सामग्री पर जाएँ

क्रिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिया, स्त्री, (क्रियते अनया असौ अस्मिन् इति वा । डु कृ ञ् करणे करणकर्म्माधिकरणादौ च यथायथं श प्रत्ययः । “रिङ् शयग्लिङ्क्षु” । ७ । ४ । १८ । इति रिङादेशः । “अचिश्नुधातु- भ्रुवां य्वोरियङुवङौ” । ६ । ४ । ७७ । इति इयङ् ।) आरम्भः । निष्कृतिः । शिक्षा । पूज- नम् । सम्प्रधारणम् । उपायः । कर्म्म । तन्नव- विधम् । यथा, -- “आरम्भो निष्कृतिः शिक्षा पूजनं सम्प्रधारणम् । उपायः कर्म्म चेष्टा च चिकित्सा च नव क्रियाः” ॥ इति भावप्रकाशः ॥ चेष्टा । चिकित्सा । इत्य- मरः । ३ । ३ । १५६ ॥ कारणम् । इति हेम- चन्द्रः ॥ श्राद्धम् । इत्यमरटीकायां स्वामी ॥ शौचम् । इति शब्दरत्नावली ॥ धात्वर्थः करोत्यर्थो वा । इति वैयाकरणाः ॥ क्रियाः साध्यरूपाः वस्तधर्म्माः पाकादयः एषु हि अधिश्रयणाद्यव- श्रयणान्तादिः पूर्ब्बापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः । इति साहित्यदर्पणम् ॥ चतुः- प्रकारव्यवहारपादान्तर्गतव्यवहारपादविशेषः । सा द्विधा मानुषी दैविकी च । तत्राद्या साक्ष्य- लेख्यानुमानभेदेन त्रिधा । द्वितीया धटाग्न्युदक- विषकोषतण्डलतप्तमाषकफालधर्म्मजभेदेन नवधा दिष्यानि । यथा, -- “द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी । तथा साक्ष्यलेख्यानुमानञ्च मानुषी त्रिविधा स्मृता । धटाद्या धर्म्मजान्ताश्च दैविकी नवधा स्मृता” ॥ इति व्यवहारतत्त्वे वृहस्पतिः ॥ (चिकित्साकार्य्यं यथा, -- चरके सूत्रस्थाने १७ अध्याये ॥ “याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः । सा चिकित्सा विकाराणां कर्म्मतद्भिषजां मतम् ॥ कथं शरीरे धातूनां वैषम्यं न भवेदिति । समानाञ्चानुबन्धः स्यादित्यर्थं क्रियते क्रियाः” ॥ “यात्युदीर्णं शमयति नान्यं व्याधिं करोति च । सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत्” ॥ शीते शीतप्रतीकार उष्णेचोष्मनिवारणम् । कृत्वाकुर्य्यात् क्रियांप्राप्तां क्रियाकालं न हापयेत्” ॥ इति च सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिया स्त्री।

क्रिया

समानार्थक:कर्मन्,क्रिया,कृत्या,लीला

3।2।1।2।2

प्रकृतिप्रत्ययार्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत्. कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः॥

 : मनोव्यापारकर्मः, आह्वानम्, अविमृष्टकृत्यम्, क्रीडा, स्वरूपाच्छादनम्, केशबन्धरचना, भूषणक्रिया, शरीरशोभाककर्मः, गतगन्धस्य_प्रयत्नेनोद्बोधनम्, माल्यादिरचना, यज्ञः, यज्ञार्थं_पशुहननम्, यज्ञकर्मः, दानम्, श्राद्धकर्मः, याचनम्, पूजा, अटनम्, आचमनम्, मौनम्, अभिवादनम्, नैत्यिककर्मः, नियमकर्मः, मुण्डनम्, दूतकर्मः, गजसज्जीकरणम्, युद्धारम्भे_अन्ते_वा_पानकर्मः, युद्धम्, मारणम्, वणिक्कर्मः, मृगया, चोरकर्मः, कलाकौशल्यादिकर्मः, मद्यसन्धानम्, मद्यपानम्, प्रशस्तकर्मः, वशीकरणम्, ओषधीनां_मूलैरुच्चाटनकर्मः, कम्पनम्, प्रीणनम्, सूचीक्रिया, कर्तनम्, अपचयः, ग्राहणम्, शब्दकरणम्, पचनम्, राशीकरणम्, सदृशकरणम्, मारणादिक्रिया, धान्यादीनाम्_बहुलीकरणम्, सूत्रवेष्टनक्रिया, दुर्गप्रवेशनक्रिया, निराकरणम्, जुगुप्सनम्, अम्भसां_रयः, उन्नयनक्रिया, आच्छादनम्, चौर्यादिपरोपद्रवकर्मः, कृच्छ्रादिकर्मः

