क्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षण, द ञ उ वधे । इति कविकल्पद्रुमः । (तनां- उभं-सकं-सेट ।) द ञ, क्षणोति क्षणुते । उ क्षणित्वा क्षत्वा । इति दुर्गादासः ॥

क्षणः, पुं, (क्षणोति हन्ति नाशयति वा सर्व्वं यथा- कालं आयुरवसाने वा । काल एव युगान्ते सर्व्व- मात्मसात् करोतीत्यर्थः । स एवांशभेदेन नाना- ख्यो भवतीत्यर्थः ।) त्रिंशत्कलापरिमितकालः । स च दशपलपरिमितः । (निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थभागः । यथा, -- “आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ॥ सचेत्तु विफलो याति का नो हानिस्ततोऽधिका” ॥ इति शब्दार्थचिन्तामणिः । अपि च । “क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयावहः” ॥ इति शिष्टोपदेशः ॥ क्षणोति दुःखं नाशयति उत्सवकाले । क्षण्-वधे- + अच् ।) उत्सवः । (यथा, माघे १ । ४ । “नवानधोऽधो वृहतः पयोधरान् समूढकर्पूरपरागपाण्डरम् । क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना” ॥) निर्व्यापारस्थितिः । इत्यमरः । ३ । ३ । ४७ ॥ पर्व्व । अवसरः । परतन्त्रत्वम् । मध्यम् । इति हेमचन्द्रः ॥ (प्रशस्तमूहूर्त्तः । यथा, नलोपाख्याने । ५ । १ । “अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षण पुं।

त्रिंशत्_कलाः

समानार्थक:क्षण,पर्वन्

1।4।11।2।1

अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला। तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम्.।

अवयव : त्रिंशत्_काष्टाः,षट्_क्षणकालः

पदार्थ-विभागः : , द्रव्यम्, कालः

क्षण पुं।

उत्सवः

समानार्थक:क्षण,उद्धर्ष,मह,उद्धव,उत्सव,महस्

1।7।38।2।2

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

पदार्थ-विभागः : , क्रिया

क्षण पुं।

निर्व्यापारस्थितिः

समानार्थक:क्षण

3।3।47।2।1

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः। निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षण¦ वघे तना॰ उभ॰ सक॰ सेट्। क्षणोति क्षणुते। अक्ष[Page2352-a+ 38] णीत् अक्षणिष्ट। चक्षाण चक्षणे। उदित् क्षणित्वाक्षत्वा। क्षतिः क्षतः। क्षणः। नान्तत्वमतेऽपि रूपंतुल्यम् विचि क्षन् इति भेदः।

क्षण¦ पु॰ क्षणोति दुखं क्षण--अच्।

१ उत्सवे

२ मुर्हूर्त्तात्मककालस्य द्वादशांशे त्रिंशत्कलारूपे कालांशभेदे अमरः

३ प्रशस्त मुहूर्त्ते दीपिका
“ध्रुवमृदुचरवर्गे वाजिहस्तासमेतैः क्षणमुदयमथैषां सत्सु केन्द्रस्थितेषु” नाडीद्वयात्मके

४ मुहूर्त्तरूपे कालांशे सि॰ शि॰ तद्वाक्यं

१७

८८ पृष्ठदर्शितम्।

५ निमेषक्रियाबच्छिन्नकालस्य चतुर्थभागेशब्दचि॰ तादृशार्थाभिप्रायेण
“क्षणादिः स्यादुपाधितः” भाषा॰ व्या॰ मुक्तावलीवाक्यं तच्च कालशब्दे

१९

८५ पृ॰दर्शितम्।

६ निर्व्यापारस्थितौ अमरः

७ अवसरे

८ मध्ये

९ पराधींनतायां हेमच॰। तत्र उत्सवकालभेदयोः
“क्षणंक्षणोत्क्षिप्तगजेन्द्रकृत्तिना” माघः। उत्सवे
“गार्ह-स्थ्यमुचितं त्वेकं शूद्रस्य क्षणमाचरेत्” उ॰ त॰ ब्रह्मपु॰।
“क्षणमुतसवम्” उ॰ त॰ रघु॰। कालांशे
“क्व नु मां क्षणभि-न्नसौहृदः”
“स्थिताः क्षणं पक्ष्मसु ताडिताधराः” कुमा॰। अवसरे
“स्थानं नास्ति क्षणोनास्ति नास्ति प्रार्थयितानरः। तेन नारद! नारीणां सतीत्वमुपजायते”
“दीयते स्म शयितुं शयनीये न क्षणः क्षणदयाऽपिबधूभ्यः” माघः। अत्र क्षणदयापि न क्षणो दत्तैतिउत्सवार्थत्वेन विरोधस्य कालविशेषार्थत्वेन परिहारात्विरोधभासः।
“नीता रात्रिः क्षणैव मया सार्द्ध-मिच्छारतैर्या” मेघः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षण (उ) क्षणु¦ r. 8th cl. (क्षणति, क्षणुते) To kill, to injure.

