क्लेश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लेश, ङ वधे । उपतापे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं उपतापार्थे अकं-सेट् ।) ङ, क्लेशते चिक्लेशे । धातुप्रदीपे तु क्लेष व्यक्तायां वाचीति मूर्द्धन्यान्तो दृश्यते । क्लेषते न वृथावाक्यमिति । हलायुधोऽपि । इति दुर्गादासः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लेश पुं।
क्लेशः
समानार्थक:आदीनव,आस्रव,क्लेश
3।2।29।2।3
निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने। आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लेश¦ पु॰ क्लिश भावे घञ्। उपतापे दुःख क्लिश्नन्ति क्लिश-बाधते कर्त्तरि अच। पातञ्जनोक्तेषु अविद्यादिषुपञ्चषु।
“क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषविशेषईश्वरः” पात॰ सू॰।
“अविद्यादयः क्लेशाः” भा॰।
“क्लिप्नन्ति खल्वमी पुण्यं सांसारिकं विविधदुःखप्रहा-रेणेति” विवरणम्। अविद्यादीनां यथाक्लेशहेतुत्वात्तच्छब्दवाच्यत्वम् तया तेषां निरोधोपायश्च तत्रेव साधन-पादे दर्शितो यथा
“अथ के क्लशाः कियनोवेति” मा॰
“अविद्याऽस्मितारागद्वेषाऽभिनिवेशाः पञ्च क्लेशाः” सू॰।
“इति पञ्च विपर्य्यया इत्यर्थः। ते स्पन्दमाना गुणा-धिकारं दृढयन्ति परिणाममवस्थापयन्ति कार्य्यकारण-स्रोतौन्नमयन्ति परस्परानुग्रहतन्त्रीमूत्वा कर्म्मविपाकंचाभिनिर्हरन्ति” भाष्यम्।
“पृच्छति अथेति। अविद्येति सूत्रेण परिहारः। अविद्यादयः क्लेशाः। व्याचष्ट पञ्च विपर्य्यया इति। अविद्या तावाद्वपर्य्यय एव अस्मितादयोऽप्यविद्योपादा-नास्तदविनिर्भागवर्त्तिन इति विपय्ययाः। ततश्चाविद्या-समुच्छेदे तेषामपि समुच्छेदोयुक्त इति भावः। तेषा-मुच्छेतव्यताहेतुं संसारकारणत्वमाह ते स्पन्दमानाः। समुदाचरन्तो गुणानामधिकारं दृढयन्ति बलबन्तं कुर्व्वन्तिअतएव परिणाममवस्थापयति अव्यक्तमडदहङ्कारपरम्प-रया हि कार्य्यकारणत्रोत उन्नमयन्ति द्वद्भावयन्ति। यदर्थंसर्व्वमेतत् कुर्वन्ति तद्वर्श॰ ति परस्परेति। कर्म्मणांविपाको जात्यायुर्भोगलक्षणः पुरुषार्थ तममी क्ल{??}अभिनिर्हरन्ति निप्पादपन्ति। किं प्रत्येकं? नेत्याहपरस्परानुग्रहेति कर्म्मभिः क्लराः क्लेशैश्च कर्माणीति” वाचस्पतिविवरणम्।
“अविद्याक्षत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्” सू॰
“अत्राऽविद्या क्षेत्रं प्रसवभूमिरुत्तरेपामस्मितादीनां चतु-र्विधकल्पितानां प्रसुप्ततनुपिच्छिन्नोदाराणाम्। तत्र काप्रमुप्तिः? चेतसि शक्तमात्रपतिष्ठानां वीजभावोपगमःतस्य प्रबोध आलम्बने संमुखीभावः प्रसंख्यानवतो दग्धक्लेशवीजस्य संमुखीभूतेऽप्यालम्बतेनाऽसौ पुनरस्ति दग्धवीजस्यकतः प्ररोहृ इति। अतः क्षीणक्लेशः कुशलश्चरमदेह[Page2348-b+ 38] इत्युच्यते तत्रैव सा दग्धवीजभावा पञ्चमी क्लेशावस्थानान्यत्रेति सतां क्लेशानां तदा वीजसामर्थ्यं दग्धमितिविषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ताप्रसुप्तिर्दग्धवीजानाम् अप्ररीहश्च। तनुत्वमुव्यते प्रतिप-क्षभावनोपहताः क्लेशास्तनवो भवन्ति। तथा विच्छिद्यविच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तोति