क्षर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षर, ज सञ्चलने । इति कविकल्पद्रुमः ॥ (भ्वां--परं-- अकं-सेट् । क्वचित् सकञ्च ।) ज, क्षारः क्षरः । सञ्चलनमिह मोचनं स्रवणञ्च । आदौ सकर्म्मकः । “स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः” । इति किराते । ७ । ८ ॥ स्रवणे तु । क्षरत् क्षतजवृत्तयः । इति दुर्गादासः ॥

क्षरम्, क्ली, (क्षरति स्रवति वर्षति च । क्षर् + अच् ।) जलम् । तथा च सत्यसावित्र्योपनिषदि । १ । ८ । १० । “क्षरन्त्वविद्या ह्यमृतं तु विद्या” ॥) मेघे पुं । इति मेदिनी ॥

क्षरः, पुं, (क्षर् + अच् ।) नश्वरवस्तु । यथा, -- “द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्व्वाणि भृतानि कूटस्थोऽक्षर उच्यते” ॥ इति श्रीभगवद्गीतायाम् । १५ । १७ । “क्षरश्चाक्षरश्चेति द्वाविमौ लोके प्रसिद्धौ । तावेवाह तत्र क्षरः पुरुषो नाम सर्व्वाणि भूतानि ब्रह्मादि- स्थावरान्तानि शरीराणि अविवेकिलोकस्य शरीरेष्वेव पुरुषत्वप्रसिद्धेः । कूटो राशिः शिला राशिः । पर्व्वत इव एकदेशेषु नश्यत्स्वपि निर्व्वि- कारतया तिष्ठतीति कुटस्थश्चेतनो भोक्ता स त्वक्षरः पुरुष उच्यते विवेकिभिः” । इति तट्टीकायां श्रीधरस्वामी ॥ (तथा, महाभारते । १४ । अनु- गीतापर्व्वाध्याये । १७ । १७ । “ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरात्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षर¦ सञ्चलने भ्वा॰ पर॰ अक॰ सेट्। क्षरति अक्षारीत्। चक्षारक्षरितः क्षरन् क्षारः।
“इयं त इन्द्र! राति क्षरतिसुन्वतः” ऋ॰

८ ,

१३ ,

४ ।
“मधु क्षरन्ति सिन्धबः” मधुसूक्तम्।
“यज्ञोऽनृतेन क्षरति तपः क्षरति कीर्त्तनात्”
“इन्द्रि-याणां हि च सर्वेषां यद्येकं क्षरतीन्द्रियम्। तेनास्यक्षरति प्रज्ञा” मनुः।
“त्वत्प्रसादान्महादेव! तपोमेन क्षरेत वै” भा॰ व॰

७०

११ श्लो॰। आर्षत्वात् पदव्यत्ययः।
“अक्षारिषुः शरास्त्राणि तस्मिन् रक्षःपयोधराः” भट्टिःज्वला॰ क्षरः क्षारः। उपसर्गपूर्वस्तु तदुपसर्गद्यीत्या-र्थयुक्ते चलने। आङ्पूर्ककः णिजन्तस्तु आक्षारणे

६०

२ पृ॰ दृश्यम्। सञ्चननञ्च मोचनं स्रवणं चलनं स्यन्दनञ्चतत्र मोचने सक॰ अन्यत्र अक॰। तत्र मोचने
“मधुक्षरन्ति सिन्धबः”।
“स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः” किरा॰। स्रवणे
“तपः क्षरतीत्यादि प्रागुक्तम्। वेदेनि॰ तिपि क्षरिति।

क्षर¦ न॰ क्षरति स्यन्दते मुञ्चति वा क्षर--जला॰ वा अच्।

१ जले

२ मेघे पु॰ मेदि॰।

३ चले त्रि॰

४ देहे
“द्वाविमौपुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानिकूटस्थोऽक्षर उच्यते” गीतोक्तेषु

