क्रियाविशेषण

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियाविशेषण¦ न॰

६ त॰। धात्वर्थसाध्यरूपक्रियायाः शाब्द-बोधे विशेषणत्वेन भासमाने पदार्थे। शब्दार्थरत्ने विवृतिः
“आख्यातं सकारकविशेषणमिति” भाष्योक्तवाक्यलक्षणेविशेषणपदस्य कारकविशेषणक्रियाविशेषणोभयपरतयाकारकविशेषणानां क्रियाविशेषणानां कारकभिन्नसम्बो-धनादीनां च वाक्यघटकत्वम्। तानि च वाक्यपदीयेकतिचित् संगृह्य प्रदर्शितानि यथा
“संबोधनान्तं कृत्वो-ऽर्थः कारकं प्रथमोवतिः। धातुसम्बन्धाधिकारनिष्पन्नम-नमस्तनञ्। तथा यस्य च भावेन षष्ठी चेत्यु दितंद्वयम्। सम्बन्धश्चाष्टकस्यास्य क्रिययैवावधार्य्यताम्”। अत्र यद्यपि सम्बोधनस्य सर्व्वत्र प्रकृतक्रियान्वयित्वं नसम्भवति तथापि जानीहीत्यध्याहृतक्रियान्वयितया त-स्याश्च प्रकृतक्रियायामन्वयात् परम्परया भवत्येव प्रकृत-क्रियान्वयित्वम्। तथाहि
“सिद्धस्याभिमुखीभावमात्रंसम्बोधनं विदुः। प्राप्ताभिमुख्यः सम्बोध्यः क्रियासुविनियुज्यते” इति वाक्यपदीये क्रियासु नियोज्यस्यैवसंबोध्यतोक्त्या विनियोगविषयक्रियायामेव तस्य माधुत्वात्ब्रजानि देवदत्तेत्यादौ तु देवदत्तस्य गमनक्रियायां वि-नियोगाभावेनाध्याहर्त्तव्यायां जानीहीत्यादिक्रियाया-मेवान्वयौचित्यात् तत्क्रियायाञ्च व्रजानीत्यादिक्रियायाविषयत्पादिसम्बन्धेन विशेषणत्वादेकवाक्यत्वम्। अन्यथाव्रजानि देवदत्तेत्यनयोरुभयवाक्यघटकत्वे तयोश्च परस्पर-नन्वयेनैकवाक्यत्वाभावेन समानवाक्यमात्रविषयनिघातानुप-पत्तेः। तथाहि पदादित्यधिकृत्य सर्व्वमनुदात्तमपदादा-विति” चोपक्रम्य आमन्त्रितस्य चेति” सूत्रेण अष्टमाध्यायेपदादुत्तरवर्त्तिनो ऽपादादिस्थितस्यामन्त्रितस्य षष्ठाध्याय-विहिताद्युदात्तत्वं निहत्य सर्व्वामुदात्तत्वं विहितं वा-र्त्तिककारेण च
“समानवाक्ये निघातयुष्मदस्मदादेशाः” इत्यनेन आद्युदात्तत्वनिवातः एकवाक्यएव ध्यवस्थापि-तोऽतः ब्रजानि देवदत्तेत्यनयोरुक्तरीत्येकवाक्यत्वएवनिघातो नान्यथेति। उक्तञ्ज वाक्यपदीये
“संबोधनपदं यच्चतत् क्रियायाविशेषणम्। व्रजानि देवदत्तेति निघातोऽत्र[Page2331-a+ 38] तथासतीति”। अत्रेदं बोध्यम् विशेष्यतेऽनेनेति व्युत्प-त्त्या विशेषणपदं भेदाभेदान्यतरसम्बन्धेनान्वयिविशेषणपरंतत्र कारकादीनां भेदसम्बन्धेन क्रियायामन्वयात् भेदवि-शेषणत्वम् स्त्रोकं पचतीत्यादौ तु विक्रित्तिरूपधात्वर्थफले,द्रुतं गच्छतीत्यादौ धत्वर्थव्यापारे गत्यादौ च अभेदेनान्व-यात्स्तोवादेरभेदविशषणत्वम्। अत्रायं भेदः साध्यरूपक्रि-याया विशेषणत्वे तस्याश्च लिङ्गसंख्यान्वयित्वाभावेन तद्विशे-षणस्य साममान्यत्वात् क्लीवता उत्सर्गतोभावाख्यातवदेकव-चनान्तता च तेन स्तोकं पच्यते इत्यादि साधु। घञद्यान्तेतु साष्यसिद्धोभयक्रिययोर्धातुप्रत्ययाभ्यां बोधनस्य क्रिया-शब्दे दर्शितत्वेन धातुबोध्यसाध्यरूपक्रियाविशेषणत्वविव-क्षायामेकवचनक्लीवता घञ्वाच्यसिद्धक्रियान्वयविवक्षायां तुविशेष्यस्य लिङ्गसंख्यान्वयित्वेन तद्विशेषणस्य द्विवचनपुं-स्त्वत्वादि। अतएव
“सञ्चारो रतिमन्दिरावधि सखीकर्ण्णावधि व्याहृतमिति”
“आगमीनिष्फलस्तत्रभुक्तिः स्तो-कापि यत्र नो” इति च प्रयोगः संगच्छते। फलविशिष्टस्यकर्मणः कर्म्मसंज्ञाविधानेन व्यपदेशिवद्भावपरिभाषयासाध्यक्रियाविशेषणस्य कर्म्मत्वम् तेन स्तोकभीशब्दस्यकारकपर्ब्बकत्वात् यण्। तत्र पदसाधुतामात्रार्थं द्विती-यामात्रविधाने तन्न स्यात् इति बोध्यम्। अस्य च एकव-चनान्ततेत्युक्तिरप्यौत्सर्गिकी क्वचित् द्विवचनादिप्रयोगो-भवत्येव उक्तञ्च हरिणा