पदार्थ-विभागः : , क्रिया

क्रिया स्त्री।

आरम्भः

समानार्थक:प्रक्रम,उपक्रम,अभ्यादान,उद्धात,आरम्भ,क्रिया,अथो,अथ

3।3।157।2।1

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्. उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥

पदार्थ-विभागः : , क्रिया

क्रिया स्त्री।

चेष्टा

समानार्थक:उष्ण,क्रिया,भाव

3।3।157।2।1

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्. उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥

 : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया, मुखादिविकासः, अपाङ्गदर्शनचेष्टा, अभिप्रायानुरूपचेष्टा

पदार्थ-विभागः : , क्रिया

क्रिया स्त्री।

निष्कृतिः

समानार्थक:क्रिया

3।3।157।2।1

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्. उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥

पदार्थ-विभागः : , क्रिया

क्रिया स्त्री।

शिक्षा

समानार्थक:क्रिया

3।3।157।2।1

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्. उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥

पदार्थ-विभागः : , पौरुषेयः

क्रिया स्त्री।

पूजनम्

समानार्थक:क्रिया,सु,अति

3।3।157।2।1

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्. उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥

पदार्थ-विभागः : , क्रिया

क्रिया स्त्री।

सम्प्रधारणम्

समानार्थक:क्रिया

3।3।157।2।1

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्. उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥

पदार्थ-विभागः : , क्रिया

क्रिया स्त्री।

उपायः

समानार्थक:योग,क्रिया

3।3।157।2।1

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्. उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

क्रिया स्त्री।

कर्मम्

समानार्थक:क्रिया

3।3।157।2।1

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्. उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥

पदार्थ-विभागः : , क्रिया

क्रिया स्त्री।

रोगनिवारणः

समानार्थक:चिकित्सा,रुक्प्रतिक्रिया,क्रिया

3।3।157।2।1

आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्. उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः॥

अवयव : औषधम्

वृत्तिवान् : वैद्यः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिया¦ स्त्री कृ--भावे करणादौ वा यथायथं श।

१ आरम्भे

२ निष्कृतौ (प्रायश्चित्ते)

३ शिक्षायां

४ पूजायां

५ संप्रधारणे(विवादविचाराङ्गे साधने)

६ सामाद्युपाये।

७ न्यायादिम-तसिद्धे उत्क्षपणादी कर्म्मणि व्याकरणमतसिद्धे

८ धात्व-र्थे

९ चेष्टायां (परिस्पन्दे)