५ सर्वप्राणिषु तेषां स्वो-पाध्यन्तःकरणचलनेन औपाधिकचलनवत्त्वात्तथात्वम्भा॰ अनु॰

१७ अ॰ जीवानां क्षरणप्रकार उक्तो यथा
“आयुःकीर्त्तिकराणीह यानि कृत्यानि सेवते। शरीर-ग्रहणे यस्मिंस्तेषु क्षीणेषु सर्वशः। आयुःक्षयपरीतात्माविपरीतानि सेवते। बुद्धिर्व्यावर्त्तते चास्य विनाशे प्रत्यु-परियते। सत्वं बलञ्च कालञ्च विदित्वा चात्मनस्तथा। अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवात्। यदाऽयमति-कष्टानि सर्वा{??}पयुपनिषेवते। अत्यर्थमपि वा भुङ्क्ते नवा भुङ्क्ते कदाचन। दुष्टान्नामिषपानञ्च यदन्योन्यविरो-धि च। गुरु चाप्यभितं भुङ्क्ते नातिजीर्णेऽपि वापुनः। व्यायाममतिमात्रञ्च व्यवायञ्चोपसेवते। सततंकर्म्मलोभाद्वा प्राप्तं वेगं विधारयेत्। रसाभियुक्तमन्नंबा दिवास्वप्तञ्च सेवते। अपक्वान्नागते काले स्वयं दोषान्प्रकोपयेत्। स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्। अपि वोद्बन्धनादीनि परीतानि व्यवस्यति। तस्य तैः का-रणैर्ज्जन्तोः शरीरं च्यवते तदा। जीवितं च्यवमानंतद्यथावदुपधारय। ऊष्मा प्रकुपितः काये तीव्रवायुसमी-[Page2366-b+ 38] रितः। शरीरमनुपर्य्येत्य सर्वात् प्राणान् रुणद्धि वै। अत्यर्थं बलवानूष्मा शरीरे परिकोपितः। भिनत्ति जीव-स्थानानि कर्म्माणि विद्धि तत्त्वतः। ततः सवेदनो जीवःसद्यः प्रच्यवते क्षरात् (देहात्)। शरीरं त्यजते जन्तुश्छि-द्यमानेषु मर्म्मसु। वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम!। जाता मरणसंविग्नाः सततं सर्वजन्तवः। दृश्यन्ते सन्त्यज-न्तश्च शरीराणि द्विजर्षभ! गर्भसंक्रमणे चापि कर्म्मणा-मतिसर्पणे। तादृशीमेव लभते वेदनां मानवः पुनः। भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः। यथा पञ्चसुभूतेषु सम्भूतत्वं नियच्छति। शैत्यात् प्रकुपितः काये ती-व्रवायुसमीरितः। यः स पञ्चसु भूतेषु प्राणापाने व्यव-स्थितः। स गच्छत्यूर्द्ध्वगो वायुः कृच्छान्मुक्त्वा शरीरिणम्। शरीरञ्च जहात्येवं निरुच्छासश्च दृश्यते। स निरूष्मानिरुच्छासो निःश्रीको हतचेतनः। ब्रह्मणा सम्परिष्वक्तोमृत इत्युच्यते नरः। स्रोतोभिर्य्यैर्विजानाति इन्द्रिया-र्थान् शरीरभृत्। तैरेव च विजानाति प्राणानाहारस-म्भवान्। तत्रैव कुरुते काये यः स जीवः सनातनः। तथा यद्यद्भवेद्युक्तं सन्निपाते क्वचित् क्वचित्। तत्तन्मर्म्मविजानीहि शास्त्रदृष्टं हि तत्तथा। तेषु मर्म्मषु भिन्नेषुततः स समुदोरयन्। आविश्य हृदयं जन्तोः सत्त्व-ञ्चास्य रुणद्धि वै। ततः सचेतनो जन्तुर्नाभिजानातिकिञ्चन। तरसा संवृतज्ञानः संवृतेष्वेव मर्म्मसु। स-जीवो निरधिष्ठानश्चाल्यते मातरिश्वना। ततः स तं म-हीच्छासं भृशमुच्छस्य दारुणम्। निष्क्रामन् कम्पयत्याशुतच्छरीरमचेतनम्। स जीवः प्रच्युतः कायात् कर्म्मभिःस्वैः समावृतः। अभितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्यु-पपद्यते। ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः। इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः। यथाऽन्ध-कारे खद्योतं लीयमानं ततस्ततः। चक्षु{??}मन्तः प्रपश्यन्तितथा च ज्ञानचक्षुषः। पश्यन्त्येवंविधं सिद्धा जीवं दिव्येनचक्षुषा। च्यवन्तं जायमानञ्च योनिञ्चानुपवेशितम। तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः। कर्म्म-भूमिरियं भूमिर्य्यत्र तिष्ठन्ति जन्तवः। ततः शुभाशुभं कृत्वालभते सर्वदेहिनः। इहैवोच्चावचान् भोगान् प्राप्नुवन्तिखकर्म्मभिः। इहैवाशुभकर्म्माणः कर्म्मभिर्निरयं गताः। अर्वाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः। तस्मात्सुदुर्लभो मोक्षे रक्ष्यश्चात्मा ततोभृशम्। ऊर्द्ध्वन्तु जन्तवोगत्वा ये तु स्थानेष्ववस्थिताः। कोर्त्यमानानि तानीह त-[Page2367-a+ 38] त्त्वतः सन्निवोध मे। तच्छ्रुत्वा नैष्ठिकीं बुद्धिं विन्देथाःकर्म्मनिश्चयम्। तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम्। यत्र विभ्राजते लोके स्वभासा सूर्य्यमण्डलम्। स्थानान्ये-तानि जानीहि जनानां पुण्यकर्म्मणाम्। कर्म्मक्षयाच्चते सर्वे च्यवन्ते वै पुनः पुनः। तत्रापि च विशेषोऽस्ति दिविनीचोच्चमध्यमः। न च तत्रापि सन्तोषो दृष्ट्वा दीप्ततरांश्रियम्। इत्येता गतयः सर्वाः पृथक् ते समुदीरिताः। उपपत्तिन्तु वक्ष्यन्ति गर्भस्याहमतः परम्। तथा तन्मेनिगदतः शृणुष्वावहितो द्विज!”।

