क्षवथु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवथुः, पुं, (क्षु + अथुच् ।) क्षुतम् । कासः । इति मेदिनी । कण्ठकण्डूयनम् । इति शब्दरत्नावली ॥ (क्षवथुर्नाम रोगविशेषः । तस्य सकारणसम्प्रा- प्तिकलक्षणानि यथा, -- “तीक्ष्णघ्राणोपयोगार्करश्मिसूत्रतृणादिभिः । वातकोपिभिरन्यैर्वा नासिका तरुणास्यनि ॥ विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् । निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशं क्षवः” ॥ इति वाभटे उत्तरस्थाने १९ अध्याये ॥ “घ्राणाश्रिते मर्म्मणि संप्रदुष्टे यस्यानिलो नासिकया निरेति । कफानुयातो बहुशः सशब्द- स्तं रोगमाहुः क्षरथुं विधिज्ञाः ॥ तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा । सूत्रादिभिर्वा तरुणास्थिमर्म्म- ण्युद्घाटिते यः क्षवथुर्निरेति” ॥ इत्युत्तरतन्त्रे द्वाविंशेऽध्याये सुश्रुतेनोक्तम् ॥ चिकित्सा यथा । “क्षेप्यं नस्यं मूर्द्धवैरेचनीयै- र्नाड्याचूर्णं क्षवथौ भ्रंशथौ च” ॥ इति चात्रैव २३ अध्याये तेनोक्तम् ॥ अस्य विधारणाज्जातो यः स यथा, -- “भवन्ति गाढं क्षवथोर्विघाता- च्छिरोऽक्षिनासाश्रवणेषु रोगाः । कण्ठास्यपूर्णत्वमतीवतोदः कूजश्च वायोरथवा प्रवृत्तिः” ॥ इति चोत्तरतन्त्रे पञ्चपञ्चाशत्तमेऽध्याये च तेनोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवथु पुं।

कासरोगः

समानार्थक:कास,क्षवथु

2।6।52।1।5

स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्. शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवथु¦ पु॰ क्षु--अथुच्।

१ क्षुते (हां चि)।

२ कासे च मेदि॰। क्षुतलक्षणं सुश्रुते उक्तं
“घ्राणाश्रिते मर्मणि संप्रदुष्टे य-स्यानिलोनासिकया निरेति। कफानुयातो बहुशः सशब्द[Page2367-b+ 38] स्तं रोगमाहुः क्षवथुंविधिज्ञाः”।
“उद्घाततोयः क्षव-थुर्निरेति” सुश्रुतः। क्षतजशब्दे

२३

५६ पृ॰ उदा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवथु¦ m. (-थुः)
1. Cough, catarrh.
2. Sneezing.
3. Irritation of the throat, sore throat. E. क्षु to sneeze, &c. अथुच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवथुः [kṣavathuḥ], [क्षु-अथुच्]

Sneezing.

Cough.

Irritation of the throat.

Sore throat. विषवैद्यो विजानाति सर्पस्य क्षवथुं ध्रुवम् Subha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षवथु m. ( Pa1n2. 3-3 , 89 Ka1s3. )sneezing A1p. ii , 3 , 2 Sus3r.

क्षवथु m. catarrh , cough , irritation of the throat , sore throat( क्षयथुL. ) W.

"https://sa.wiktionary.org/w/index.php?title=क्षवथु&oldid=497932" इत्यस्माद् प्रतिप्राप्तम्