क्षय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयः, पुं, (क्षि क्षये । “नन्दिग्रहिपचादिभ्यः” । ३ । १ । १३४ । पटोलनिम्बस्य दलानि मुस्तम् सत्रायमाणा सदुरालभा च ॥ कृत्वा कषायञ्च पदावशेषं पूते ततश्चूर्णमिदं प्रयुञ्ज्यात् । द्राक्षा शठी पुष्करमूलधात्री दुग्धं समं तामलकीकषायम् ॥ सर्पिः प्रयक्तं नवनीतकञ्च सर्पिस्तदर्द्धेन वियोजनीयम् । सिद्धं घृतं पानमथैव वस्तौ नस्ये तथाभ्यञ्जनभोजने च ॥ स पाण्डुकाशक्षयकापलानाम् राजक्षये क्षीणवलेन्द्रियाणाम् । क्षतेषु शोफेषु व्रणेषु शस्तं शिरोऽर्त्तिपार्श्वार्त्तिगुदामयघ्नम्” ॥ इति बलाद्यं घृतम् ॥ * ॥ “चन्दनं सरलं दारु पक्षैला बालकं शठी । नलशैलेयकं पृक्का पद्मकं नागकेशरम् ॥ कक्कोलकं सुरामांसी शैलेयं द्वे हरीतकी । रेणुकात्वक् कुङ्कुमञ्च शारिवे द्वे निशागुरु ॥ वला द्राक्षा च नलिका कषायं सुपरिस्रुतम् । तैलमस्तु तथा लाक्षा रसेन समभागिकम् ॥ मन्दाग्निना पचेत्तैलं सिद्धं पाने च वस्तिषु । नस्ये चाभ्यञ्जने चैव योजयेत्तद्भिषग्वरः ॥ हन्ति पाण्डु क्षयं कासं ग्रहघ्नं बलवर्णकृत् । मन्दज्वरमपस्मारकुष्ठपाम हरेत् पुनः । करोति बलपुष्ट्योजःप्रज्ञायुर्बलवर्द्धनम् ॥ रूपसौभाग्यदं पुण्यं सर्व्वभूतयशस्करम्” ॥ इति चन्दनाद्यं तैलम् ॥ इति क्षयरोगचिकित्सा ॥ इति हारीते चिकि- त्सितस्थाने दशमेऽध्याये ॥ * ॥ “त्रिकटु त्रिफलैलाभिर्जातीफललवङ्गकैः । नवभागोन्मितं तुल्यं लौहं पारदसिन्दुरम् । मधुना क्षयरोगाणां हन्तायं क्षयकेशरी” ॥ इति क्षयकेशरी रसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे यक्ष्माधिकारे ॥ * ॥) अस्य अन्यत् निदानादि यक्ष्मशब्दे द्रष्टव्यम् । तस्यौषधान्तरं यथा, -- “श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम् । त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत्” ॥ इति गारुडे १९३ अध्यायः ॥ (क्षयत्यस्मादनेन वा क्षि + क्षये + अप् । क्षयति विनाशयति इति । अन्तर्भूतणिच् ततोऽच् ।) रोगमात्रम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षय पुं।

प्रलयः

समानार्थक:संवर्त,प्रलय,कल्प,क्षय,कल्पान्त

1।4।22।2।4

मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः। संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, कालः

क्षय पुं।

राजयक्ष्मा

समानार्थक:क्षय,शोष,यक्ष्मन्

2।6।51।2।1

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

क्षय पुं।

अष्टवर्गाणां_क्षयः

समानार्थक:क्षय

2।8।19।2।1

षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः। क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्.।

पदार्थ-विभागः : , क्रिया

क्षय पुं।

अपचयः

समानार्थक:क्षय,क्षिया,अपचिति,क्षिति,नाश

3।2।7।2।4

वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने। आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया॥

पदार्थ-विभागः : , क्रिया

क्षय पुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

3।3।146।1।2

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ। श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षय¦ पु॰ क्षि--क्षये क्षि--निवासगत्योर्वा भावादो यथायथम्अच्। त्रिवर्गात्तर्गते नीतिवेदिनां राज्ञाम्