वि-च्छिन्नाः कथं? रागकाले क्रोधस्यादर्शनात्। न हि राग-काले क्रोधः समुदाचर त रागश्च क्वचित् दृश्यमानोविषयान्तरे नास्ति, नैकस्यां स्त्रियां चैत्रोरक्त इति अन्यासुस्त्रीषु विरक्तः, किन्तु तत्र रागोलब्धवृत्तिः, अन्यत्र भवि-ष्यद्वृत्तिरिति स हि तदा प्रसुप्ततनुर्विच्छिन्नोभवति। वि-षये यो लब्धवृत्तिः स उदारः। सर्व्वएवै ते क्लेशविषयत्वंनातिक्रामत्ति। कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारोवाक्लेशः? इति, उच्यते सत्यमेवैतत् किन्तु विशिष्टानामेवैतेषांविच्छिन्नादित्वं यथैव प्रतिपक्षभावमातोनिवृत्तं तथैव स्व-व्यञ्जकाञ्जनेनाभिव्यक्तम् इति सर्व्वे एवामी क्लेशा अवि-द्याभेदाः कस्मात्? सर्व्वेषु अविद्यैवाभिप्लवते यदविद्ययावस्त्वाकार्य्यते तदेवानुशेरते क्लेशाः विपर्य्यासप्रत्ययकालेउपलभ्यन्ते क्षीयमाणां चाविद्यामनुक्षीयन्त इति” भा॰।
“हेयानां क्लेशानामविद्यामूलत्वं दर्शयति अविद्याक्षेत्र-मित्यादि। तत्र का प्रसुप्ति रति स्वोचितामर्थक्रियामकुव तांक्लेशानां सद्भावे न प्रमाणसस्तीत्यभिप्रायः पृच्छतः। उत्तरंचेतसीति। मा नामार्थक्रियां कार्षुः क्लेशाः विदेह-प्रकृतिलयानां वीजभाव प्राप्तास्तु ते शक्तिमात्रणसन्ति क्षोर इव दधिनोऽविवेकख्यातेरन्यदस्ति कारणंतद्बन्ध्यतायाम् अतोविदेहप्रकृतिलया विवेकख्यातिविरहिणः प्रसुप्तक्लेशा न यावदवधिकालं प्राप्नुवन्ति,ततः प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशास्तेषुतेषु विषयेषुसंमुत्रीभवन्ति। शक्तिमात्रेण प्रतिष्ठा येषां ते तथो-क्ताः। तदनेनोत्पत्तिशक्तिरुक्ता वीजभाबोपगम इति चकार्य्यशक्तिरिति। ननु विवेकख्यातिमतोऽपि क्लेशाःकस्मान्न प्रसुप्ताः? इत्यत आह प्रसंख्यानवत इति। चरमदेहो न तस्य देहान्तरसुत्पत्स्यते यदपेक्षयास्यदेहः पूर्व इत्यर्थः। विदेहादिष्वित्यर्थः नान्यत्र ननु सतोनात्यन्तविनाश इति किमिति तदीययोगर्द्धिबलेनविषयसंमुखीभावेन क्लेशाः प्रबुध्यन्ते इत्यत आह सता-मिति। सन्तु क्लेशाः दग्धस्तेषां प्रसङ्ख्यानाग्निनावीजभाव इत्यर्थः। क्लेशप्रतिपक्षः क्रियायोगस्तस्य[Page2349-a+ 38] भावनमनुष्ठानं तेनोपहवास्तनवः अयवा स यगज्ञान-मविद्यायाः प्रतिपक्षः, भेददर्शनमस्मिमाया माध्यस्थ्यरागद्वेषयोः, अनुवन्धवुद्धिनिवृत्तिरभिनिवेशस्येति। विच्छि-त्तिमाह तथेति। क्लेशानामन्यतमेन समुदाचरता-ऽभिभवाद्वाऽत्यन्तविषयसेवया वा विच्छिद्यविच्छिद्य तेन ते-नात्मना समुदाचरन्ति आविर्भवन्ति वीजीकरणाद्यु पयोगे-न वाभिभावकदौर्बल्येत् वेति। वीपसया च विच्छदममुदा-चारयोः पीनःपुन्यं दर्शयता यथाक्तात् प्रतुप्तात् भेद उ-क्तः। रागेण वा समुदाचरता विजातीयः क्रोधीऽभिभयतेसजातीयेन वा विषयान्तरवर्त्तिना रागेणैव विषयान्तर-वर्त्ती रागोऽभिभूयत इत्याह रागेति भविष्यद्वलेस्त्रयीगतिः यथायोगवेदितव्येत्याह। सहीति भविष्यद्वृ-त्तिक्लेशमात्रपरामर्शि सर्वनाम। न चैत्ररागपरामर्शि तस्यविच्छिन्नत्वादेवेति। उदारमाह विषय इति। ननुउदार एव पुरुषान् क्लिश्नातीति भवतु क्लेशो अन्येत्वकिश्ननः कयं क्लेशा? इत्यत आह। सर्व एवैतेइति क्ले-शविषधत्वं