सामग्री पर जाएँ

क्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष, क्षकारः । (अयन्तु ककारषकारयोगेन जातः । अतोऽस्य पृथक् वर्णत्वशङ्का नास्त्येव ।) तन्त्रमते तु व्यञ्जनचतुस्त्रिंशवर्णः । अष्टमवर्गीयपञ्चमवर्णः । एकपञ्चाशन्मातृकावर्णानां चरमवर्णश्च । यथा, -- “पञ्चाशल्लिपिभिर्माला विहिता सर्व्वकर्म्मसु । अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता ॥ क्षार्णं मेरु मुखं तत्र कल्पयेन्मुनिसत्तमः । अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः” ॥ इति गौतमीयतन्त्रम् ॥ * ॥ कण्टदेशोद्भवोऽयम् । यथा, -- श्रीशिव उवाच । “विशेषं कथयाम्यद्य प्रोच्चार्य्याः कण्ठतः स्वराः । ऋद्वयं जिह्वया मूर्द्ध्ना ऌद्वयं जिह्वदन्तजम् । मुखस्थानाद्धलो वाच्याः क्षकारः कण्ठघातजः” ॥ इति वरदातन्त्रे १० पटलः ॥ * ॥ अस्य स्वरूपं यथा, -- “क्षकारं शृणु चार्व्वङ्गि ! कुण्डलीत्रयसंयुतम् । चतुर्व्वर्गमयं वर्णं पञ्चदेवमयं सदा । पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा ॥ त्रिविन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् । शरच्चन्द्रप्रतीकाशं हृदि भावय सुन्दरि !” ॥ इति कामधेनुतन्त्रम् ॥ * ॥ अस्याभिधानानि यथा, -- “क्षः कोपस्तुम्बुकः कालो रूक्षः सम्बर्त्तकः परः । नृसिंहो विद्युता माया महातेजा युगान्तकः ॥ परात्मा क्रोधसंहारौ बलान्तो मेरुवाचकः । सर्व्वाङ्गः सागरः कामः संयोगान्त्यस्त्रिपूरकः ॥ क्षेत्रपालो महाक्षोभो मातृकान्तानलः क्षयः । मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः । छायापुत्त्रश्च संघातो मलयश्रीर्ललाटकः” ॥ इति तन्त्रशास्त्रे वर्णाभिधानम् ॥ * ॥ अपि च । “क्षकारो नरसिंहश्च मेरुः सम्बर्त्तकोऽपि च । तव स्नेहान्मया देवि ! कथितं मातृकाक्षरम् । पर्य्यायैरपि विज्ञेयं न प्रकाश्यं कदाचन” ॥ इति श्रीरुद्रयामले ८ पटले मन्त्राभिधानम् ॥ * ॥ अस्य ध्यानं यथा, -- “चतुर्भुजां रक्तवर्णां शुक्लाम्बरविभूषिताम् । रत्नालङ्कारसंयुक्तां वरदां पद्मलोचनाम् ॥ ईषद्धास्यमुखीं लोलां रक्तचन्दनचर्च्चिताम् । शंदात्रीञ्च चतुर्व्वर्गप्रदां सौम्यां मनोहराम् ॥ गन्धर्व्वसिद्धदेवाद्यैर्ध्यातामाद्यां सुरेश्वरीम् । एवं ध्यात्वा क्षकारन्तु तन्मन्त्रं दशधा जपेत्” ॥ इति वर्णोद्धारतन्त्रम् ॥ क्षकारस्य ककारषकार- योगजत्वेन केचित् पृथग्वर्णत्वेन न मन्यन्ते । तेषां मते तन्त्रोक्तैकपञ्चाशद्वर्णानुपपत्तिः तन्त्रशास्त्रे तस्य मेरुत्वेन गणनानुपपत्तिश्च भवति । अतः पृथङ्निर्दिश्यते इति केचित् । तथा च । “षान्ताः स्युर्यद्यपि क्षान्ता वर्णानामनुरोधतः । पृथक्क्रमेण कथ्यन्ते तथाप्येते समन्वयात्” ॥ इति विश्वप्रकाशः ॥ अपि च । “अकारादिलकारान्ता वर्णाः पञ्चाशदीरिताः । संयोगात् कषयोरेषः क्षकारो मेरुरीरितः” ॥ इति कृष्णानन्दधृततन्त्रशास्त्रम् ॥