१ अष्टवर्गापचये। अष्टवर्गश्च।
“ऋषिर्वणिक्पथोदुर्गं सेतुकुञ्जरबन्धनम्। धात्वाकरः करादानं सैन्यानाञ्च निवेशनम्। अष्टवर्गः स्मृतो राज्ञाम्” भरतः।
“क्षयस्थानं च वृद्धिश्चत्रिवर्गो नीतिवेदिनाम्” अमरः। क्षयः अष्टवर्गस्यापचयःतस्यैवोपचयः वृद्धिः, स्थानं तस्य उपचयापचयहीनतयास्थितिः”

२ प्रलये तस्मिन् सर्व्वेषां क्षयात्तथात्वम्।

३ अप-चये सच भावविकारभेदः यास्कोक्तः यथा
“षड् भावविकारा भवन्तीति कार्ष्णायणिः जायतेऽस्तिविपरिणमते वर्धतेऽपक्षीयते विनश्यतीति। जायतइति पूर्वभावस्यादिमाचष्टे नापरभावमाचष्टे न प्रतिषेधति,अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं, विपरिणमत इत्य-प्रच्यवमानस्य तत्त्वाद्विकारं, वर्धत इति स्वाङ्गाभ्युच्चयं,सांयौगिकानां कम्मणा वर्धते विजयेनेति वा वर्धते शरीरणेति वा, अपक्षीयत इत्यनेनैव व्याख्यातः प्रति-लोमं, विनश्यतीत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टेन प्रतिषेधति”।

४ गृहे अमरः

५ यक्ष्मरोगे यक्ष्मरोगस्यक्षयसंज्ञाकारणं यथा
“क्रियाक्षयकरत्वाच्च क्षय इत्यु-च्यतेबुधैः। राज्ञयन्द्रमसो यस्मादभूदेष महामयः। तस्मात्तं राजयक्ष्मति केचिदाहुर्मनीषिणः” सुश्रु॰।
“रक्तपित्तात्भवेत् कासः कासात् संजायते क्षयः” वैद्यकम्
“राजयक्ष्मपरिहाणिमाययौ” इत्युपक्रमे
“राज्ञितत् क्षणमभूत् क्षयातुरे” रघुः।

६ रोगमात्रे राजनि॰। षष्टिवर्षन्तर्गते षष्टितमे

७ वर्षे तल्लक्षणं ज्यो॰ त॰। भवि॰ पु॰
“मेदिनी लभते देवि! सर्वभूतं चराचरम्। देशभङ्गञ्च दु-र्भिं क्षये संक्षीयते प्रजा। सौराष्ट्रे मालवे देशे द-क्षिणे कोङ्कणे तथा। दुर्भिक्षं जायते वोरं क्षये संवत्सरेप्रिये!। कौमुदीनर्म्मदाद्याश्च यमुनानर्म्मदातटम्। वि-[Page2363-b+ 38] न्ध्यायां सैन्धवश्चापि विनश्यति न संशयः। सिंहलोमध्यदेशश्च कालञ्जरस्तथैव च। क्षये क्षयन्ति सर्वाणिनान्यथा वरवर्णिनि। ”। ता॰ ब्राह्मणोक्ते

८ स्तोत्रसंघे

८ देवसंघे च यथा
“रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता वृहस्पतयेस्तुत” ता॰ व्रा॰
“तैतीरीयाणां पञ्चमकाण्डोक्तब्राह्मणे रश्मि-रिति मन्त्र णामादित्यादिसृष्टि हेतुत्वाभिधानादादित्यादि-परतया रश्म्यादिशब्दाव्याख्ययाः तत्तु ब्राह्मणमुत्तर-त्रोदाहरिष्यते। हे आदित्य! त्वं रश्मिरसि रश्मि-युक्तोऽसि देवा यस्मिन् क्षियन्ति निवसन्ति इति स्तोत्र-संघः क्षयः तस्मै क्षयाय तत्सङ्घाय तत्प्राप्त्यर्थं हेआदित्य! त्वां स्मरामीति शेषः। ततः क्षंयं देवसङ्घञ्जिन्वप्रीणय क्षयशब्दस्य देवविषयत्वं तैत्तिरीयास्तृतीयकाण्डो-क्तब्राह्मणे समामनन्ति
“रश्मिरसि क्षयाय त्वा क्षयंजिन्वेत्याह देवे क्षय इति” भा॰। ज्योतिषोक्ते

