क्षतव्रत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतव्रतः, त्रि, (क्षतं भ्रष्ठं व्रतमस्य ।) ध्वस्तनियमः । तत्पर्य्यायः । अवकीर्णी २ । इत्यमरः । २ । ७ । ५४ ॥ तथा च याज्ञवल्क्यः । “अवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम् । गर्द्दभं पशुमालभ्य नैरृतं स विशुद्ध्यति” ॥ इति प्रायश्चित्ततत्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतव्रत पुं।

खण्डितब्रह्मचर्यः

समानार्थक:अवकीर्णिन्,क्षतव्रत

2।7।54।1।4

धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः। सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतव्रत¦ पु॰ क्षतं ब्रतमस्य। गृहीतव्रतत्यागिनि अवकी-र्णिनि अमरः तत्प्रायश्चित्तमाह प्रायचित्तविवेके
“अथावकीर्ण्णिप्रायश्चित्तम्
“अथावकीर्णी मैथुनेन क्षत-व्रतः यथाह याज्ञवल्क्यः
“अवकीर्णी भवेद्गरुता ब्रह्म-चारी तु योगितमिति” प्रायश्चित्तमाहाङ्गिराः
“अवकी-र्णा{??}मित्तञ्च ब्रह्महत्याव्रतञ्चरेत्। स्वरचर्म्मवासाः षण्-मासांस्तथा मुच्येत किल्विषात्”। अवकीईर्ण्णमवकीर्ण्णता-भावे क्तः। अत्र सार्द्धसप्तधेन्वः। इदं प्रमादसम्पन्नेएतद्विषय एव याज्ञवल्क्यः
“अवकीर्ण्णी भवेद्गात्वा ब्रह्मचा-री तु योषितम्। गर्द्धभं पशुमालभ्य नैरृतं स विशु-द्ध्यति”। प्रयत्नात् स्त्रियमुत्साह्य प्रवृत्ते तु मनुः
“एतस्मिन्नेव संप्राप्ते वसित्वा गर्द्दभाजिनम्। सप्ताहानाचरे-द्भैक्ष्यं स्वकर्म्म परिकीर्त्तयन्। तेभ्यो लब्धन भैक्ष्येणवर्त्तयन्नैककालिकम्। उपस्पृशंस्त्रिषवणम्वदेन स वि-शुद्ध्यति”। एतद्विषयएवाभ्यासे शातातपः
“अथातो--” वकीर्ण्णिप्रायश्चित्तं व्याख्यास्यामः
“ब्रहचारी यद्यव-कीर्य्येत चतुर्थकालमब्दं भैक्ष्यं चरेदेवंपूतोभवतीति-तथा पैठीनसिरपि
“अवकीर्ण्णी गर्द्धभाजिनं वसेत्संवत्सरं प्राजापत्यं चरेत्” शङ्खलिखिताभ्यान्तु विक-ल्प एवोक्तः। तद्यथा
“सप्तरात्रेणावकीर्य्येत भैक्षाग्नि-कार्य्येकुर्व्वन् सद्यः कामादुतसर्गे रेतसोऽन्यत्र स्वप्नात् तत्रप्रायश्चित्तं महाव्याहृतिभिर्जुहुयात् ओङ्ककारपूर्व्विकाभिःसंवत्सरं वा नक्तं भैक्षञ्चरेत् चतुर्थकाले मितभुग्गायत्रींतरत्समानुगाञ्जपेदिति”। गायत्रीमपि संवत्सरं ज-पेदित्यर्थः। महाव्याहृतिहोमश्च लघुत्वादातिदेशिकाव-कीर्ण्णित्वेन भैक्षाग्नित्यागे स्त्रियं विना कामात् सकृद्रेत-स्त्यागे व्यवतिष्ठते, स्त्रियं विनापि कामाद्रेतस उत्सर्गेप्रमादगमने च वशिष्ठः
“ब्रह्मचारी चेत् स्त्रियमुपेयादरण्ये[Page2358-a+ 38] चतुष्पथे लौकिकेऽग्नौरक्षोदैवतं गर्द्धभं पशुमालभेत नैरृ-तं वा चरुं निर्व्वपेत् तस्य जुहुयात् कामाय स्वाहा काम-कामाय स्वाहा। नैरृत्यै स्वाहा रक्षोदेवताभ्यः स्वाहाइति एतदेव रेतसः प्रयत्रोत्सर्गे दिवा स्वप्ने व्रतान्तरेषु च”। आसमावर्त्तनाद्रेतो विसर्गे दिवास्वप्नेचाभ्यासे ज्ञेयम्। प-शोरभावे नैरृतं चरुं निर्वपेदित्यर्थः। एतच्चामावास्यायांकर्त्तव्यमित्याह बौधायनः।
“अथावकीर्ण्ण्यमावस्यायांनिश्यग्निमुपसमाधाय संपरिस्तीर्य्य दार्व्वीं हौमिकींपरिचेष्टां कृत्वा द्वे आज्याहुती जुहुयात्”। अत्रच व्रतान्तरेष्वित्यभिदधता वशिष्ठेन द्वादशाहादिकव्रतेषुपुण्यार्थचान्द्रायणादिषु च यथातिदिष्टं तथाचैतदतिदिष्ट-मविशेषात्। अतएव
“कामतो रेतसः सेकं व्रतस्थस्यद्विजन्मनः। अतिक्रमं व्रतस्याहुर्धर्म्मज्ञा ब्रह्मवादिनः” इति मनुना सामान्येनैवावकीर्णिलक्षणमन्वकारि अका-मतो रेतसः स्रावे मनुः
“स्वप्ने सिक्त्वा ब्रह्मचारी द्विजःशुक्रमकामतः। स्नात्वार्कमर्च्चयित्वातु पुनर्भ्वमित्यृचं जपे-त्”। ब्रह्मचारिणोगुरुदारगमने तु तद्गमनोक्तप्रायश्चित्ते-नैव गुरुणा लघ्ववकीर्ण्णिप्रायश्चित्तं कृतम्भवेत्। यथादण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयकावगोरणप्रायश्चित्तं सम्पद्यत”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतव्रत¦ mfn. (-तः-ता-तं) A violator of a vow or religious engagement. E. क्षत broken. and व्रत a religious obligation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षतव्रत/ क्षत--व्रत mfn. one who has violated a vow or religious engagement L.

"https://sa.wiktionary.org/w/index.php?title=क्षतव्रत&oldid=497842" इत्यस्माद् प्रतिप्राप्तम्