क्षतकास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतकासः, पुं, (क्षतजः कासः । मध्यपदलोपी समासः ।) पञ्चविधकासरोगान्तर्गतकासरोग- विशेषः । यथा, -- “पञ्चकासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः । क्षयायोपेक्षिताः सर्व्वे बलिनश्चोत्तरोत्तरम्” ॥ एषां पूर्ब्बरूपसाह । “पूर्ब्बरूपं भवेत्तेषां शूकपूर्णगलास्यता । कण्ठेकण्डुश्च भोज्यानामवरोधश्च जायते” ॥ भोज्यानाभवरोधः कवलगिलने कण्ठव्यथा ॥ अस्य निदानपूर्ब्बिकां सम्प्राप्तिमाह । “अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैः । रूक्षस्योरक्षतं वायुर्गृहीत्वा कासमावहेत्” ॥ अश्वगजयोर्निग्रहो दमनम् । लक्षणमाह । “संपूर्ब्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् । कण्ठेन रुजतात्यर्थं विरुद्धेनेव चोरसा ॥ सूचीभिरिव तीक्ष्णाभिः तुद्यमानेन शूलिना । दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ॥ पर्व्वभेदज्वरश्वासः तृष्णावैस्वर्य्यपीडितः । पारावत इवाकूजेत् कासवेगात् क्षतो द्रवात्” ॥ कण्ठेनेत्युपलक्षणे तृतीया एवमुरसाऽपि ॥ तस्य चिकित्सा यथा, -- “इक्ष्विक्षुवालिकापद्ममृणालोत्पलचन्दनम् । मधुकं पिप्पली द्राक्षा लाक्षा शृङ्गी शतावरी ॥ द्विगुणा च तुगाक्षीरी सिता सर्व्वचतुर्गुणा । लिह्यात्तन्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये” ॥ इक्षुवालिका इक्षुभेदः । चन्द्र इति लोके । पद्मं पद्मकाष्ठम् । मृणालं विसम् । उत्पलं कमलम् । चन्दनमत्र धवलं चूर्णत्वात् । शृङ्गी कर्क्कटशृङ्गी । तुगाक्षीरी वंशरोचना । सा चेक्षोर्द्विगुणा । इति भावप्रकाशः ॥ (“युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ॥ उरस्यन्तः क्षते वायुः पित्तेनानुगतो बली । कुपितः कुरुते कासं कफं तेन सशोणितम् ॥ पीतं श्यामञ्च शुष्कञ्च प्रथितं कुथितं बहु । ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा ॥ सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना । पर्व्वभेदज्वरश्वासतृष्णावैस्वर्य्यकम्पवान् ॥ पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च । क्रमाद्वीर्य्यं रूचिः पक्तिर्बलं वर्णश्च हीयते” ॥ अस्य चिकित्सा यथा-- “उरस्यन्तः क्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत् ॥ क्षीरेण शालीन् जीर्णेऽद्यात् क्षीरेनैव सशर्करान् । पार्श्ववस्ति सरुक्चाल्पपित्ताग्निस्तां सुरायुताम् । भिन्नविट्कः समुस्तातिविषा पाठां सवत्सकाम् ॥ लाक्षा सर्पिर्मधूच्छिष्टं जीवनीयं गणं सितम् । त्वक्क्षीरी सस्मितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥ इक्ष्वाविकाविषग्रन्थिपद्मकेशरचन्दनैः । शृतं पयो मधुयुतं सन्धानार्थं क्षती पिबेत् ॥ क्षतकासे च ये धूमाः सानुपाना निदर्शिताः” । इति वाभटे निदानस्थाने चिकित्सास्थाने च चतु- र्थाध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतकास¦ पु॰

५ त॰। क्षतजाते कासभेदे
“पञ्च कासाः स्मृतावातपित्तश्लेष्मक्षतक्षयैः” भावप्र॰। कासशब्दे

२०

४२ पृ॰विवृतिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतकास/ क्षत--कास m. a cough produced by injury Bhpr.

"https://sa.wiktionary.org/w/index.php?title=क्षतकास&oldid=497832" इत्यस्माद् प्रतिप्राप्तम्