सामग्री पर जाएँ

क्षित्यदिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित्यदितिः, स्त्री, (क्षितौ अदितिः । देवमातुरदित्याः पृथिव्यां देवकीरूपेणाविर्भावात्तथात्वम् ।) देवकी । इति त्रिकाण्डशेषः ॥ (एतद्विवरणं यथा, -- हरिवंशे ५५ अध्याये । वैशम्पायन उवाच । “नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः । प्रत्युवाच शुभं वाक्यं देवानां प्रभुरीश्वरः ॥ त्रैलोकस्य हितार्थाय यन्मां वदसि नारद ! । तस्य सम्यक् प्रवृत्तस्य श्रूयतामुत्तरं वचः ॥ विदिता देहिनो जाता मयैते भुवि दानवाः । याञ्च यस्तनुमास्थाय दैत्यः पुष्यति विग्रहम् ॥ जानामि कंसं सम्भूतमुग्रसेनसुतं भुवि । केशिनञ्चैव जानामि दैत्यं तुरगरूपिणम् ॥ नागं कुवलयापीडं मल्लौ चानूरमुष्टिकौ । अरिष्टञ्चैव जानामि दैत्यं वृषभरूपिणम् ॥ विदितो मे खरश्चैव प्रलम्बश्च महासुरः । सा च मे विदिता विप्र ! पूतना दुहिता बलेः ॥ कालियञ्चैव जानामि यमुनाह्रदगोचरम् । वैनतेयभयाद् यस्तु यमुनाह्रदमाविशत् ॥ विदितो मे जरासन्धः स्थितो मूर्ध्नि महीक्षिताम् । प्राग्ज्योतिषपुरे चापि नरकं साधु तर्कये ॥ मानुषे पार्थिवे लोके मानुषत्वमुपागतम् । वाणञ्च शोणितपुरे गुहप्रतिमतेजसम् ॥ दृप्तं बाहुसहस्रेण देवैरपि सुदुर्ज्जयम् । मय्यासक्ताञ्च जानामि भारतीं महतीं धुरम् ॥ तच्च सर्व्वं विजानामि यथा यास्यन्ति ते नृपाः । क्षयो भुवि मया दृष्टः शक्रलोके च सत्क्रिया ॥ तेषां पुरुषदेहानामपरावृत्तिवर्त्तिनाम् । सम्प्रवेक्ष्याम्यहं योगमात्मनश्च पंरस्य च ॥ सम्प्राप्य मानुषं लोकं मानुषत्वमुपागतः । कंसादींस्तांश्च सर्व्वांश्च वधिष्यामि महासुरान् ॥ तेन तेन विधानेन येन यः शान्तिमेष्यति । अनुप्रविश्य योगेन तास्ता हि गतयो मया ॥ अमीषां हि सुरेन्द्राणां हन्तव्या रिपवो युधि । जगत्यर्थे कृतो योऽयमंशोत्सर्गो महात्मभिः ॥ सुरदेवर्षिगन्धर्व्वैरितश्चानुमते मम । विनिश्चयो हि प्रागेव नारदायं कृतो मया ॥ निवासं तत्र मे ब्रह्मा विदधातु पितामहः ॥ यत्र देशे यथा जातो येन वेशेन वा वसन् ॥ तानहं समरे हन्यां तन्मे ब्रूहि पितामह ! ॥ ब्रह्मोवाच । नारायणेमं सिद्धार्थमुपायं श्रृणु मे विभो ! । भुवि यस्ते जनयिता जननी च भविष्यति ॥ यत्र त्वं च महावाहो जातः कुलकरो मुवि । यादवानां महद्वंशमखिलं धारयिष्यसि ॥ तांश्चासुरान् समुत्पाट्य वंशं कृत्वात्मनो महत् । स्थापयिष्यसि मर्य्यादां नृणां तन्मे निशामय ॥ पुरा हि कश्यपो विष्णो ! वरुणस्य महात्मनः । जहार यज्ञिया गा वै पयोदाश्च महामखे ॥ अदितिः सुरभिश्चैव द्वे भार्य्ये कश्यपस्य तु । प्रदीयमाना गास्तास्तु नेच्छेतां वरुणस्य च ॥ ततो मां वरुणोऽभ्येत्य प्रणम्य शिरसा नतः ॥ उवाच भगवन् ! गावो गुरुणा मे हृता इति ॥ कृतकार्य्यो हि गास्तात ! नानुजानाति मे गुरुः । अन्ववर्त्तत भार्य्ये द्वे अदितिं सुरभिन्तथा ॥ मम ता ह्यक्षया गावो दिव्याः कामदुघाः प्रभो ! । चरन्ति सागरान् सर्व्वान् रक्षिताः स्वेन तेजसा ॥ कस्ता धर्षयितुं शक्तो मम गाः कश्यपादृते । अक्षयं याः क्षरन्त्यग्र्यं पयो देवामृतोपमम् ॥ प्रभुर्व्वा व्युत्थितो ब्रह्मन् गुरुर्व्वा यदि वेतरः । त्वया नियम्याः सर्व्वे वै त्वं हि नः परमा गतिः ॥ यदि प्रभवतां दण्डो लोके कार्य्यमजानताम् । न विद्यते लोकगुरो ! नासते लोकसेतवः ॥ यथा वास्तु तथा वास्तु कर्त्तव्यो भगवान् प्रभुः । मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम् ॥ आत्मा मम हि ता गावो या गावः सत्त्वमव्ययम् । लोकानां त्वत्प्रवृत्तानामेकं गोब्राह्मणं स्मृतम् ॥ त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति या द्विजान् । गोब्राह्मणपरित्राणात् परित्रातं जगत् भवेत् ॥ इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत ! । गवां कारणतत्वज्ञः कश्यपे शापमुत्सृजम् ॥ येनांशेन हृता गावः कश्यपेन महात्मना । स तेनांशेन तु महीं गत्वा गोपत्वमेष्यति ॥ या च सा सुरभिर्नाम अदितिश्च सुरारणी । ते प्युभे तस्य भार्य्ये वै तेनैव सह यास्यतः । स ताभ्यां सह गोपत्वे कश्यपो भुवि रंस्यते ॥ तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः । वसुदेव इति ख्यातो गोषु तिष्ठति भूतले ॥ गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः । तत्रासौ गोष्वभिरतः कंसस्य करदायकः ॥ तस्य भार्य्याद्वयञ्चैव अदितिः सुरभिस्तथा । देवकी रोहिणी चैव वसुदेवस्य धीमतः ॥ तत्रावतर लोकानां भवाय मधुसूदन ! । जयाशीर्व्वचनैस्त्वेते वर्द्धयन्ति दिवौकसः ॥ आत्मानमात्मना हि त्वमवतार्य्य महीतले । देवकीं रोहिणीञ्चैव गर्भाभ्यां परितोषय” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित्यदिति¦ स्त्री क्षितौ स्मदितिः। क्षितौ अदितेरवतारेदेवक्यां वसुदेवपत्न्याम। तत्कथा च हरिव॰

