क्रियायोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियायोगः, पुं, (क्रियैव योगः योग उपायः ।) देवा- राधनतदालयादिकरणरूपपुण्यक्रिया । यथा, -- नारद उवाच । “क्रियायोगः कथं प्रोक्तस्त्वया मे प्रपितामह ! । तदहं श्रोतुमिच्छामि फलं चास्य यथातथम् ॥ ब्रह्मोवाच । ज्ञानयोगस्तु योगस्य यस्तु साधनमात्मना । यस्तु वाह्यार्थसंयोगः क्रियायोगः स उच्यते ॥ प्रधानं कारणं योगो मुक्तेर्मुनिवरोत्तम ! । क्रियायोगस्तु योगस्य परमं तात ! साधनम् ॥ यदेतद्भवता पृष्टं तदिहैकमनाः शृणु । यैस्तु देवालयं विष्णोः शुभं दारुमयं कृतम् ॥ कारयेन्मृण्मयं वापि शृणु तस्य फलं मुने ! । अहन्यहनि योगेन यजतो यन्महाफलम् ॥ प्राप्नोति तत् फलं विष्णोर्यः कारयति मन्दिरम् । कुलानां शतमागामि समतीतं तथा शतम् ॥ कारयेद्भगवद्धाम नयत्यच्युतमन्दिरम् । सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥ विष्णोरालयविन्यासप्रारम्भादेव नश्यति । पतितं पतमानन्तु तथार्द्धपतितं तथा ॥ समुद्धृत्य हरेर्द्धाम द्विगुणं फलमाप्नुयात् ॥ “प्रतिमां लक्षणवतीं यः कुर्य्याच्चैव मानवः ॥ केशवस्य परं लोकमक्षयं प्रतिपद्यते । अनुज्ञातो मया राज्ये यमो राजाथ किङ्कराः ॥ केवलं ये जगद्धाममनन्तं समुपाश्रिताः । भवद्भिः परिहार्य्यास्ते तेषां नास्तीह संस्थितिः ॥ नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम् । यैर्भावभावितैर्दूतास्ते च त्याज्याः सुदूरतः ॥ दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति । श्रद्धापुरःसरैर्नित्यं ते च त्याज्याः सुदूरतः” ॥ इत्याद्ये वह्निपुराणे वैष्णवक्रियायोगे यमानुशासन- नामाध्यायः ॥ तथा च पातञ्जले । “तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियायोग¦ पु॰ क्रियैव योगः योगोपायः।
“तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगाः” इति पातञ्जलसूत्रमाष्याद्युक्तेयोगोपायभूते क्रियाभेदे। तस्य योगोपायत्वादिदर्शकं[Page2328-b+ 38] तद्वाक्यं कर्म्मयोगशब्दे

४७

११ पृ॰ दर्शितम्।
“ज्ञानयोगस्तुयोगस्य यस्तु साधनमात्मना। यस्तु बाह्यार्थसंयोगः क्रि-यायोगः स उच्यते। प्रधानं कारणं योगोमुक्तेर्मुनि-वरोत्तम!। क्रियायोगस्तु योगस्य परमं तच्च साधनम्” अग्निपु॰। मत्स्यपु॰

