क्षतज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतजम्, क्ली, (क्षतात् व्रणात् जायते उत्पद्यते इति । जन् डः ।) रक्तम् । इत्यमरः । २ । ६ । ६४ ॥ (यथा, रघौ । ७ । ४३ । “स च्छिन्नमूलः क्षतजेन रेणु- स्तस्योपरिष्टात् पवनावधूतः” ॥) पूयम् । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतज नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

2।6।64।1।6

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतज¦ न॰ क्षतात् जायते जन--ड।

१ रुधिरे
“अमरः सच्छिन्नमलः क्षतजेन रेणुः” रघुः
“क्षतजकणवर्षबभ्रुणा चभ्रमता” काद॰

२ पूये हेम॰।

३ क्षतजातमात्रे त्रि॰। सुश्रु-तोक्ते

४ कामभेदे कासशब्दे तद्विस्तार उक्तप्रायोऽपिस्पष्टार्थं सुश्रुतवाक्यमत्रोदाह्रियते यथा
“उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः। कास-स्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः। धूमोपघाताद्र-जसस्तथेव व्यायामरूक्षान्ननिषेवणाच्च। विमार्गगत्वादपिभोजनस्य वेगावरोधात् क्षवथोस्तथेव। प्राणोह्युदानानु-गतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यकोषः। निरेति वक्त्रा-त्सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु। स वात-पित्तप्रभवः कफाच्च क्षतात्तथान्यः क्षयजोऽपरश्च। पञ्च-प्रकारः कथितोभिषग्भिर्विवर्द्धितो यक्षविकारकृत् स्यात्। भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः। स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि। [Page2357-a+ 38] हृच्छङ्खमूर्द्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः। प्रसक्तवेगश्च समीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः। उरोविदाहज्वरवक्त्रशेषंरभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः। पित्तेन पीतानि वमेत्कटूनि कासेत्स पाण्डुः परिद-ह्यमानः। विलिप्यमानेन मुखेन सीदन् शिरोरुगार्त्तःकफपूर्णदेहः। अभक्तनगगौरवसादयुक्तः कासेद्भृशं सा-न्द्रकफः कफेन। वक्षोऽतिमात्रं विहतञ्च यस्य व्याया-मभाराध्ययनाभिघातैः। विश्लिष्टवक्षाः स नरः सरक्तं ष्ठी-वत्यभीक्ष्णं क्षतजःस उक्तः। अतिव्यवायभाराध्बयुक्ता-श्वगजविग्रहैः। रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमाव-हेत्। स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्। कण्ठेन रुजतात्यर्थं विभिन्नेनैव चोरसा। सूचीभिरिवनीक्ष्णाभिस्तुद्यमानेन शूलिना। दुःखस्पर्शेन शूलेन मेद-पीडाभित पिना। पर्वभेदज्वरश्वासतृष्णावैस्वर्य्यपीडितः। पारावतैवाकूजन् कासवेगात् क्षतोद्भवात्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतज¦ n. (-जं)
1. Blood.
2. Pus, matter. E. क्षत a wound, and ज produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतज/ क्षत--ज mfn. produced by a wound or injury( e.g. कास, a kind of cough ; also विसर्पBhpr. vi ) Sus3r.

क्षतज/ क्षत--ज n. blood MBh. ii , 403 R. Sus3r. Ragh. vii , 40

क्षतज/ क्षत--ज n. pus , matter L.

"https://sa.wiktionary.org/w/index.php?title=क्षतज&oldid=497835" इत्यस्माद् प्रतिप्राप्तम्