१० चिकित्सायां च अमरः।

११ करणे (अनुष्ठाने) हेम॰।

१२ श्राद्धे क्षीरस्वामी।

१३ शौचेशब्दरत्ना॰।

१४ प्रयोगे च तत्र न्यायमतसिद्धा क्रिया कर्म्म-शब्दे

१७

५५ पृ॰ दर्शिता। कर्म्मत्वलक्षणन्तु औलूक्यशब्देसर्व्व॰ द॰ वाक्ये

१५

८६ पृ॰ उक्तम् तत्र अनित्यमात्र-समवेतत्वे सतीतिशुद्धम् नित्यमात्रसमवेतत्वाभावादित्य-शुद्धम् अनित्यमात्रसमवेतत्वाभावादिति शुद्धम्। वैयाक-रणमते तु धात्वर्थः क्रिया तत्स्वरूपशाब्दबोधप्रकारादिशब्दार्थरत्नेऽस्माभिर्निरूपितं यथा
“क्रिया च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेना-भिधीयमानेति बोध्यम्।
“व्यापारो भावना सैवौत्पादनासैव च क्रियेति” हर्य्युक्तेः
“यावत्सिद्धमसिद्धं वा साध्य-त्वनाभिधीयते। आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधी-यते” इति
“साध्यत्वेन क्रिया तत्र तिङ्पदैरभिधीयते” इति च वाक्यपदीयाच्च।
“यावदिति सर्व्वमित्यर्थः तदेवविवृणीति सिद्धमसिद्धं वेति। सिद्धं वर्त्तमानध्वंसप्रति-योगि, तद्भिन्नमसिद्धं तच्च वर्त्तमानं भविष्यच्चेति द्विविधंतेनापचत् पक्ष्यति पचतीत्यादौ सर्वत्र साध्यत्वेन असत्व-रूपत्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिरनेनदर्शितेति भावः। यौगिकत्वमप्याह आश्रितक्रमरूपत्वा-दिति। आश्रितःक्रमो रूपं यस्यास्तत्त्वात् पूर्वापरीभूता-वयवकत्वादित्यर्थः। तदीयावयवानामधिश्रयणाद्यधःश्रय-णपर्य्यन्तानां क्रमेणोतपत्तेः क्रियापदेन तत्समुदायोऽभिधीयते यत्र च न क्रमिको व्यापारोऽस्ति तत्र रूढि-रादरणीयेति पौर्वापर्य्यारोपेण वा सर्वत्र फलस्य स्वजन-[Page2318-a+ 38] कव्यापारगतपौर्वापर्य्यारोपवत् यौगिकत्वम्। अतएवफलमात्रबोधकस्यापि क्वचित् धातुत्वसिद्धिरिति फलि-तार्थः। इयांस्तु विशेषः पाकैत्यादौ धातुना साध्यत्वेनोपस्थाप्यायाः क्रियायाःसिद्धक्रियारूपे घञर्थे विशेषणत्वंपचतीत्यादौ तु नैवमिति। अतएव
“साध्यत्वेन क्रिया तत्रतिङ्पदैरभिधीयते” इति वाक्यपदीयकारिकाव्याख्यायांभूषणसारदर्पणे तिङ्पदैरित्यतदगुणसंविज्ञानबहुव्रीहिणातिङन्तपदैर्धातुभिरित्यभिरितम्। तेन सर्वत्र धातोःसाध्यरूपकियाबोधकत्वम्। किञ्चक्रमिकावयवानामेकदाऽसत्त्वेऽपि यत्किञ्चिदवयवसत्त्वकाले वर्त्तमानत्वव्यवहारःअवयवावयविनोरभेदारोपात्। भूतभविष्यत्त्वव्यवहारस्तुसर्वेषामवयवानां भूतभविप्यत्त्वयोरेव नतु यत्किञ्चित्-क्रियाव्यक्तिभूतत्वादौ। उक्तञ्च वाक्यपदीये
“गुणभूतैरवयवैःसमूहः क्रमजन्मनाम्। बुद्ध्या प्रकल्पिताभेदः क्रिपेतिव्यपदिश्यते” इति। अस्यार्थः क्रमिकतत्तद्व्यापारं प्रतिगुणभूतैर्गुणभावेन भासमानैरवयवैरुपलक्षितः बुद्ध्याएकत्वबुद्ध्यः प्रकल्पितोऽभेदो यस्मिन् तद्रूपः क्रमजन्मनांव्यापाराणां समूहः क्रियेति। अत्र क्षणनश्वराणांव्यापाराणां मेलनासिद्ध्या बुद्ध्येत्युक्तम् तथा च वुद्धिजन्य-संस्कारद्वारा तेषां मेलनसम्भवैतिं भावः। अतएवभाष्ये