९ द्विसंक्रान्तियुक्ते शुक्लप्रतिपदाद्यमावस्यान्ते चान्द्रे मासेयथाह सि॰ शि॰
“असंक्रान्तिमासोऽधिमासः स्फुटं स्याद्द्विसंक्रान्तिमासःक्षयाख्यः कदाचित्। क्षयः कार्त्तिकादित्रये नान्यतःस्यात् तदा वर्षमध्येऽधिमासद्वयं च”। (
“यस्मिन् शशिमासेऽर्कसंक्रान्तिर्नास्ति सोऽधिमास इतिप्रसिद्धम्। तथा यत्र मासे संक्रान्तिद्वयं भवति स क्षय-मासो ज्ञेयः। यतः संक्रान्त्युपलक्षिता मासाः। अतएकस्मिन् मासे संक्रान्तिद्वये जाते सति मासयुगलं जा-तम्। स क्षयमासः कदाचित् कालान्तरे भवति। यदाभवति तदा कार्त्तिकादित्रय एव। तदा क्षयमासात् पूर्वंमासत्रयान्तर एकोऽधिमासोऽग्रतश्च मासत्रयान्तरितोऽन्य-श्चासंक्रान्तिमासः स्यात्। अत्रोपपत्तिः। चन्द्रमासप्रमाण-मेकोनत्रिंशत् सावनदिनान्येकत्रिंशत् घटिकाः पञ्चाशत्पलानि

२९ ।

३१ ।

५० । तथार्कमासस्त्यिंशद्दिनानि षड्विंशति-र्घटिकाः सप्तदशपलानि

३० ।

२६ ।

७ । एतावद्भिर्दिवसैरविर्म-ध्यगत्या राशिं गच्छति। यदार्कगतिरेकषष्टिः कलास्तदासार्धैकोनत्रिंशता दिनै

२९ ।

३० राशिं गच्छति। अतश्चान्द्रमासादल्पोऽर्कमासस्तदा स्यात्। एवं रविमासस्यपरमाल्पता

२९ ।

२० ।

४० । सा चैकषष्टिर्गतिर्वृश्चिकादित्रये-ऽर्कस्य। स ईदृशोऽल्पोऽर्कमासो यदा चन्द्रमासस्या-नल्पस्यान्तःपाती भवति तदैकस्मिन् मासे संक्रमणद्वय-सुपपद्यो। अत उक्तं क्षयः कार्त्तिकादित्रय इति। पूर्वं[Page2364-a+ 37] किल भाद्रपदेऽर्कसंक्रान्तिर्जाता ततोऽर्कगतेरधिकत्वान्मार्ग-शीर्षो द्विसंक्रान्तिः। ततः पुनर्गतेरल्पत्वाच्चैत्रोऽप्यसंक्रान्ति-र्भवति। ततो वर्षमध्येऽधिमासद्वयमित्युपपन्नम्” प्रमिता॰। मेषादिषु सूर्य्यस्य गतिभेदात् भोगकालसावनदिनादिकमुच्यतेमेवृमिकसिकतुवृधमकुमी

३०

३१

३१

३१

३०

२९

२९

२९

२९

२९

२९

३०

५५

२४

३७

२८

२२

९५

७२

७१

५२

४४

९२

१३

३५

६३

२३

५५

२४

२३

९३

०४

३३


“इदानीं गणकानां प्रतीत्यर्थं क्षयमासकालान् गतागतान्कतिचिद्दर्शयति स्म” प्रमिता॰।
“गतोऽब्ध्यद्रिनन्दै

