क्लम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लम, उ भ इर् ग्लानौ । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सेट् । उदित्वात् क्त्वावेट् ।) अन्तःस्थ- तृतीययुक्तः । उ, क्लमित्वा क्लान्त्वा । भ, क्ला- म्यति । भ्वादिपक्षेऽपि शमादित्वं “ष्ठिवुक्लमाचम” इति दीर्घज्ञापनार्थम् । इर्, अक्लमत् अक्लमीत् । इवि दुर्गादासः ॥

क्लम, ञि य भ ग्लानौ । इति कविकल्पद्रुमः ॥ (दिवां-परं-अकं-सेट् ।) अन्तःस्थतृतीययुक्तः । ञि, क्लान्तोऽस्ति । य भ, क्लाम्यति । इति दुर्गादासः ॥

क्लमः, पुं, (क्लम + भावे घञ् । “नोदात्तोपदेशस्येति” । ७ । ३ । ३४ । इति न वृद्धिः ।) आयामः । इत्यमरः । ३ । २ । १० ॥ (यथा, मनौ । ७ । २२५ । “तत्र भुक्त्वा पुनः किञ्चित् तूर्य्यघोवैः प्रहर्षितः । संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ अस्य लक्षणं यथा, -- “योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्ज्जितः । क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः” ॥ इति सुश्रुतेन शारीरस्थाने चतुर्थाध्याये उक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लम पुं।

ग्लानिः

समानार्थक:क्लमथ,क्लम

3।2।10।2।6

विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा। प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लम¦ ग्लानौ दिवा॰ पर॰ अक॰ सेट् शमा॰। क्लाम्यति अक्लमीत्चक्लाम। उदित् क्लमित्वा--क्लान्त्वा। क्लान्तः। घञ्न वृद्धिः क्लमः। क्लम्यते अक्लमि।
“क्लमं ययौ कन्दुक-लीलयाऽपि या”
“अह्नाय सा नियमजं क्ललमुत्ससर्ज” कुमा॰
“न चक्लाम न विव्यथे” भट्टिः
“तपः क्लमं साध-यितुं य इच्छति” शकु॰

क्लम¦ ग्लानौ भ्वा॰ पर॰ अक॰ सेट्। क्लमति इरित् अक्लमत्अक्लमीत् चक्लाम। क्लमित्वा। क्लमितः।

क्लम¦ पु॰ क्लम--भावे घञ् अवृद्धिः।
“योऽनाय सः श्रमोदेहेप्रवृद्धः श्वाससङ्गतः। क्लमः स इति विज्ञेय इन्द्रियार्थप्रवाधकः”। भावप्र॰ उक्ते श्रमभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लम (उ, भ, ञ, इर) क्लमु¦ r. 4th cl. (क्लाम्यति) To be fatigued, to be weary or exhausted.

क्लम¦ m. (-मः) Fatigue, weariness, exhaustion. E. क्लम् to be weary, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लमः [klamḥ] क्लमथः [klamathḥ] क्लमथुः [klamathuḥ], क्लमथः क्लमथुः Fatigue, languor, exhaustion; विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः Śi.4.66; Ms.7.151; Ś.3.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लम m. fatigue , exhaustion , languor , weariness MBh. S3ak. iii , 18 Sus3r. BhP.

क्लम m. ( ifc. Mn. etc. ; f( आ). MBh. Nal. )

"https://sa.wiktionary.org/w/index.php?title=क्लम&oldid=497765" इत्यस्माद् प्रतिप्राप्तम्