“एकत्वेऽपि क्रियाख्याते साधना-श्रयसंख्यया। भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयइति”। उत्सर्गतएकत्वे सत्यपि साधनाश्रयसंख्ययाख्यातेक्रिया भिद्यते इत्यर्थः। अत्राख्यात इत्युपादानात्आख्यातार्थाश्रयसंख्ययैव क्रियाभेदो नतु तृतीयाद्युप-स्थाप्याश्रयसंख्ययापि तेन चैत्राभ्यां सुप्यते इत्यादौ नद्विवचनादि नवा नामार्थलिङ्गेन क्रियाभेदो लिङ्गस्येतरपदोपात्तत्वात्। एवञ्च लिङ्गसंख्यानन्वयित्वरूपासत्व-लक्षणे संख्याविशेषस्य साक्षादनन्वयित्वयिवक्षणाल्लिङ्गमा-त्रस्य वा तथात्वविवक्षणान्न दोषैत्यनुसन्धेयम्। उष्ट्रा-सिका आस्यन्ते हतशायिकाः शय्यन्ते इत्यादि भाव्योदा-हरणे च उपमानोष्ट्रासनादिबाहुल्येनोपमेयासनादेर्बा-हु त्यस्य विवक्षणाष्ट्रवेऽपि बहुवचनादीत्याकरे स्पष्टम्। उष्ट्रासिकापदञ्च द्वितीयाबहुवचनान्तं क्रियाविशेषणतयाद्वितोयोत्पत्तेर्बाहुत्येनैवोपमानविवक्षणात् बहुबवचनम्” अत्र मतभेदेन शब्दशक्ति प्र॰ विशेषोदर्शितो यथा
“भावविहितानामपि घञादीनामुक्तैव गतिः तत्रापि[Page2331-b+ 38] भावपदस्य धत्वर्थस्वरूपपरत्यात्। अन्यथा पाकं पश्ये-त्यादौ धत्वर्थस्य पचनादेः कर्म्मत्वादावन्वयापत्तेः सुबर्येधात्वर्थस्यान्वयस्याव्युत्पन्नत्वात् इत्यमेव च स्तोकः पाकइत्यादिप्रयोगस्य परिशिष्टाद्युक्तस्य प्रामाण्यम् अन्यथास्तोकादीनां धत्वर्थे विशेषणत्वे नियमतो द्वितीयापत्तेःअतएव
“सञ्चारोरतिमन्दिरावधि सखीकर्णावधिव्याहृतम्” इत्यादिकं काव्यम्
“आगमोनिष्फलस्तत्र भुक्तिः स्तोकापियत्र नो” इत्यादिः स्मतिश्च सङ्गच्छतैति नव्याः। स्वोत्तर-प्रत्ययार्थसाकाङ्क्षस्यैव धातोरर्थे विशेषणतापन्नस्य बोधनेतदर्थकनाम्नोद्वितीयाद्यपेक्षा नतु धातुमात्रस्य तथाच स्तोकःपाक इत्यादिरेव प्रमाणं नतु स्तोकं पाकैत्यादिः। पृथग्रूपक्रियाया विशेषणं कर्म्मेत्याद्यनुशिष्टेरपितत्रैव तात्पर्य्यात्। अतएव स्तोकं स्थीयते साधु गतंचकितं द्रष्टव्यमित्यादौ धात्वर्थस्य तिङाद्यर्थकालादिसा-काङ्क्षत्वान्न तद्विशेषणस्य द्वितीयाद्यनुपपत्तिरिति तुशाब्दिकसम्प्रदायः”। भेदसम्बन्धेन क्रियायामन्वयिविशेषणे तु पौनःपुन्येनगच्छति अतिशयेन पचति समेनैति विषमेनैतीत्यादिषुप्रकृत्यादि॰ तृतीया। क्वचित् धात्वर्थस्य करणत्वेनान्वयेतद्विशेषणोभूतात् तृतीयादि यथा स्वर्गकामोऽश्वमेधेनयजेत” इत्यादौ यागेनेष्टं भावयेदिति भाट्टमते यागस्य क-रणतया भावनायामन्वयात् अश्वमेधस्य तत्राभेदविशेषण-त्वेन तद्वद्विभक्तिकत्वम्। अन्यमते तु नाम्ना शिव इत्यादि-वत् अभेदे तृतीयेति भेदः। मुग्धबोधे
“कर्मक्रियाविशेषणे-त्यादि” कर्मसंज्ञाद्वितोयाविधानञ्च अभेदान्वयिविशेषणप-रम्। भेदविशेषणे तु तृतीयैष। तत्रायं विशेषः क्रिया-याम् अभेदसम्बन्धेनान्वयविवक्षायां द्वितीया। अभेद-प्रकारकान्वयविवक्षयां तु तृतीया।

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियाविशेषण/ क्रिया-विशेषण n. " that which defines an action more closely " , an adverb Pa1n2. 2-3 , 33 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=क्रियाविशेषण&oldid=497711" इत्यस्माद् प्रतिप्राप्तम्