५६ अ॰।
“या च सा सुरभिनाम अदितिश्च सुरारणी। उभे तेतस्य वै भार्य्ये सह तेनंव यास्यतः। ताभ्यां सह सगोपत्वे कश्यपो भुवि{??}ंस्यत। तदस्य कश्यपस्यांशस्ते-जसा कश्यपोपमः। वसुदेव इति ख्यातो गोषु तिष्ठतिभूतले। गिरिर्गोवर्द्धनो नाम मथुरायास्त्वदूरतः। तत्रासौ गोष्वभिरतः कंसस्य परदायकः। तस्य भार्य्या-द्वयञ्चैव अदितिः सुरभिस्तथा देवकी रोहिणी चैव-पसुदेवस्य धीमतः। तत्रावतर लोकानां भावाथमधुसूदन!। विष्णु॰ प्रति ब्रह्मोक्तिः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित्यदिति¦ f. (-तिः) The mother of KRISHNA. E. क्षिति the earth, and अदिति the mother of the gods; the terrestrial parent of divinity.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षित्यदिति/ क्षित्य्--अदिति f. " the अदितिof the earth " , N. of देवकी(mother of कृष्ण) L.

"https://sa.wiktionary.org/w/index.php?title=क्षित्यदिति&oldid=497984" इत्यस्माद् प्रतिप्राप्तम्