५२ अ॰ विस्तरेणोक्तं यथा(
“कर्म्मयोगञ्च वक्ष्यामि यथा विष्णुविभाषितम्। ज्ञानयोगसहस्राद्धि कर्म्मयोगः प्रशस्यते। कर्म्मयोगो-द्भवं ज्ञानं तस्मात्तत्परमम्पदम्। कर्म्मज्ञानोद्भवं ब्रह्मन च ज्ञानमकर्म्मणः। तस्मात कर्म्मणि युक्तात्मा त-त्त्वमाप्नोति शाश्वतम्। वेदोऽखिलो धर्म्ममूलमाचारश्चैवतद्विदाम्। अष्टावात्मगुणास्तस्मिन् प्रधानत्वेन संस्थिताः। दया सर्वेषु भूतेषु क्षान्तीरक्षारतुस्य तु। अनसूयातथा लोके शौचमन्तर्बहिर्द्विजाः!। अनायासेषु कार्येषुमाङ्गल्याचाससेवनम्। न च द्रव्येषु कार्पण्यमार्तेषूपा-र्जितेषु च। तथाऽस्पृहा परद्रव्ये परस्त्रीषु च स-र्व्वदा। अष्ठावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः। अयमेव क्रियायोगो ज्ञानयोगस्य साधकः। कर्म्मयोगंविना ज्ञानं वस्यचिन्नेह दृश्यते। श्रुतिस्मृत्युदितं धर्म-मुपतिष्ठेत् प्रयत्नतः। देवतानां पितॄणाञ्च मनुष्याणाञ्चसर्व्वदा। कुर्यादहरहर्यज्ञैर्भूतर्षिगणतर्पणम्। स्वाध्या-यैरर्चयेच्चर्षीन् होमैर्विद्वान् यथाविधि। पितॄन् श्राद्धैर-न्नदानैर्भूतानि वलिकर्म्मभिः। पञ्चैते विहिता यज्ञाःपञ्चसूनापनुत्तये। कण्डनी पेषणी चूल्ली जलकुम्भी प्र-मार्जनी। पञ्च सूना गृहस्थस्य तेन स्वर्गे न गच्छति। तत्पापनाशनायामी पञ्चं यज्ञाः प्रकीर्तिताः। द्वाविंशतिस्तथाष्टौ च ये संस्काराः प्रकीर्त्तिताः। तद्युक्तोऽपि नमोक्षाय यस्त्वात्मगुणवर्जितः। तस्मादात्मगुणोपेतः श्रुति-कर्म्म समाचरेत्। गोब्राह्मणानां वित्तेन सर्वदा भद्रमा-चरेत्। गोभूहिरण्यवासोभिर्गन्धमाल्योदकेन च। पू-जयेद् ब्रह्मविष्ण्वर्करुद्रवस्वात्मकं शिवम्। व्रतोपवासैर्विधिवत् श्रद्धया च विमत्सरः। योऽसावतीन्द्रियः शान्तःसूक्ष्मोऽव्यक्तः सनातनः। वासुदेवो जगन्मूर्त्तिस्तस्य स-म्भूतयो ह्यमो। ब्रह्मा विष्णुश्च भगवान् मार्त्तण्डो वृष-वाहनः। अष्टौ च वसवस्तद्वदेकादशगणाधिपाः। लोक-पालाधिपाश्चैव पितरो मातरस्तथा। इमा विभूतयःप्रोक्ताश्चराचरसमन्विताः। ब्रह्माद्याश्चतुरो मूलमव्यक्ता-धिपतिः स्मृतः। ब्रह्मणा चार्थ सूर्येण विष्णुनाथ शिवेनवा। अभेदात् पूजितेन स्यात् पूजितं सचराचरम। [Page2329-a+ 38] ब्रह्मादीनां परन्धाम त्रयाणामपि संस्थितिः। वेदमूर्ता-वतः पूषा पूजनीयः प्रयत्नतः। तस्मादग्निद्विजमुखान्कृत्वा सपूजयेदिमान्। दानैर्व्रतोपवासैश्च जपहोमादिनानरः। इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्-सलस्य। विकर्म्मभीतस्य सदा न किञ्चित् प्राप्तव्यमस्तीहपरे च लोके”।

२ क्रियासम्बन्धे
“उपसर्गाः क्रियायोगे” पा॰ पद्मपुराणे क्रियायोगसारे विवृतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियायोग/ क्रिया-योग m. the connection with an action or verb APra1t. Pa1n2. 1-1 , 14 Ka1r.

क्रियायोग/ क्रिया-योग m. the employment of expedients or instruments MBh. iii , 69 Sus3r.

क्रियायोग/ क्रिया-योग m. the practical form of the योगphilosophy (union with the deity by due performance of the duties of every day life , active devotion) Yogas. ii , 1 BhP. iv , 13 , 3

क्रियायोग/ क्रिया-योग m. N. of wk.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a form of active worship of Hari; फलकम्:F1: भा. XII. ११. 3; M. 1. 3; ५२. 7-११. २७-28.फलकम्:/F Brahman becomes नारायण thereby; incumbent on householders; no ज्ञानम् without कर्म; consists of 8 आत्मगुणस्; is dharma. फलकम्:F2: M. १३४. १७-18; १४५. २७-28; २५८. 1-3.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=क्रियायोग&oldid=497704" इत्यस्माद् प्रतिप्राप्तम्