क्षीरोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरोदः, पुं, (क्षीर + “उदकस्योदः संज्ञायाम्” । ६ । ३ । ५७ । “उत्तरपदस्य चेति व्यक्तव्यम्” । इति वार्त्तिकम् ।) दुग्धसमुद्रः । इत्यमरः । १ । १० । २ ॥ (यथा, महाभारते । १३ । १४ । ३५३ । “अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् । क्षीरोदसागरश्चैव यत्र यत्रेच्छसि प्रियम्” ॥) तस्य मन्थनं यथा, -- ततस्तीर्थोदकैः स्नाता दिब्यवस्त्रैरलङ्कृता । दिव्यगन्धानुलेपैस्तु सुमनोभिः सुपूजिता ॥ देवपक्षं समासाद्य स्थिता क्षणमरिन्दम ! । हरिवक्षःस्थलं प्राप्ता ततः सा कमलालया ॥ ततोऽमृतघटं पूर्णं गृहीत्वा पयसोनिधेः । धन्वन्तरिः समुत्तस्थौ ततः प्रीताः सुरा नृप ॥ दैत्याः श्रिया परित्यक्ता दुःखितास्तत्र ते पुनः । आदायामृतघटं शीघ्रं ते च जग्मुर्यथेच्छया ॥ ततः स्त्रीरूपमकरोद्विष्णुदवहिताय वै । आत्मानं नृपशार्दूल ! नार्य्या लक्षणसंयुतम् ॥ ततो जगाम भगवान् स्त्रीरूपेण सुरान् प्रति । दिव्यरूपान्तु तां दृष्ट्वा मोहितास्ते सुरद्विषः ॥ अमृतपूर्णं घटं भूमौ हैमं संस्थाप्य सत्तम । कामेन पीडिता ह्यासन्नसुरास्तत्र तत्क्षणात् ॥ मोहयित्वा तु तानेवमसुरानवनीषते ! । अमृतभाजनमादाय देवेभ्यः प्रददौ हरिः ॥ तत् पीत्वा तु ततो देवा देवदेवप्रसादतः । बलवन्तो महावीर्य्या रणे जग्मुर्महासुरान्” ॥ इति नृसिंपुराणे ३६ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरोद पुं।

समुद्रविशेषः

समानार्थक:क्षीरोद,लवणोद

1।10।2।2।1

रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः। तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरोद¦ पु॰ क्षीरमिव स्वादु उदकं यस्य उदादेशः। दुग्धस-मुदे
“ततः श्रीरुत्थिता तस्मात् क्षीरोदात् धृतपङ्कजा” नृसिंहपु॰। क्षीरोदमन्थनकथा यथा
“मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्। दानवैः सहिता भूत्वा मथध्वं क्षीरसागरम्। अहञ्चतत्र साहाय्यं करिष्यामि दिवौकसः!। भविष्यत्यमृतं तत्र{??}त्पानाद्बलवत्तराः। भविष्यथ क्षणादेव अमृतस्य प्रमा-वतः। यूयं सर्व्वे महाबीर्य्या भुञ्जिष्ठा रणविक्रमाः। इन्द्राद्यास्तु महोत्साहाः स्थानलब्धिसहानरीन्। ततो हि दानवान् जेतुं समर्था नात्र संशयः। इत्युक्तादेवदेवेन देवाः सर्व्वे जगत्पतिम्। प्रणम्यागत्य निलयंसन्धिं कृत्वाथ दानवैः। क्षीराब्धिमथने सर्व्वे चक्रु-रुद्योगमुत्तमम्। बलिना चोद्धृतो राजन्! मन्दराख्योमहागिरिः। क्षीराब्धौ क्षेपितश्चैव तेनैकेन नृपोत्तम!। सर्व्वौषधिश्च प्रक्षिप्ता देवैर्दैत्यैः पयोदधौ। वासुकिश्चततस्तत्र राजन्। नारायणाज्ञया। सर्वदेवहितार्थाय विष्णुश्च स्वयमागतः। तती विष्णुसमादेशात्तत्र सर्वे सुरा-सुराः। समेत्य मित्रभावेन क्षीराब्धेस्तटमाश्रिताः। मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाऽथ वासुकिम्। ततोमथितुमारब्धा नृपते! तरसाऽमृतम्। विष्णुना मुखभागेतु वासुकेर्दानवाः कृताः। देवाश्च पुच्छभागे तु मन्थ-नार्थं नियोजिताः। एवन्तु मन्थनात्तत्र मन्दराधः प्र-विश्य वै। आधारेण विना राजंस्तं दृष्ट्वा सहसा हरिः। सर्वलोकहितार्थाय कूर्म्मरूपमधारयत्। आत्मानं सं-[Page2380-a+ 38] प्रवेश्याथ मन्दरस्य गिरेरधः। प्रविश्य धृतवान् शैलंपृथग्रूपेण केशवः। उपर्य्याक्रान्तवान् शैलं पृथग्रूपेणकेशवः। चकर्ष नागराजानं देवैः सार्द्धं जनार्द्दनः। असुरादृश्यरूपेण दैत्यमध्ये च केशवः। ततस्ते तु त्वरा-युक्ता ममन्थुः क्षीरसागरम्। यावच्छक्त्या नृपश्रेष्ठ!बलवन्तः सुरासुराः। मय्यमाने ततस्तस्मात् क्षीराब्धेरभवन्नप!। कालकूटमिति ख्यातं{??}षभत्यन्ततःसहम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरोद¦ m. (-दः) The sea of milk. E. क्षीर milk, and उद water: it also implies the sea in general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरोद/ क्षीरो m. ( Pa1n2. 6-3 , 57 Va1rtt. )(= र-धि)the ocean of milk MBh. Hariv. 12834 R. Sus3r. Kum. BhP.

क्षीरोद/ क्षीरो Nom. P. दतिto become the ocean of milk Subh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the milk ocean encircling शाकद्वीप; (क्रौञ्च-भा। प्।, कुश-म्। प्); churning of, for अमृत; फलकम्:F1: भा. V. 1. ३३; २०. १८; X. [६५. (v) २४]. Br. II. १९. १०२; २१. ७१; २५. ४५. M. १२२. ४९; १२४. ४८; वा. ३५. ३७-41; ५४. ४९; Vi. II. 4. ७१.फलकम्:/F cursed by ब्राह्मणस् to be deprived of all drinkable water; here lies Hari in yoganidra guarded by गरुड. विष्णु in the form of आदिकूर्म. फलकम्:F2: भा. X. [५२ (v) 7; १०]; Br. II. २७. २५; III. ६९. ३२; ७२. २१; IV. 9. ४६ and ६०.फलकम्:/F Encircles त्रिकूट; फलकम्:F3: भा. VIII. 2. 1; 4. १८.फलकम्:/F शुक to परीक्- षित् on the legend of the churning of ocean. फलकम्:F4: भा. VIII. 5. ११-15.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=क्षीरोद&oldid=498062" इत्यस्माद् प्रतिप्राप्तम्