“क्रिया हि नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूता-वयवा न शक्यते पिण्डीभूता निदर्शयितुमिति” व्यापार-समुदायात्मिकायाः कि यायादर्शनायोग्यत्वोक्त्या तदवय-वानां तद्विषयत्वं व्यतिरेकमुखेन दर्शितम्। तस्याश्चाभि-न्नैकबुद्धिविषयतया एकत्वव्यवहारैत्यपि बोध्यम्। अथपाऽनेकव्यापारव्यकिवृत्तिर्जातिरेव क्रियेति सिद्धान्तवल्पआदरणीयः। तस्याश्च व्यक्तिद्वारैव साध्यत्वम् अस्ति चपचित्वादिकं जातिः पचतीत्याद्यनुगतव्यवहारात् तज्जा-तेश्चैक्यादेकत्वव्यवहार इति मन्तव्यम्। तदुक्तं वाक्यपदीये
“जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्त्तिनीम्। अ-साध्यां, व्यक्तिरूपेण सा साध्येत्यभिधीयते” इति। युक्तञ्चै-तत् सवेत्रैव लाघवाज्जातिशक्तिस्वीकारेण पच्यादिधातू-नामपि तत्रैव शक्तिरुचितेति दिक्। सा च क्रियाधातुवाच्या फलव्यापारोभयरूपा, तद्वि शष्टस्यपा वा
“फल-व्याफारयोर्धातुः” इत्यग्रिमवचनात्। व्यवस्थापयिष्यते चमतभेदेव फलव्यापारयोः पृथक्शक्त्या विशिष्टशक्त्या वाधातुवाच्यता। अत्र फलांशस्य कर्त्तुरुद्देश्यत्वेऽपि प्राधा-न्याभावात् व्यापारस्यैवं पाधान्यं समुचितं तस्य च[Page2318-b+ 38] साध्यतया कर्मातिरिक्तसर्वकारकाणां तत्रैव स्वस्वव्यापारद्वारा साधकत्वेनान्वयः कर्मणस्तु फल एव, क्रियाजन्य-फलाश्रयतयैव तस्योद्देश्यत्वादिति विवेकः। उक्तञ्चवाक्यपदीये
“प्राधान्यात्तु क्रिया पूर्वमर्थस्य प्रविभज्यते। साध्यप्रयुक्तान्यङ्गानि फलं तस्याः प्रयोजकमिति”। अर्थस्यफलस्य तदपेक्षयेत्यर्थः। प्राधान्यात् विशेष्यत्वात् साध्यंप्रयुक्तं यैः तानि साध्यसाधकानि अङ्गानि कारका-णीत्यर्थः। अत्र फलस्य क्रियाप्रयोजकत्वाभिधानं तदु-द्देशेनैव क्रियायां प्रवृत्तिरित्येव सिन्धाय। तथा चसर्वो लोकः स्वाभीष्टफलमभिप्रेप्सुस्तत्साधानाय यततेलभते च ततस्तत्तत्फलमुपायसंसाधनेन। एवं च क्रि-याफलं विक्लित्त्यादिकमभीप्सुः पाकाय यतमानो जनःपाकसंसाधनेन फलं लभते। ततश्च फलसाधनतयापाकादेरपीष्टत्वात् साध्यत्वम्। फलावशिष्टक्रियायाधात्व-र्थत्वमते तु विशिष्टत्वेनैवेष्टत्वात् विशिष्टस्यैव साध्यत्वमितिविशेषः। कारकान्वयस्त्वेतन्मते पूर्वोक्तदिशावसेयः एकदे-शान्वयस्वीकाराच्च न कर्म्मणोऽनन्वय इति बोध्यम्। तथा-चैवं रीत्या साध्यत्वेन क्रियां जानता जनेन तस्याःप्राधान्यबुबोधयिषयैवाख्यातान्ततय धातुः प्रयुज्यतेअन्यथा कृदन्ततयेति। एवञ्च मावकृदन्तस्थले धातुनासाध्यरूपक्रियावबोधनेऽपि तस्याः प्रत्ययार्यसिद्धरूपक्रियाविशेषणत्वेन न प्राधान्यम्
“भावप्रधानमाख्या-तमित्यादि” निरुक्तवचनस्य,
“प्रकृतिप्रत्ययार्थयोःप्रत्ययार्थप्राधान्यमिति” न्यायस्य च परस्परं विरोधपरी-हाराय न्यायस्य आख्यात तिरिक्तविषयत्वव्यवस्थाप-नम्। हरिणापि धातुभावकृतोः क्रियावाचित्वावि-शेषेऽपि धातुना साध्यत्वेन, कृता तु सिद्धत्वेन क्रियायाबोधनमिति व्यवस्थापितं यथा
“साध्यत्वेन क्रियातत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घञा-दिनिबन्धनः” इति