९७

४ र्मिते शावकाले तिथीशै

११

१५ र्भविष्यत्यथाङ्गाक्षसूर्यैः

१२

५६ । गजाद्र्यग्निभूमि

१३

७८ स्तथा प्रायशोऽयं कुवेदेन्दु

१४

१ वर्षैः क्वचिद्गोकुभिश्च

१९ । (
“स्पष्टम्। अत्रोषपत्तिः। यदा किलैकविंशतिः शुद्धि-स्तदा भाद्रपदोऽधिमासः। तस्मिन् जाते कार्त्तिकादित्रयेक्षयमासः संभाव्यते। सा च तथविधा शुद्धिः कुवेदेन्दु

१४

१ वर्षान्तरे काले पुनर्भवति। किन्तु सत्रिभागाभिःषड्भिर्घटिकाभिरधिका भवति। कदाचिदेकोनविंशत्यावर्षैस्तादृशी भवति। तत्र त्रिभागोनाभिश्चतुर्दशघटिका-भिरधिका भवति। कुवेदेन्दुवर्षेभ्यस्तथकोनयिंशतिवर्षेभ्यो-द्विधाव्दा द्विरामैः खरामैश्च भक्ता इत्यादिना लब्धेष्वधि-मासेषु शेषतिथिषु शून्यं पथमस्थाने सत्र्यंशाः षड्घ-टिकाः स्युः