क्षण¦ m. (-णः)
1. A measure of time equal to thirty Kalas or four minn tes.
2. A moment.
3. A festival.
4. Vacation from work, state of being unemployed.
5. Leisure, opportunity.
6. A certain day of the fortnight, as the full, change, &c. see पर्ब्बन्
7. Dependence, servitude.
8. The centre, the middle. n. adv. (-णं) For a moment. E. क्षण् to injure, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षणः [kṣaṇḥ] णम् [ṇam], णम् [क्षणोति दुःखं क्षण्-अच्]

An instant, moment, measure of time equal to 4/5 of a second; न हि कश्चित्क्षणमपि Bg.3.5; क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः R.1.73;2.6; Me.26; क्षणमवतिष्ठस्व wait a moment.

Leisure; अहमपि लब्धक्षणः स्वगेहं गच्छामि M.1; Pt.1.138; गृहीतः क्षणः Ś.2 'my leisure is at your disposal' i. e. I pledge my word to do your work.

A fit moment or opportunity; रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः Pt.1.138; Me.64; अधिगतक्षणः Dk.147.

An auspicious or lucky moment.

A festival, joy, delight; तदेव वीरो$भिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये Rām. 5.47.38.

Dependence, servitude.

The centre, the middle.

A certain day of the fortnight (as the full moon).

Rule, resolution; गन्तुं भूमीं कृतक्षणाः Mb.1.64.51. (In comp. क्षण is translated by 'momentary', 'temporary'. क्षणात्, -क्षणेन् in a moment, at once, immediately). -क्षणेक्षणे ind. Every instant, moment; क्षणेक्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः आरब्धै- र्व्यसनैर्भूम्ना क्षीणकोशः क्षणे क्षणे Rāj. T.5.166. -Comp. -अन्तरे ind. the next moment, after a little while.-अर्धम् half a moment, small space of time. -क्षेपः a momentary delay. -दः an astrologer.

(दम्) night-blindness.

water.

(दा) night; क्षणादथैष क्षणदापतिप्रभः N.1.67; R.8.74;16.45; Śi.3.53.

turmeric. ˚करः, ˚पतिः the moon; उदिते क्षणदाकरे Śi.9.7. ˚चरः a night-walker, a demon; सानुप्लवः प्रभुरपि क्षणदाचराणां R.13.75. ˚आन्ध्यम् night-blindness, nyctalopsis. -द्युतिःf. -प्रकाशा, -प्रभा lightning. -निःश्वासः the porpoise.-भङ्गवादः the doctrine of the continual decay of things (Buddh.); Bādarāyaṇa 2.1.18. -भङ्गुर a. transient, frail, perishable; मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् H.4. 13. -मात्रम् ind. for a moment; क्षणमात्रमृषिस्तस्थौ सुप्त- मीन इव ह्रदः R.1.73. -रामिन् m. a pigeon. -विध्वंसिन्a. perishable in a moment. (-m.) a class of atheistic philosophers who deny the continued identity of any part of nature, and maintain that the universe perishes and undergoes a new creation every instant. -वीर्यम् an auspicious moment (क्षण, मुहूर्त).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षण m. any instantaneous point of time , instant , twinkling of an eye , moment Nal. S3ak. Ragh. etc.

क्षण m. a moment regarded as a measure of time (equal to thirty कलाs or four minutes L. ; or (in astron. ) to 48 minutes VarBr2S. etc. ; or 4/5 or 24/35 seconds BhP. iii , 11 , 7 and 8 )

क्षण m. a leisure moment , vacant time , leisure( e.g. क्षणं-कृ, to have leisure for , wait patiently for MBh. ; See. कृत-क्षण)

क्षण m. a fit or suitable moment , opportunity( क्षणं-कृ, to give an opportunity. MBh. iv , 666 ; See. दत्त-क्षणand लब्ध-क्ष्)

क्षण m. a festival Megh. Das3. BhP. iii , 3 , 21

क्षण m. a certain day of the fortnight (as the full moon , change of the moon , etc. ) Sarvad.

क्षण m. dependence L.

क्षण m. the centre , middle L.

क्षण n. an instant , moment Bhartr2. (= Subh. )

क्षण n. in a moment Ragh. xii , 36 S3a1ntis3. (See. तत्-क्षणम्)

क्षण n. ततः क्षणात्(= तत्-क्षणात्See. ) , immediately upon that Katha1s.

क्षण n. क्षणात्-क्षणात्, in this moment - in that moment Ra1jat. viii , 898

क्षण n. क्षणे क्षणे, every instant , every moment Ra1jat. v , 165 and 337.

क्षण णतु, णन, etc. See. क्षन्.

क्षण m. killing (= मारण) Gal.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measure of time. भा. III. ११. 7; Br. II. २४. ५६; III. ७२ 29; IV. 1. २११; ३२. १४.

"https://sa.wiktionary.org/w/index.php?title=क्षण&oldid=497813" इत्यस्माद् प्रतिप्राप्तम्