कोल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोलम्, क्ली, (कुल् अच् गौरादित्वात् ङीष् । कोली तस्याः फलमित्यण् तस्य लुक् “लुक्तद्धितलुकि” । १ । २ । ४९ । इति ङीषो लुक् ।) वदरीफलम् । तत्पर्य्यायः । कुवलम् २ फेनिलम् ३ सौवीरम् ४ वदरम् ५ घोण्टा ६ । इत्यमरः । १ । ४ । ३६ ॥ पिच्छिलम् ७ स्वादु- फलम् ८ वदरीफलम् ९ । इति शब्दरत्नावली ॥ कोकिलम् १० । इति जटाधरः ॥ अपि च । “पुंसि स्त्रियाञ्च कर्कन्धुर्वदरीकोलमित्यपि । फेनिलं कुवलं घोण्टा सौवीरं वदरञ्च तत् ॥ अजाप्रिया कुहा कोलिविषमो भयकण्टकः” ॥ अथ वदरविशेषाणां लक्षणानि गुणाश्च । “पच्यमानं सुमधुरं सौवीरं वदरं महत् । सौवीरं वदरं शीतं भेदनं गुरु शुक्रलम् ॥ वृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् । सौवीराल्लघु संपक्वं मधुरं कोलमुच्यते ॥ कोलन्तु वदरं दाहि रुच्यमुष्णञ्च वातहृत् । कफपित्तकरं चापि गुरु सारकमीरितम् ॥ कर्क्कन्धुः क्षुद्रवदरं कथितं पूर्ब्बसूरिभिः । अम्लं स्यात् क्षुद्रवदरं कषायं मधुरं मनाक् ॥ स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमास्रजित्” ॥ इति भावप्रकाशः ॥ वदरादिद्वयं शृगालकोलौ । वदरीसदृशा घोण्टा शृगालकोलिः । यदुक्तम् । “वदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोण्टा गोपघोण्टेति चोच्यते” ॥ इति सुभूतिः ॥ “हस्तिकोलिर्गोपघोण्टा घोण्टा च वदरीच्छदा । शृगालकोलिः कर्कन्धुः” इति । रत्नकोषः ॥ केचित्तु कोलादित्रयं वदरीफले सौवीरादित्रयं शृगाल- कोलावित्याहुः ॥ स्वामी तु “कर्कन्धुर्वदरी कोलि- र्घोण्टा कुवलफेनिलौ । सौवीरं वदरं कोलम्” ॥ इति पठति । तत्राद्यास्त्रयो वृक्षार्थाः अन्ये फलार्था घोण्टा तूभयस्पृगिति व्याचष्टे । “सौवीरं वदरं कोलं वदरीणां फलं मतम्” । इति कोषान्तरञ्च । इति भरतः ॥ * ॥ अस्य गुणः । अम्लत्वम् । वायु- कफनाशित्वञ्च ॥ पक्वस्यास्य गुणाः । वायुपित्त- नाशित्वम् । स्निग्धत्वम् । सुमधुरत्वम् । सारकत्वञ्च ॥ शुष्कस्यास्य गुणः । कफवायुनाशित्वम् । पित्तविरोधि- त्वञ्च ॥ पुरातनस्यास्य गुणाः । श्रमतृष्णानाशित्वम् स्निग्धत्वम् । लघुत्वञ्च ॥ अस्य मज्जगुणः । मधुर- त्वम् । पित्तच्छर्द्दितृष्णानाशित्वञ्च । इति राज- वल्लभः ॥ * ॥ तोलकपरिमाणम् । इति वैद्यक- परिभाषा ॥ (यथा, चरके कल्पस्थाने १२ अः । “शाणौ द्वौ द्रंक्षणं विद्यात् कोलं वदरमेव च” ॥) मरिचम् । इति राजनिर्घण्टः ॥ चव्यम् । इति वैद्यकम् ॥
कोलः, पुं, (कोलति कामपि बाधां न मत्वैव शत्रुं प्रति- धावतीति । कुल + अच् ।) शूकरः । (कोलति प्लवते जले इति ।) प्लवः । इत्यमरः । १ । १० । ११ ॥ भेला माड इत्यादि भाषा । अङ्कपालिः । शनिः । चित्रम् । चिता इति भाषा । (कोलन्ति आलिङ्गन्त्यङ्गान्यत्र । कुल + अधिकरणे हलश्चेति घञ् ।) क्रोडम् । इति मेदिनी । देशविशेषः । इति शब्दरत्नावली ॥ अस्त्रभेदः । इति धरणी ॥ वर्णसङ्करजातिविशेषः । (यथा, हरिवंशे । ३२ । १२३ । “पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिव ! । तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः” ॥) स तु लेटात् तीवरकन्यायां जातः । इति ब्रह्म- वैवर्त्तपुराणम् ॥ श्मश्रुधारिम्लेच्छजातिविशेषः । स च पूर्ब्बं क्षत्त्रिय आसीत् सगरराजेनासौ वेदयागादावनधिकारी कृतः । एतद्विवरणं हरि- वंशेः १४ अध्याये द्रष्टव्यम् ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोल पुं।
तृणादिनिर्मिततरणसाधनम्
समानार्थक:उडुप,प्लव,कोल
1।10।11।1।3
उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः। आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी॥
पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः
कोल नपुं।
बदरीफलम्
समानार्थक:कोल,कुवल,फेनिल,सौवीर,बदर,घोण्टा
2।4।36।2।4
श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः। कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले॥
पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
कोल पुं।
वराहः
समानार्थक:वराह,सूकर,घृष्टि,कोल,पोत्रिन्,किरि,किटि,दंष्ट्रिन्,घोणिन्,स्तब्धरोमन्,क्रोड,भूदार