११ अज्ञाने च
“क्षरं त्वविद्या च स्मृतं तु विद्या” श्वेताश्व॰उ॰।

१२ परमेश्वरे
“सदसत्क्षरमक्षरम्” विष्णुस॰।
“सर्वंखल्विदं ब्रह्मेति” श्रुतेस्तस्य सर्वभूतमयत्वा{??} त्वम्।
“कार्य्यकारणरूपं तु नश्वरं क्षरमुच्यते” इत्युक्तयोः

१३ कार्य्यकारणयोः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षर¦ r. 1st. cl. (क्षरति)
1. To drop or let fall.
2. To distil, to ooze, to trickle. With सं, To flow. With आ, r. of the 10th cl. (आक्षारयति) To accuse, to abuse.

क्षर¦ m. (-रः)
1. A cloud.
2. Trickling oozing. n. (-रं) Water. E. क्षर् to drop, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षर [kṣara], a. [क्षरति स्यन्दते मुञ्चति वा, क्षर्-अच्]

Melting away.

Movable.

Perishable; क्षरः सर्वाणि भूतानि कूटस्थो$ क्षर उच्यते Bg.15.16. -रः A cloud.

रम् Water.

The body; ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरात् Mb.14.17.17.

Ignorance.

The Supreme Being.

Cause and effect.

The natural form (प्रकृति); अक्षरक्षरयोरेव द्वयोः सम्बन्ध इष्यते Mb.12.35.1. -Comp. -आत्मक a. Of a perishable nature, perishable; Mārk. P.23.33. -जः (also क्षरेज) a. produced by distillation or from a cloud. -भाव a. mutable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षर mf( आ)n. ( g. ज्वला-दि)melting away , perishable S3vetUp. MBh. Bhag.

क्षर m. a cloud L.

क्षर n. water L.

क्षर n. the body MBh. xiv , 470.

"https://sa.wiktionary.org/w/index.php?title=क्षर&oldid=497925" इत्यस्माद् प्रतिप्राप्तम्