क्षारागद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारागद¦ पु॰ सुश्रुतोक्ते औषधभेदे यथा
“धवाश्वकर्णतिनिशपलाशपिचुमर्द्दपाटलिपारिभद्रकाम्रोडु-म्बरकरहाटकार्जुनककुभसर्ज्जकफीतनश्लेष्मातकाङ्कोठाम-लकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरविल्वमहावृक्षा-रुष्करारलुमधुकमधुशिग्रुशाकगोजीमूर्व्वातिल्वकेक्षुरकगो-पघण्डारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारक-ल्पेन परिस्राव्य विपचेद्दद्याच्चात्र पिप्पलीमूलतण्डुलीयक-वराङ्गचोचकमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचोत्पल-सारिवाविडङ्गगृहधूमानन्तासोमसरलावाह्लीकगुहाकोशा-म्नश्वेतसर्षपलवणप्लक्षनिचुलकवर्द्धमानवञ्जुलपुत्त्रश्रेणीस-प्तपर्णदण्डकैलबालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरि-[Page2371-a+ 38] द्रावचाचूर्णानि लोहानाञ्च समभागानि ततः क्षारवदा-गतपाकमवतार्य्य लोहकुम्भे निदध्यात्। अनेनदुन्दुभिं लिम्पेत् पताकातोरणानि च। श्रवणाद्दर्शनात्स्पर्शात् विषात् सम्प्रतिमुच्युते। एष क्षारागदो नामशर्करास्वश्मरीषु च। अर्शःसु वातगुल्मेषु कासशू-लोदरेषु च। अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे। शोफे सर्व्वसरे चापि देयः श्वासे च दारुणे। एष सर्ववि-षार्त्तानां सर्वथैवोपयुज्यते। तथा तक्षकमुख्यानामयं द-र्पाङ्गुशोऽगदः”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारागद/ क्षारा m. an antidote prepared by extracting the alkaline particles from the ashes of plants Sus3r. v , 7 , 3.

"https://sa.wiktionary.org/w/index.php?title=क्षारागद&oldid=497960" इत्यस्माद् प्रतिप्राप्तम्