“आख्यातशब्दे भागाभ्यां साध्यसाधनव-र्त्तिता। प्रकल्पिता यघा शास्त्रे स घञादिष्वपि क्रमः” इ-त्येताभ्याम्। भागाभ्यां पश्य मृगोधावतीत्यादौ तिङ-न्ताम्यां साध्यसाधनवर्त्तितेति मृगोधावतीत्येतस्य साधन-त्वमपरस्य साध्यत्वं क्रियाकारकभावेन तयोरन्वयात् घञ-र्थक्रियायास्तु इतरक्रियायामेव साधनत्वसिति विवेकः। साध्यत्वञ्च लिङ्गसंख्यानन्वयित्वं तद्विपरीतं सिद्धत्वं त-थाच घञाद्युपस्थाप्यक्रियायाः लिङ्गसंख्यान्वयित्वेनापर-क्रियायां साधनत्वम्। युक्तञ्चैतत् यत् घञन्तादौ द्विवि-[Page2319-a+ 38] धक्रियायाभानं कारकाणां साध्यक्रियायामेवान्वयोपग-मात् कृदन्तस्थले कारकविभक्तिप्रयोगस्य सर्व्वजनीतयासाध्यत्वेन तदुपस्थितावेव कारकान्वयोपपत्तिः।
“साध्यस्यसाधनाकाङ्क्षेति”
“नियतं साधने साध्यं क्रिया नियतसा-धनेति”
“साध्यत्वेन निमित्तानि क्रिया परमपेक्षते” इतिचाभियुक्तोक्तेः। अतएव स्तोकं पाक इत्यादौ द्वितीयान्त-तोपपद्यते साध्यक्रियाफलस्य विशेषणेऽपि द्वितीयानुशास-नात्। घञाद्युपस्थाप्यक्रियाविशेषणस्य तु विशिष्यलिङ्गतयाप्रथमाद्यन्तता
“कृदभिहितो भावो द्रव्यवत् प्रकाशत” इति-भाव्योक्तेः। कृदभिहितः कृता बोधितः। भावो भावनाधात्वर्थस्वरूपमिति यावत् द्रव्येण तुल्यं प्रकाशते द्रव्यध-र्म्मान् लिङ्गसंख्याकारकत्वानि भजते इति यावत्। अत्रद्रव्यत्वं लिङ्गसंख्यान्वयित्वमेव योग्यत्वात् न तु पृथिव्या-द्यात्मकत्वं ज्ञानपाकादौ तदभावात्। नापि
“वस्तूपलक्ष-ण यत्र सर्व्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थोभेद्यत्वेन विवक्षितः” इति पारिभाषिकसर्वनामपरामर्शयोग्यत्वादिरूपं, साध्यक्रियाया अपि तथात्वेनाविशेषापत्तेः। किन्तु सत्वपधानानि नामानीत्येकवाक्यतया सत्वद्रव्ययोःपर्य्यायत्वस्य बहुषुस्थलेषु दशनात् सत्वभूतत्वमेव द्रव्यत्वमितिफलितार्थः
“क्रिया न युज्यते” इत्यादिना लिङ्गाद्ययोग-स्यासत्वलक्षणत्वाभिधानात् तद्योगस्यैव सत्वलक्षणत्वौचि-त्यादिति तु तत्त्वम्। वैयाकरणादिमते चल इत्यादौक्रियायां शक्तिः
“सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासुच” काव्यप॰ उक्तेः।
“असम्पादयतः कञ्चिज्जातिद्रव्य-क्रियागुणैः” माघः। प्रयोगे
“तस्मिन्नु पायाः सर्व्वे नःक्रूरे प्रतिप्रहतक्रियाः” कमा॰
“प्रतिहतक्रियाः विफल-प्रयोगाः” मल्लि॰ करणे (अनुष्ठाने)
“वचसस्तस्य सपदिक्रिया केवलमुत्तरम्” मावः।
“यथाक्रमं पुंसतनादिकाःक्रियाः” रघुः।
“आम्नायस्य क्रियार्थत्वादानर्थक्यमतद-र्थानाम्”
“तद्भूतानां क्रियार्थेन समाम्नायः” जै॰ सू॰। शिक्षायाम्
“क्रिया हि वस्तूपहिता प्रसीदति” रघुः
“चिकित्साया
“क्रियाः (मोघाः) सर्व्वा गतायुषः” सुश्रु॰। कर्म्मणि (स्पन्दे)
“क्षितिर्जलं तथा तेजः पवनीमन एव च। परापरत्वमूर्त्तत्वक्रियावेगाश्रया अमी” भाषा॰।
“यदा-श्रया क्रिया तमविकुर्व्वती नैवात्मानं लभते” शा॰ भा॰।
“क्रियैव कालः इति मते सुतरां नाधिकरणता” ति॰ त॰रघु॰। संयोग विभागयोरसमवायिकारणतावच्छेद-कतया क्रियात्वजातिसिद्धिः।