६ ।

२० । द्वितीये वित्र्यंशाश्चतुर्द्दश

१३ ।

४० । अत उक्तं प्रायशोऽयं कुवेदेन्दुवर्षैः क्वचिद्गोकुभि-श्चेति। प्रागायतश्चेत्यर्थादुक्तं स्यात्” प्रमिता॰। कालमा॰ उक्तं सि॰ शि॰ वाक्यं व्याख्यायविशेषोऽभिहितः
“स्फुटमानेन योऽयमसक्रान्तः सः स्फुटोऽधिमासः तेनैवमानेन यो द्विसंक्रान्तियुक्तः स क्षयाख्यः स च कार्त्तिक-मार्गशीर्षपौषेष्वेव त्रिष्वन्यतमोभवति नान्येषु माघादिषुनवसु एवंविधक्षयमासयुक्ते वर्षे क्षयमासात् पूर्वेषु त्रिषुमासेषु मध्ये कश्चिदधिमासो भवति क्षयमासादूर्द्ध्वमपिमासत्रयमध्येऽपरोऽधिमासः। तदेवंविधमेकवर्षस्थं मलमासद्वयं चिरेण कालेन यदा कदाचिदायाति नत्वेकाधिमासवत् पुनः पुनः क्षयसासः समायाति तत्त्रितयागमनकालः सिद्धान्तशिरोमणौ दर्शितः।
“गतोऽब्ध्यद्रीत्यादि(बाक्यं प्रागुदाहृतम्) अस्यायमर्थः। चतुःसप्तत्यधिकन-[Page2364-b+ 38] वशतसंख्याकैर्वर्षैः परिमिते शाककाले कश्चिदुक्तमासत्र-योपेतो वत्सरोगतः। यथोक्तसंख्या चाब्ध्यद्रिनन्दै-रित्यनेन पदेन विवक्षिता। अब्धयश्चत्वारः अद्रयःसप्त नन्दा नव। एतत्संख्यात्रयगमका अङ्का गणकप्र-सिद्ध्या प्रातिलोम्येन लिखिता यथोक्तसंख्यायां पर्य्यव-स्यन्ति। तिथीशैरित्यत्रापि तिथयः पञ्चदश ईशा एकादशतत्र गणकैरङ्केषु प्रक्षिप्तेषु पञ्चदशाधिकशतयुक्तसहस्र-संख्या सम्पद्यते। तावद्भिःशकवर्षैर्मिते काले, कश्चिदु-क्तमासत्रययुतः संवत्सरः। अङ्गाक्षसूर्य्यैरित्यत्राङ्गानिषट् अक्षाणीन्द्रियाणि पञ्च सूर्य्या द्वादश तत्राङ्कप्रक्षेपेषट्पञ्चाशदधिकशतद्वयोपेतसहस्रसंख्या सम्पद्यते। ताव-द्भिर्वत्सरैर्मिते शककाले यथोक्तमासत्रयोपेतः कश्चित्सं-वत्सरः। तस्य चोदाहरणम्। पूर्ब्बोदाहृत ईदृशसंवत्सरः प्राचीनोभावी वा संवत्सरः। तत्र भाद्रपदवहुला-मावास्यायां कन्यासंक्रान्तिस्तत ऊर्द्ध्वम् असंक्रान्तमेकमासमतीत्य उत्तरयीर्मासयोः क्रमेण तुलावृश्चिकसंक्रान्तीतत ऊर्द्ध्वमेकस्मिन्नेव मासे शुक्लप्रतिपदि धनुःसंक्रान्विःततऊर्द्ध्वं दर्शे मकरसंक्रान्तिः। तत ऊर्द्ध्वं कुम्भसंक्रान्तिःसमनन्तरे मासे दर्शे। तत ऊर्द्ध्वं ससंक्रान्तिमासमती-त्योत्तरस्यां शुक्लप्रति पदि मीनसंक्रान्तिरेवं च एकस्मि-न्नेववत्सरे द्वावसंक्रान्तौ मासौ एकोद्विसंक्रान्तिमास इतियथोक्तमासत्रयं सम्पद्यते। गजाद्यग्निभूमिरित्यत्रापिगजा अष्टौ, अद्रयः सप्त, अग्नवस्त्रयः भूरेका तत्राङ्क-प्रक्षेपे सत्यष्टसप्नत्यधिकशतत्रयोपेतसहस्रसंख्या सम्पद्यते। तावर्द्भिर्वत्सरैर्मिते शाककाले कश्चिदुक्तविधः सम्पत्स्यतेवत्सरः। कुवेदेन्दुवर्षैरित्यत्र कुरेकः वेदाश्चत्वारैन्दु-रेकस्तत्राङ्कप्रक्षेपेणैकचत्वारिंशदधिकशतसंख्या भवतिएतावद्भिर्वर्षेः