2।5।2।1।4
वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः। दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥
: ग्राम्यसूकरः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोल¦ पु॰ कुल--संस्त्याने अच्।
१ शूकरे
२ प्लवे(भेला) अमरः
३ क्रोडे
४ शनिग्रहे
५ चित्रके (चिता)
६ अङ्कपालौ
७ आ-लिङ्गने मेदि॰।
८ देशभेदे पु॰ ब॰ व॰ शब्दरत्ना॰
९ । अस्त्रभेदे पु॰धर॰
“नेटात् धीवरकत्थाजाते
१० जातिभेदे ब्रह्मवै॰ पु॰।
११ नृपभेदे
“करुत्थामादथाक्रीडश्चत्वारस्तस्य चात्मजाः। पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः। तेषां जन-पदाःस्फीताः पाण्ड्याः कोलाः सकेरलाः” हरिवं॰
३३ अ॰।
१२ मरिचे न॰ राजनि॰
१३ चव्ये(चै)वैद्य॰।
१४ तोलकपरिमाणे वैद्यकम्।
१५ कर्कन्धूवृक्षे स्त्री॰ गौरा॰ ङीष्। तस्याः फलम् अण् तस्य लुक्।
१६ वदरीफले न॰। कर्कन्धूश-ब्दे विवृतिः
“वदरीसडशाकारोवृक्षः सूक्ष्मफलोभवेत्। अटव्यामेव सा घोण्टा कोलवोण्टेति योच्यते” सूभूतिः
“हस्तिकोलिर्गोपघोण्टा घोण्टा च वदरीच्छदा। शृमाल-कोलिः कर्कन्धूः” रत्नकोषः
“आद्यकोलतुलितप्रका-शनैः”।
“यः कोलतां बल्लवताञ्च बिभ्रत्” मावः। कोल-वृक्षश्च सुश्रुते अम्लवर्गे उक्तः। तच्च वाक्यं
३३
३ पृ॰ दृश्यम्
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोल¦ m. (-लः)
1. A hog.
2. A raft, a float.
3. The haunch, the hip or flank.
4. Embracing, an embrace.
5. The planet Sani or SATURN.
6. Plumbago, (Zenlanica &c.)
7. A country, Kalinga, the modern sea coast from Cuttack to Madras.
8. A kind of weapon.
9. An outcast, one of a tribe degraded by SAGARA from the military order.
10. A man of a mixed caste.
11. A barbarian, a Kol, people inhabiting the hills and forests in Central India. n. (-लं)
1. The fruit of the jujube.
2. The weight of one Tola.
3. Black pepper. f. (-ला or -ली)
1. The jujube tree.
2. Long pepper.
3. A kind of pepper, (Piper chavya, Rox.) E. कुल् to accumulate, affix अच्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोलः [kōlḥ], [कुल् संस्त्याने अच्]
A hog, boar; Y.3.273; Śi.14.43,86.
A raft, boat.
The breast.
The haunch, hip, lap.
An embrace.
The planet Saturn.
An out-cast, one of a degraded tribe.
A barbarian.
N. of a tribe inhabiting the hills in Central India.
लम् The weight of one Tola.
Black pepper.
A kind of berry. -Comp. -अञ्चः N. of the country of the Kaliṅgas. -पुच्छः a heron.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोल m. ( g. ज्वला-दि) , a hog(See. क्रोड) Ya1jn5. iii , 273 Vop.
कोल m. a raft DivyA7v. iii
कोल m. the breast , haunch , hip or flank , lap(See. क्रोड) L.
कोल m. an embrace , embracing L.
कोल m. a kind of weapon L.
कोल m. N. of a plant(= चित्र, चित्रक) L.
कोल m. the planet Saturn L.
कोल m. N. of शिवGal.
कोल m. N. of a son of आक्रीडHariv. 1836
कोल m. N. of a degraded warrior-tribe (outcast , one degraded by सगरfrom the military order) Hariv. ( v.l. कोलि-सर्पSee. )
कोल m. a man of a mixed caste BrahmaP.
कोल m. a barbarian , Kol , of a tribe inhabiting the hills in central India W.
कोल mn. the weight of one तोल(= 2 टङ्क[or शाणAsht2a7n3g. ] = 1/2 कर्षS3a1rn3gS. )
कोल mn. Piper Chaba L.
कोल f( आ, ई). the jujube tree L.
कोल n. the fruit of the jujube(See. कुवल) ChUp. vii , 3 , 1 Lalit. Sus3r.
कोल n. black pepper L.
कोल n. the grain of Piper Chaba L.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a कौशिक and a sage. Br. II. ३२. ११८.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Kola, another form of Kuvala, the Zizyphus jujuba, is mentioned in the Chāndogya Upaniṣad (vii. 3, 1).
==Foot Notes==