“क्रियां जातिं योग्यवृत्ति[Page2319-b+ 38] समवायं च तादृशम्। गृह्णाति चक्षुःसम्बन्धादालोकोद्भूतरूपयोः” भाषा॰ तेन योग्यवृत्तेस्तस्याः प्रत्यक्षता” धात्वर्थेव्यापारे
“तेन तुल्यं क्रिया चेद्वतिः” क्रियासमभिहारेयङ्”
“स्वरितञितः कर्त्तृभिप्राये क्रियाफले” पा॰।
“क्रियया यमभिप्रैति” वार्त्ति॰
“क्रियायाः परिनिष्पत्ति-र्यद्व्यापारादनन्तरम्। विवक्ष्यते यदा यत्र करणं तत्तदास्मृतम्”
“कर्त्तृकर्म्मव्यवहितामसाक्षाद्धारयत् क्रियाम्। उपकुर्व्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम्”
“क्रिया-कृतविशेषाणां सिद्धिर्यत्र न विद्यते। दर्शनादनुमानाद्वातत् प्राप्यमिह कथ्यते”।
“निर्द्दिष्टविषयं किञ्चिदुपात्त-विषयं तथा। अपेक्षितक्रियञ्चेति त्रिधाऽपादानमिष्यते”
“धातूपात्तक्रिये नित्यं कारके कर्त्तृतेष्यते” इति च भर्तृ-हरिः।
“क्रियासमभिहारेण विराध्यन्तं क्षमेत कः” माघः। धात्वर्थे फले।
“कर्म्मवत् कर्म्मणा तुल्यक्रियः” पा॰ कर्म्मणा कर्म्मस्थक्रियया तुल्यक्रियः समानाधि-करणक्रियः कर्म्मस्थमात्रस्थक्रियारूपफलकैत्यर्थः। क्रिया-विशेषणम्। अत्र च यथा फलस्य विशेषणत्वेऽपि द्वि-तीया तथा क्रियाविशेषणशब्दे वक्ष्यते। क्रियान्वयिनश्चहरिणा दर्शिता यथा(
“संबोधनान्तं कृत्वोऽर्थः कारकं प्रथमोवतिः। धातु-सम्बन्धाधिकारविहितमसमस्तनञ्। तथा यस्य च भावेनषष्ठी चेत्युदितं द्वयम्। संम्बन्धश्चाष्टकस्यास्य क्रिय-यैवावधार्य्यताम्”। व्यवहाराङ्गक्रियायाम् उदा॰ क्रिया-पादशब्दे वक्ष्यते। श्राद्धे
“चतुर्द्दश्यां क्रियाः कार्य्याअन्येषान्तुविगर्हिताः” म॰ त॰ मरीचिः।
“मृते पितरिपुत्रेण क्रिया कार्य्या विधानतः” शु॰ त॰ मरीचिः।
“सपिण्डसन्ततिर्वापि क्रियार्हा नृप! जायते” तत्रैवविष्णुपु॰।
“ये सपिण्डीकृताः प्रेता न तेषां च पृथक्-क्रिया” ति॰ त॰ शाता॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिया¦ f. (-या)
1. An act, action, acting.
2. Means, expedient.
2. Begin- ning, undertaking.
4. Atonement.
4. Study.
6. Worship.
7. Dis- quisition.
1. Bodily action.
9. Remedying, physical treatment or practice.
10. Instrument, implement.
11. A religious or initiatory ceremony.
12. Obsequies, rites performed immediately after death.
13. Purificatory rites, as ablution, &c.
14. Judicial investigation, by human means, as witnesses, documents, &c. or by superhuman or ordeals of various kinds.
15. In grammar, a verb of two kinds सकर्म्मक्रिया active or अकर्म्मक्रिया intransitive:
16. A noun of action. E. कृ to act, to do, श affix, fem. aff टाप्; the above meanings may be all resolved into the first.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिया [kriyā], [कृ भावे करणादौ वा श cf. P.III]