क्षः, पुं, (क्षयति लोकान् युगान्तकाले प्रलये सर्व्वाणि भूतानि महाकालोदरं प्रेरयतीति । क्षि क्षये + ड प्रत्ययः ।) सम्बर्त्तः । (क्षिणोति हन्ति मनु- ष्यादिजीवानिति । राक्षसः । (क्षिणोति हन्ति हिरण्यकशिघाद्यसुरानिति ।) नरसिंहः । (क्षयति क्षिणोति वा भूतानि स्वकीयाग्निना इति ।) विद्युत् । (क्षयति शस्याद्युत्पत्त्या क्रमशः इति । क्षि + डः ।) क्षेत्रम् । क्षेत्रपालः । (क्षि क्षये + भावे डः ।) नाशः । इति मुद्राङ्कितमेदिनी ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष¦ पु॰ क्षि--बा॰ ड।

१ संवर्त्ते

२ राक्षसे

३ नरसिंहे

४ विद्यति

५ क्षेत्रे

६ क्षेत्रपाले

७ नाशे च मेदि॰। तस्य वाचकशब्दाःतन्त्रशास्त्रे वर्ण्णाभिधाने उक्ता यथा
“क्षः कोपस्तुम्बुकः कालोरूक्षः संवर्त्तकः परः। नृसिं-होविद्युता माया महातेजा युगान्तकः। परात्मा क्रोध-संहारौ वर्णात्तो मेरुवाचकः। सर्वाङ्गः सागरः कामःसंयोगान्तस्त्रिपूरकः। क्षेत्रपालो महाक्षोभी मातृका-न्तोऽनलः क्षयः। मुखं कव्यवहानन्ता कालजिह्वा गणे-श्वरः। छायापुत्रश्च संघातोमलयश्रीर्ललाटगः” अत्र संयो-गान्त इत्युक्तेः शब्दकल्पद्रुमेक्षकारस्य वर्ण्णान्तरत्वकल्पनम्लोकशास्त्रविरुद्धत्वादतीव प्रामादिकम्। तथाहिअस्य कषयाः संयागजत्वेन कादित्वम। पृथग्वर्ण्णत्वे[Page2351-b+ 38] चक्षमे चुक्षोद चिक्षेपेत्यादिकपदं न सिद्ध्येत् असंयक्त-तया हलादिशेषाप्रसक्तौ कवर्गादित्वाभावेन चुत्वा-प्रसक्तेः। किञ्च संयुक्तवर्ण्णात् पूर्ब्बस्य गुरुत्वेन
“निपीययस्य क्षितिरक्षिणः कथाम्” नैषधे
“लाङ्गूलविक्षपविसर्पिशोभैः कुमारादौ काव्ये च
“गजारूढोयाति-क्षितिपतिरित्यादौ”
“दक्षिणे कालिकेति” च भैवरतन्त्रोक्तकालीस्तवे च सर्वत्र तत्पूर्ब्बस्य गुरुत्वे सत्येव छन्दोनु-गुणता असंयुक्तवर्ण्णत्वे सर्बत्र छन्दोभङ्गः स्यात्। न चतस्यासंयुक्ततया क्वचिदपि तत्पूर्ब्बस्य लघुत्वं दृष्टम्। अतएव कविकल्पद्रमे”
“स्वदाद्यन्तादिमक्रमः” इति प्रति-ज्ञाय कादिष्वेव क्षकारादिधातुपाठः मेदिन्यादौ कोषेऽनितथैव कादिषु तस्य पाठः। तन्त्रेतु कषयोः संयोगजत्वेऽपि मातृकावर्ण्णानामेक-पञ्चाशत्संख्यापरिपूर्त्त्यै लकारवत् पृथक कीर्त्तनंन्यासादिकार्य्यार्थं
“पञ्चाशल्लिपिभिर्माला विदिता सर्व्व-कर्मसु। अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता। क्षर्णं मेरुमुखं तत्र कल्पयेनमुनिसत्तम!। अनया सर्त्र-मन्त्राणां जपः सर्वसमृद्धिदः” इति गोतमतन्त्रोक्तजपा-ङ्गमालाकल्पनार्थञ्च न वर्ण्णान्तरत्वार्थम्। एवं सर्वसामञ्जस्येवर्णान्तरत्वकल्पनं लोकशास्त्रविरुद्धत्वादुपेक्ष्यम्।
“विशेषंकथयाम्यद्य प्रोच्चार्य्याः कण्ठतः स्वराः। ऋद्वयं जिह्वयामूर्द्ध्ना ऌद्वयं दत्तजिह्वया। मुखस्थानाद्धलोवाच्याः क्षकारःकण्ठघातजः” इति वरदातन्त्रे