क्लेशपदवाच्यत्वं नातिक्रामन्ति उदारतामापद्यमानाः अतएव तेऽपि हेयाइति भावः। क्लेशत्वेनैकतांसन्यमानश्चोदयति कस्तार्ह? इति। क्लेशत्वेन समानत्वेऽपियथोक्तावस्थाभेदाद्विशेष इति परिहरति उच्यते सत्यमितिस्यादेतदविद्यतो भवन्तु क्लेशाः, तथाप्यविद्यानिवृत्तौ क-स्मान्निवर्त्तन्ते? न खलुपटः कुविन्दनिवृत्तौ निवर्त्तते इ-त्यत आह मर्वएवेति भेदाइव भेदास्तदविनिर्भागवर्त्तिनइति यावत् कस्मात्? इति प्रश्नः। उत्तरं सर्वे ष्वति तदेवस्फुटयति यदिति आकार्य्यते समारोप्यते शेषं सुगमम्
“प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम्। विच्छि-न्नोदारूपाश्चक्लेशाविषयसङ्गिनामिति” संग्रहः” विव॰।
“क्लेशप्रहाणमिह लब्धसवीजयोगाः”
“क्लेशकर्मफलभोगवर्ज्जितम्” माघः।
“दाशरथ्योः क्षणक्लेशः” रघुः
“क्लेशः फलेन हि पुनर्नवतां निधते” कुमा॰
“यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम्” मनुः।
“तत्याजननिरेवास्तु जननीक्लेशकारिणः” माघः
२ कोपे
३ व्यवसाये मेदि॰। तयोरपि तद्धेतुत्वात्तथात्वम्।
“अथे क्लेशतमसोः” पा॰ हन्तेःड। क्लेशापहः पुत्र
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लेश¦ r. 1st cl. (क्लेशते)
1. To speak articulately,
2. To distress.
3. To im- pede or obstruct.
4. To kill, to strike.
क्लेश¦ m. (-शः)
1. Pain, affliction or distress.
2. Pain from disease, an- guish. Worldly occupation, care, trouble.
4. Wrath, anger. E. क्लिश् to suffer or inflict pain, affix घञ्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लेशः [klēśḥ], [क्लिश्-भावे घञ्]
Pain, anguish, suffering, distress, trouble; किमात्मा क्लेशस्य पदमुपनीतः Ś.1; क्लेशः फलेन हि पुनर्नवतां विधत्ते Ku.5.86; Bg.12.5.
Wrath, anger.
Care, trouble.
Worldly occupation.
Sin (in the Buddhist sense); अविद्या$स्मितारागद्वेषाभिनिशाः क्लेशाः Yoga Sūtra 2.3. अपि च क्लेशान् विहाय मम शत्रुबुद्धिरे नान्यत्र Nāg.3; अनुकम्प्यतामसौ राज्यस्य कृते क्लेशदासीकृतो तपस्वी ibid.-Comp. -अपह a. allaying pain, consoling, palliative. (-हः) a son. -कर a. causing pain or trouble. -क्षमा a. capable of enduring trouble.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लेश m. pain , affliction , distress , pain from disease , anguish S3vetUp. Mn. Ya1jn5. MBh. etc.
क्लेश m. (in योगphil. five क्लेशs are named , viz. अ-विद्या, " ignorance " , अस्मि-ता, " egotism " , राग, " desire " , द्वेष, " aversion " , and अभिनिवेश, " tenacity of mundane existence " Yogas. Prab. Sarvad. ; the Buddhists reckon ten , viz. three of the body [murder , theft , adultery] , four of speech [lying , slander , abuse , unprofitable conversation] , three of the mind [covetousness , malice , scepticism] Buddh. Sarvad. )
क्लेश m. wrath , anger L.
क्लेश m. worldly occupation , care , trouble(= व्यवसाय) L.
क्लेश etc. See. क्लिश्.