Doing, execution, performance, accomplishment; उपचार˚, धर्म˚; प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव Me.116.

An action, act, business, undertaking; प्रणयिक्रिया V.4.15; Ms.2.4.

Activity, bodily action, labour.

Teaching, instruction; क्रिया हि वस्तूपहिता प्रसीदति R.3.29. क्रिया हि द्रव्यं विनयति नाद्रव्यम् Kau. A.1.5.

Possession of some act (as of singing, dancing &c.), knowledge; शिष्टा क्रिया कस्यचिदात्मसंस्था M.1.16.

Practice (opp. शास्त्र theory).

A literary work, composition; शृणुत मनोभिर- वहितैः क्रियामिमां कालिदासस्य V.1.2; कालिदासस्य क्रियायां कथं परिषदो बहुमानः M.1.

A purificatory rite, a religious rite or ceremony; Ms.1.43.

An expiatory rite, expiation.

(a) The ceremony of offering oblations to the deceased ancestors (श्राद्ध). (b) Obsequies.

Worship; त्रैतादिषु हरेरर्चा क्रियायै कविभिः 'कृता Bhāg.7.14.39.

Medical treatment, application of remedies, cure; शीतक्रिया M.4 cold remedies.

(In gram.) Action, the general idea expressed by a verb.

Motion.

Especially, motion as one of the seven categories of the Vaiśeṣikas; see कर्मन्.

(In law) Judicial investigation by human means (witnesses &c.) or by ordeals.

Burden of proof; क्रिया स्याद्वादिनोर्द्वयोः, द्वयो- रपि वादिनोः क्रिया प्राप्नोति V. May.

A verb.

A noun of action.

Disquisition.

Study.

Means, expedients.

Instrument, implement.

A construction; कूपप्रपापुष्करिणीवनानां चक्रुः क्रियास्तत्र च धर्मकामाः Bu. Ch.2.12.

Spirit (अध्यात्म) ?; द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् Bhāg.12.6.38. -Comp. -अन्वित a. practising ritual observances.

अपवर्गः completion or termination of an affair, execution of a task; क्रियापवर्गे- ष्वनुजीविसात् कृताः Ki.1.14.

liberation from ceremonial acts, absolution. -अभ्युपगमः a special agreement; क्रियाभ्युपगमात्त्वेतत् बीजार्थं यत्प्रदीयते Ms.9.53; -अर्थ a.

(a Vedic injunction) enjoining some duty.

useful for some purpose; अपि क्रियार्थं सुलभं समित्कुशम् Ku.5.33. -अव- सन्न a. one who loses a law-suit through the statements of the witnesses &c. -आरम्भः Cooking; आत्मार्थं च क्रिया- रम्भः Ms.11.64. -इन्द्रियम् see कर्मेंन्द्रिय.

कलापः the whole body of ceremonies enjoined in the Hindu religious law.

all the particulars or points of any business. -कल्पः a particular mode of diognosis. -काण्डम् The portion of a श्रुति text treating of the sacrifices.

कारः an agent, worker.

a beginner, tyro, a fresh student.

an agreement. -तन्त्रम् one of the four classes of Tantras; Buddha. -द्वेषिन् m. a witness whose testimony is prejudicial to the cause (one of the five kinds of witnesses). -द्वैतम् efficient cause. -निर्देशः evidence. -पटु a. dexterous. -पथः mode of medical treatment. -पदम् a verb. -पर a. diligent in the performance of one's duty. -पादः the third division of a legal plaint; that is, witnesses, documents and other proofs adduced by the plaintiff or complainant. -माधुर्यम् beauty of art and architecture; अहो क्रियामाधुर्यं पाषाणानाम् Pratimā 3. -यज्ञः religious rites (such as गर्भाधानसंस्कार); Mb.1.18.5.

