क्षीरिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिका, स्त्री, (क्षीरवत् स्वादोऽस्त्यस्य इति ठन् ।) क्षीरीवृक्षः । क्षीरखर्ज्जूर इति पिण्डखर्ज्जूर इति च केचित् । तत्पर्य्यायः । राजादनः २ फलाध्यक्षः ३ । इत्यमरः । २ । ४ । ४५ ॥ राजातनः ४ राजादन- फलम् ५ अध्यक्षम् ६ मधुका ७ क्षीरवृक्षः ८ पलाशो ९ पर्क्कटप्रियः १० गुरुस्कन्धः ११ श्लेष्मला १२ आतपली १३ वृषा १४ मौलिकाजाली १५ । इति भरतधृतवाचस्पतिः ॥ क्षीरिवृक्षः १६ वानर- प्रियः १७ । इति रत्नमाला ॥ राजन्यः १८ प्रिय- दर्शनः १९ दृढस्कन्धः २० कपीठः २१ । इति जटा- २४ । इति शब्दरत्नावली ॥ अस्याः फलगुणाः । “क्षीरिकायाः फलं पक्कं गुरु विष्टम्भि शीतलम् । कषायं मधुरं साम्लं नातिवातप्रकोपणम्” ॥ इति राजबल्लभः ॥ अपि च । “क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु । तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित्” ॥ इति भावप्रकाशः ॥ अन्यत् राजादनीशब्दे द्रष्ट- व्यम् ॥ * ॥ परमान्नम् । इति राजनिर्घण्टः ॥ (“क्षीरिका मधुरा चैते फलवर्गे प्रकीर्त्तिताः” ॥ इति हारीते प्रथमस्थाने १० अध्याये ॥ परमान्नार्थे पर्य्यायाः पाकप्रकारश्चास्या यथा, -- “पायसं परमान्नं स्यात् क्षीरिकापि तदुच्यते । शुद्धेऽर्द्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् पचेत् ॥ ते सिद्धाः क्षीरिका ख्याता ससिताज्ययुतोत्तमा” ॥ गुणाश्च यथा, -- “क्षीरिका दुर्ज्जरा प्रोक्ता वृंहणी बलबर्द्धिनी” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिका स्त्री।

क्षीरिका

समानार्थक:राजादन,फलाध्यक्ष,क्षीरिका

2।4।45।2।3

नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः। राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिका¦ स्त्री क्षीरं तत्तुल्यस्वादोऽस्त्यस्य ठन्।

१ राजादने

२ पिण्डखर्ज्जूरे अमरः।
“क्षीरिकायाः फलं पक्वंगुरु विष्ठम्भि शीतलम्” राजनि॰।
“क्षीरिकायाः फलं वृष्यंबल्यं स्निग्धं हिमं गुरु। तृष्णामूर्च्छामदभ्रान्तिक्षयदोयत्रयास्रजित्” भावप्र॰।

३ परमान्ने भावप्र॰ कृतान्नशब्दे

२१

८० पृ॰ दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिका¦ f. (-का)
1. A tree bearing an edible fruit, (Mimusops kauki, Rox.)
2. A potherb, Bhuicaonra, (Convolvulus paniculatus.) E. क्षीर milk, affix ठक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिका [kṣīrikā], 1 A dish prepared with milk.

N. of plant (Mar. दुधी, रांजणी, खिरणी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिका f. a dish prepared with milk Bhpr.

क्षीरिका f. a variety of the date tree MBh. iii , 11570 (= iii , 158 , 47 ed. Bomb. ; v.l. क) Lalit. xxiv.

"https://sa.wiktionary.org/w/index.php?title=क्षीरिका&oldid=498059" इत्यस्माद् प्रतिप्राप्तम्