरस्य अलुक्स॰ केलसस्फटिकस्तस्येव शुभ्रः अण्, केलीनां समूहः अण्--कैलं तेनास्यतेऽत्र आस--आधारे घञ् वा। शिवकवेरयोःस्थाने पर्व्वतभेदे। स च वृह॰ सं॰ कूर्म्मविभागे उत्त-रस्यामुक्तः
“उत्तरतः कैलासोहिमवान् गिरिर्धनुष्मां-श्च”। स च अलकासमीपस्थितः
“अलकां समया चैषकैलासः शङ्करालयः” काशी॰

१३ अ॰। तत्स्वरूपञ्चहरिव॰

२१

७ अ॰ वर्ण्णितं यथा
“मन्दरश्चोग्रशिखरः, स्फाटिकैर्म्मणिभिश्चितः। वज्रगर्मै-र्निरालम्बै स्वर्गोपम इवाबभौ। सह शृङ्गैश्च कैलासःशिलाधातुविभूषितः। तोरणैश्चैव निविडैः प्राशुभि-श्चैव पादपैः। प्रवादयद्भिर्गन्धर्ब्बैः किन्नरैश्च प्रगायि-भिः। देवकन्याङ्गहावैश्च प्रकीडित इवाबभौ। मधुरै-र्व्वाद्यगीतैश्च नृत्यैश्चाभिनयोद्गतैः। शृङ्गारैः सुप्र-हावैश्च कैलासो मदनायत”। तस्य विष्णुनाभिपद्मस्य गर्भाङ्वुररूपत्वं हरिवं॰

२०

२ अ॰वर्ण्णित यथा
“तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते। सर्व्वतेजो-गुणमये पार्थिवैर्लक्षणैर्युते। तच्च पद्मं पुराणज्ञाः पृथि-वीरुहमुत्तमम्। नारायणात् समुत्पन्नं प्रवदन्ति महर्ष-यः। या तु पद्मासना देवी तां पृथ्वीं परिचक्षते। ये तुगर्भाङ्कुराः सारास्तान् दिव्यान् पर्व्वतान् विदुः। हिम-वन्तञ्च मेरुञ्च नीलं निषधमेव च। कैलासं क्रौञ्चवन्तञ्चतथाऽद्रिं गन्धमादनम्। पुण्यं त्रिशिखरं चैव कान्तमन्दरमेव च। उदयञ्च गिरिश्रेष्ठं विन्ध्यमस्तञ्च पर्व्वतम्। एते देवगणानाञ्च सिद्धानाञ्च महात्मनाम्। आश्रयाःसर्वभूतानां पुण्याः कामयुजोऽद्रयः। एतेषामन्तरो देशोजम्बुद्वीप इति स्मृतः”। कैलासप्रमाणञ्च भाग॰

५ ,

१६ ,

२३ , उक्तं यथा
“जठ-रदेयकूटौ मेरुं पूर्व्वेण द्वादशयोजनसहस्रमुदगायतौद्विसहस्रपृथुतुङ्गौ मवतः एवमपरेण पवनपारिपात्रौ” दक्षिणेन कैलासकरवीरौ प्रागायतौ”।
“शुभ्रंपाण्डरमेघाभं कैलासञ्च नगोत्तमम्” हरि॰

२२

६ अ॰।
“कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः” मेध॰

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैलास¦ m. (-सः) The mountain Kailasa, the fabulous residence of KUVERA, and favourite haunt of SIVA; it is placed by the Hindus amongst the Himalaya mountains, and the name is given to one of the lof- tiest peaks lying on the north of the Manasa lake. E. कैलास crys- tal, and the affix अण् implying nature or consistence; or कैल plea- sure, आस् to abide, affix यञ्; the place where beings reside in bliss.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैलासः [kailāsḥ], N. of a mountain, a peak of the Himālayas and residence of Śiva and Kubera; कैलासस्य त्रिदशवनिता- दर्पणस्यातिथिः स्याः Me.6; R.2.35. -Comp. -ओकस् m.

निकेतनः, नाथः an epithet of Śiva.

of Kubera; कैलासनाथं तरसा जिगीषुः R.5.28; कैलासनाथमुपसृत्य निवर्तमाना V.1.3.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैलास m. N. of a mountain (fabulous residence of कुबेरand paradise of शिव; placed in the हिमा-लयrange and regarded as one of the loftiest peaks to the north of the मानसlake) MBh. iii , 503 and 1697 Hariv. R. iii , iv , 44 , 27 VarBr2S. etc.

कैलास m. a particular form of temple VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=कैलास&oldid=296546" इत्यस्माद् पुनः प्राप्तिः