योगः connection with the verb.

the employment of expedients or means; तदा तत्प्रतिकाराच्च सततं वा विचिन्तनात् । आधिव्याधिप्रशमनं क्रियायोगद्वये न तु ॥ Mb. 3.2.23.

the practical form of Yoga philosophy i. e. active devotion. -लोपः omission or discontinuance of any of the essential ceremonies of the Hindu religion; क्रिया- लोपाद् वृषलत्वं गताः Ms.1.43. -वशः necessary influence of acts done. -वाचक, -वाचिन् a. expressing any action, as a verbal noun. -वादिन् m. a plaintiff, complainant.-विधिः a rule of action, manner of any rite; अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः Ms.9.22.

विशेषणम्, an adverb.

a predicative adjective. -शक्तिः f. the power of god (in creating this world). -संक्रान्तिःf. imparting (to others) one's knowledge; teaching; विवादे दर्शयिष्यन्तं क्रियासंक्रान्तिमात्मनः M.1.19. -समभिहारः [cf. P.III.1.22] the repetition of any act; क्रियासम- भिहारेण विराध्यन्तं क्षमेत कः Śi.2.43.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिया f. ( Pa1n2. 3-3 , 100 ) , doing , performing , performance , occupation with (in comp. ) , business , act , action , undertaking , activity , work , labour. Ka1tyS3r. Mn. Ya1jn5. etc.

क्रिया f. bodily action , exercise of the limbs L.

क्रिया f. (in Gr. )action (as the general idea expressed by any verb) , verb Ka1s3. on Pa1n2. 1-3 , 1 etc. (according to later grammarians a verb is of two kinds , सकर्म-क्रिया, " active " , and अकर्म-क्, " intransitive ")

क्रिया f. a noun of action W.

क्रिया f. a literary work Vikr.

क्रिया f. medical treatment or practice , applying a remedy , cure(See. सम-क्रिय-त्वand विषम-क्) Sus3r.

क्रिया f. a religious rite or ceremony , sacrificial act , sacrifice Mn. Ya1jn5. MBh. etc.

क्रिया f. with चरमा, " the last ceremony " , rites performed immediately after death , obsequies , purificatory rites (as ablution etc. ) MBh. iv , 834 R. vi , 96 , 10

क्रिया f. religious action , worship BhP. vii , 14 , 39 Ra1matUp.

क्रिया f. Religious Action (personified as a daughter of दक्षand wife of धर्मMBh. i , 2578 Hariv. 12452 BhP. ; or as a daughter of कर्दमand wife of क्रतुBhP. )

क्रिया f. judicial investigation (by human means , as by witnesses , documents , etc. , or by superhuman means , as by various ordeals) Comm. on Ya1jn5.

क्रिया f. atonement L.

क्रिया f. disquisition L.

क्रिया f. study L.

क्रिया f. means , expedient L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Kardama married to Kratu. Mother of 6,००० Va1lakhilyas. भा. III. २४. २३; IV. 1. ३९.
(II)--a daughter of दक्ष, and a wife of Dharma; mother of Yoga and of Manus; फलकम्:F1:  भा. IV. 1. ४९ and ५१; Br. IV. 1. २४.फलकम्:/F also of Naya, दण्ड (Dama-ब्र्। प्।) and Samaya (शम-ब्र्। प्।), (Vinaya- वि। प्।). फलकम्:F2:  Br. II. 9. ४९, ६०; वा. १०. २५, ३५; ५५. ४३; Vi. I. 7. २३ and २९.फलकम्:/F
(III)--the wife of Samanantara. भा. VI. १८. 4.
(IV)--a R. from the ऋक्ष hills. Br. II. १६. २९.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KRIYĀ : One of the daughters of Dakṣa. Dharmadeva married her and three sons Daṇḍa, Naya and Vinaya were born to him of Kriyā. (Viṣṇu Purāṇa, Aṁśa I, Chapter 7).


_______________________________
*9th word in right half of page 417 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्रिया&oldid=497689" इत्यस्माद् प्रतिप्राप्तम्