क्वचित्पूर्व्वोत्तरक्षयमासयोर्व्यवधानं भवतिगोकुभिश्चेत्यत्र नपुंसकवर्जितेषु स्वरान्तेषु गण्यमानेष्वो-कारो नवमः सम्पद्यते। कुरेका तत्राङ्कप्रक्षेये सति एको-नविंशतिर्भवति तावद्भिर्वत्सरैः क्वचित्पूर्वोत्तरयोः क्षय-मासयोर्व्यवधानमिति। अत्र द्विसंक्रान्तियुक्तस्य क्षयसंज्ञायामुपपत्तिरुच्यते। यदा धनुःस्थे रवौ दर्शपूर्त्ति-स्तदा तस्य मेषादिस्थवचनेन मार्गशीर्षत्वं प्राप्तम्। तथासति पूर्वोदाहृते द्विसंक्रान्ते मासे धनुःस्थे रवौ दर्शोन समाप्तः मकरस्थे तु रवौ समाप्तः। अतः पौष-मासत्वं तस्य सम्पन्नम्। तथा च मार्गशीर्षस्य तत्रलुप्नत्वात् तस्य क्षयसंज्ञा युक्ता। अत एवैकमास-[Page2365-a+ 38] ग्रासित्वादंहसः पापस्य पतिरिति व्युत्पत्त्या स एवां-हस्पतिसंज्ञयापि व्यवह्रियते। स च व्यवहारो वार्ह-स्पत्यज्योतिर्ग्रन्थे दृश्यते
“यस्मित् मासे न संक्रान्तिःसंक्रान्तिद्वयमेव वा। संसर्पांहस्पती मासावधिमासश्चनिन्दितः” इति तत्र क्षयमासात्प्राचीनोयोऽसंक्रान्तःस संसर्पस्तस्यासंक्रान्तत्वेनेतराधिमासवत् कर्मानर्हःसन् सम्यक् सर्पतीति संसर्पः। तस्य कर्मानर्हत्वप्राप्तिरेवं स्मर्य्यते
“सिनीवालीमतिक्रम्य यदा संक्रमते रविः। रविणा लङ्घितो मासोह्यनर्हः सर्वकर्म्मस्विति”। तदपवा-दश्चैवं स्मर्य्यते।
“मासद्वयेऽव्दमध्ये तु संक्रान्तिर्न यदा-भवेत्। प्राकृतस्तत्रं पूर्वः स्यादधिमासस्तथोत्तरः” इति सं-क्रान्तिरहितयोर्द्वयोर्मासयोर्यः पूर्वोऽसंक्रान्तः स प्रा-कृतः शुद्ध्वः। कर्म्मार्ह इत्यर्थः। अस्मिन्नेवार्थे जावालिः
“एकस्मिन्नेव वर्षे चेद्द्वौ मासावधिमासकौ। प्राकृतस्तत्र पूर्वःस्यादुत्तरस्तु मलिम्लुचः” इति। अतः संसर्पत्वं तस्योपप-न्नम्। असंक्रान्तमासद्वयमध्यवर्त्तिनः क्षयमासस्यांहस्प-तित्वनिरुक्तिः पूर्वमेव दर्शिता। तदुत्तरभाविनोऽसंक्रान्तस्य कालाधिक्यादधिमासत्वम्। त एते त्रयोऽपिज्योतिःशास्त्रप्रसिद्धा विवाहादौ निन्दिताः। यथोक्तप्रकारेणांहस्पतिनाम्नः क्षयमासस्य द्वितीयसंक्रान्तिप्रयु-क्तनामसम्भवे सति शुद्धमासवत् स्वातन्त्र्यान्न पूर्वोत्तर-मासशेषत्वशङ्कावकाशः”। मुहु॰ चि॰ पी॰ तादृशमासत्रयस्य माङ्गल्यकर्म्मसुवज्यतोक्ता यथा
“गृहप्रवेशगोदानस्थानासनमहोत्सवम्। न कुर्य्यात्मलमासे तु संसर्पेऽंहस्पतौ तथा” मरीचिः
“यदा क्षय-मासी भवति तदा पूर्ब्बोत्तरावधिमासौ भवतः तत्र पूर्वःसंसर्पः द्वितीयोऽंहस्पतिः मासः” वाप्यादिषु वर्ज्जनीये
“शिशुत्वैज्यसितयोर्न्यूनाधिनासे तथा” मुहु॰ चि॰। अपचये।
“सर्वपार्थिव धनान्यपि क्षयम्” माघः” क्षयंवृद्धिञ्च बणिजा पण्यानामविजानता” या॰ स्मृ॰ गृहे
“दधतोऽसुलभक्षयागमाः” मावः
“अवेक्ष्य निरये चैवयातनाश्च यमक्षये” मनुः।

