क्षीरवृक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरवृक्षः, पुं, (क्षीरमयः क्षीरप्रधानो वा वृक्षः ।) उडम्बरवृक्षः । इति जटाधरः ॥ क्षीरिका । इति भरतः ॥ राजादनी । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते २४ अध्याये चिकित्सास्थाने । “क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः” ॥ राजादन्यर्थे पर्य्याया यथा, -- “राजादनः क्षीरवृक्षः पालाशी वानरप्रियः” ॥ इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरवृक्ष¦ पु॰ क्षीरप्रधानोवृक्षः।

१ उदुम्बरे जटा॰

२ क्षीरि-कायां भरतः।

३ राजादन्याम् राजनि॰

४ न्यग्रोधे

५ अ-श्वत्थे

६ मधूके (मौल) च सुश्रुतः।
“चतुर्णां वा क्षीरवृ-क्षाणां न्यग्रोधोदुम्बराश्वत्थमधूकानाम्” सुश्रु॰
“पत्राणिक्षीरवृक्षाणाम्” सुश्रु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरवृक्ष/ क्षीर--वृक्ष m. = -तरुVarBr2S.

क्षीरवृक्ष/ क्षीर--वृक्ष m. a common N. for the 4 trees न्यग्रोध, उदुम्बर(the glomerous fig-tree S3ak. iv Sus3r. ) अश्वत्थ, and मधूकSus3r.

क्षीरवृक्ष/ क्षीर--वृक्ष m. = -गुच्छफलL.

"https://sa.wiktionary.org/w/index.php?title=क्षीरवृक्ष&oldid=498043" इत्यस्माद् प्रतिप्राप्तम्