क्षारगुड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारगुड¦ पु॰ क्षरेण पक्वः गुडः शा॰ त॰। च॰ द॰ उक्तेक्षारपक्वे गुडभेदे यथा
“पञ्चमूलं च त्रिफलामर्कमूलं शतावरीम्। दन्तीं चित्रक-मास्फोतां रास्नां पाठां सुधां शठीम्। पृथग्दशपलान्भागान् दग्ध्वा भस्म समावपेत्। त्रिःसप्तकृत्वस्तद्भस्म ज-लद्रोणेन गालयेत्। तद्रसं साधयेदरनौ चतुर्भागावशेषि-तम्। ततो गुडतुलां दत्त्वा साधयेन्मृदुनाग्निना। सिद्धंगुडन्तु विज्ञाय चूर्णानीमानि दापयेत्। वृश्चिकालीं द्वि-काकल्यौ यवक्षारं समां घचाम्। एतत् पञ्चपला मागाःपृथक् पञ्च पलानि च। हरीतकीं त्रिकटुक सर्जिकांचित्रकां वचाम्। हिङ्ग्वम्लवेतसाभ्याञ्च द्वे पले तत्रदापयेत्। अक्षप्रमाणां गुटिकां कृत्वा खादेद्यथाबलम्। अजीर्णं जरयत्येष जीर्ण्णे सन्दीपयत्यपि। भुक्तं भुक्तञ्चजीर्य्येत पाण्डुत्वमपकर्षति। प्लीहार्शःश्वयथञ्चैव श्लेष्म-कासमरोचकम्। मन्दाग्निविषमाग्नीनां कफे कण्ठोरसिस्थिते। कुषठानि च प्रमेहश्चां गुलमञ्चाशु नियच्छति। [Page2369-a+ 38] ख्यातः क्षारगुडो ह्येष रोगयुक्ते प्रयोजयेत्”।

"https://sa.wiktionary.org/w/index.php?title=क्षारगुड&oldid=497945" इत्यस्माद् प्रतिप्राप्तम्