१० नाशे
“कालोऽस्मि लोकक्ष-यकृत् प्रवृत्तः”।
“कुलक्षये विनश्यन्ति कुलधर्म्माश्च शा-श्वताः” गोता।
“अन्वष्टकासु वृद्धौ च गयायां च क्षया-हनि” उ॰ त॰ भवि॰ पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षय¦ m. (-यः)
1. Loss, waste, destruction, removal, &c.
2. A destruction of the universe.
3. Consumption, Phthisis pulmonalis.
4. A house, an abode.
5. Sickness in general.
6. Decay, wasting away.
7. In algebra, negative quantity, minus. E. क्षि to waste or destroy, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षय [kṣaya], See under क्षि.

क्षयः [kṣayḥ], [क्षि-अच्]

A house, residence, abode; यातनाश्च यमक्षये Ms.6.61; निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह Mb.

Loss, decline, waste, wane, decay, diminution; आयुषः क्षयः R.3.69; धनक्षये वर्धति जाठराग्निः Pt.2.186; so चन्द्रक्षयः, क्षयपक्षः &c.

Destruction, end, termination; निशाक्षये याति ह्रियैव पाण्डुताम् Ṛs.1.9; Amaru.6.

Pecuniary loss; Ms.8.41.

Fall (as of prices.)

Removal.

Universal destruction (प्रलय).

Consumption.

A disease in general.

The negative sign or quantity, minus (in algebra).

Family, race.

The house of Yama.

A part of the elephant's knee (गजजानुभागविशेषः); Mātaṅga L.5.15.

Power (क्षी क्षयैश्वर्ययोरित्यैश्वर्यार्थस्य क्षिधातो रूपम् -Com. on Mb.12.33.2); उपपद्यति संयोगाद् गुणैः सह गुणक्षयात् ibid. -यम् N. of the last year in the sixty years cycle. -Comp. -उपशमः complete annihilation of the desire of being active (Jaina). -कर (also क्षयंकर)a. causing decay or destruction, ruinous.

कालः time of universal destruction.

the period of decline.-कासः consumptive cough. -तिथिः, f. -क्षयाहः the lunar day not beginning with the sun-rise, hence omitted in the calendar. -पक्षः the dark fortnight. क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसंपदः Ki.2.37.

a fortnight of 13 days. -मासः the month in which two संक्रान्तिs occur and which is omitted in the adjustment of the lunar-solar calender. -युक्तिः f., -योगः an opportunity of destroying; Ki.2.9. -रोगः consumption.-वायुः the wind that is to blow at the destruction of the world. -संपद् f. total loss, ruin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षय See. 1. 2. and 4. क्षि.

क्षय m. " dominion " Sa1y. (on RV. vii , 46 , 2 ).

क्षय mfn. dwelling , residing RV. iii , 2 , 13 ; viii , 64 , 4

क्षय m. an abode , dwelling-place , seat , house(See. उरु-and सु-क्षय, राथ-, दिविक्षय) RV. VS. v , 38 TS. Pa1n2. MBh. R. BhP.

क्षय m. the house of यम(See. यम-क्ष्, वैवस्वत-क्ष्)

क्षय m. abode in यम's dominion Comm. on R. ( ed. Bomb.) ii , 109 , 11

क्षय m. (= क्षिति)family , race RV. i , 123 , 1.

क्षय m. ( Pa1n2. 6-1 , 201 ) loss , waste , wane , diminution , destruction , decay , wasting or wearing away (often ifc. ) Mn. MBh. etc.

क्षय m. fall (as of prices , opposed to वृद्धिe.g. क्षयो वृद्धिश् च पण्यानाम्, " the fall and rise in the price of commodities ") Ya1jn5. ii , 258

क्षय m. removal W.

क्षय m. end , termination( e.g. निद्रा-क्ष्, the end of sleep R. vi , 105 , 14 ; दिन-क्षये, at the end of day MBh. i , 699 R. iv , 3 , 10 ; जीवित-क्षये, at the end of life Das3. ; आयुषः क्ष्id. Ragh. ; क्षयंगम्, या, इ, or उपइ, to become less , be diminished , go to destruction , come to an end , perish Nal. R. Sus3r. VarBr2S. Das3. Amar. Hit. ; क्षयंनी, to destroy R. v , 36 , 51 )

क्षय m. consumption , phthisis pulmonalis Sus3r. Hcat.

क्षय m. sickness in general L.

क्षय m. the destruction of the universe Pan5cat.

क्षय m. (in alg. ) a negative quantity , minus A1ryabh.

क्षय m. = -मासJyot.

क्षय m. = क्षया-हGan2it.

क्षय m. N. of a prince VP.

क्षय n. N. of the last year in the sixty years' बृहस्पतिcycle VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of बृहद्क्षय. वा. ९९. २८१.

"https://sa.wiktionary.org/w/index.php?title=क्षय&oldid=497906" इत्यस्माद् प्रतिप्राप्तम्