१० पटले तस्य कण्ठ-स्थानोच्चर्य्यत्वीक्तिरपि आद्यककाराभिप्रायेण द्रष्टव्या।
“अतएव षान्ताः स्युर्यदि वा क्षान्ता वर्ण्णानामनुरोधतः। पृथक् क्रमेण वक्ष्यन्ते तथाऽप्येते समन्वयात्” विश्व-प्रकाशे तस्य उभयरूपतासमन्वय उक्तः। तत्समन्वयश्च-उक्तरीत्या बोध्यः। एतेन वङ्गानां खतुल्यत्वेन मैथि-लानां च तस्य छकारत्वेनोच्चारणं प्रामादिकमेव।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष¦ m. (-क्षः)
1. A destruction of the world.
2. A demon, a goblin.
3. The third incarnation of VISHNU, the Narasinha Avatar.
4. Lightning.
5. A field.
6. A peasant, a husbandman.
7. Loss, disappearance. E. क्षि or क्षै to waste, &c. affix क।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षः [kṣḥ], 1 Destruction.

Disappearance, loss.

Lightning.

A field.

A farmer.

Viṣṇu in his 4th or Narasiṁha incarnation.

A demon.

क्षम् [kṣam], 1 Ā., 4 P. (क्षमते, क्षाम्यति, चक्षमे, चक्षाम, क्षान्त or क्षमित)

To permit, allow, suffer; अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य R.7.34;12.46.

To pardon, forgive (as an offence); क्षान्तं न क्षमया Bh.3.13; क्षमस्व परमेश्वर; निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः R.14. 58.

To be patient or quiet, wait; स मुहूर्तं क्षमस्वेति (v. l. सहस्वेति) द्विजमाश्वास्य दुःखितम् R.15.45.

To endure, put up with, suffer; अपि क्षमन्ते$स्मदुपजापं प्रकृतयः Mu.2; नाज्ञाभङ्गकरान् राजा क्षमेत स्वसुतानपि H.2.15.

To oppose, resist; Rām.7.58.6.

To be competent or able (to do anything); ऋते रवेः क्षालयितुं क्षमेत कः क्षपा- तमस्काण्डमलीमसं नभः Śi.1.38,9.65. -Caus. To beg pardon, forgive; एको$थवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् Bg.11.42.

क्षम् [kṣam], f. Ved. The ground, earth.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष (fr. 1. or 2. क्षि)See. द्युक्ष

क्ष m. a field L.

क्ष m. the protector or cultivator of a field , peasant L.

क्ष mfn. (fr. 4. क्षि)See. तुविक्ष

क्ष m. destruction , loss L.

क्ष m. destruction of the world L.

क्ष m. lightning L.

क्ष m. a demon or रक्षस्L.

क्ष m. the fourth incarnation of विष्णु(as the man-lion or नर-सिंह) L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṢA : (kza). This letter means (1) Kṣatriya (2) field (3) Narasiṁha (the lion-man incarnation of Viṣṇu) (4) Hari (Viṣṇu) (5) Protector of temples and gate keeper. (6) Lightning (7) Destruction (8) A demon.


_______________________________
*4th word in left half of page 433 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्ष&oldid=497812" इत्यस्माद् प्रतिप्राप्तम्