क्षु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षु, दु ल क्षुते । इति कविकल्पद्रुमः ॥ (अदां-परं- अकं-सेट् ।) क्षुतं हा~ची इति ख्यातम् । टु, क्षवथुः । ल, क्षौति कफी । कृतकं कामिनि चुक्षुवे मृगाक्ष्या । इति माघे । इति दुर्गादासः ॥

क्षुः, पुं, (क्षणोति हिनस्ति जीवान् इति । क्षण् हिंसायां + डुः ।) सिंहः । इत्येकाक्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षु¦ क्षुतौ पु॰(हां चि) अदा॰ अक॰ सेट्। क्षौति क्षुतः क्षुवन्तिअक्षावीत् चुक्षाय क्षविष्यति। उगन्तत्वात् किति कृति अ-निट्क्षुतम्। क्षुतिः क्षुत्वा। क्षयथुः
“पुरांचुक्षाव चाशुभम्” भट्टिः।
“कृतकं कामिनि चुक्षुवे मृगाक्ष्या” माघः
“सुप्त्वाक्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वाऽनृतं वचः। पीत्वापोऽध्येष्य-माणश्च आचामेत् प्रयतोऽपि सन्”।
“क्षुवतीं जृम्भमाणांवा” मनुः।
“क्षतोत्पतनजृम्भसु” ति॰ त॰ पुरा॰।
“रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या” चोरप॰। अव + अधःस्थस्य क्षवथुना दूषणे
“अवक्षुतं केशपतङ्गकीटैः” यमः। अवक्षुतं उपरिकृतक्षुतेन दूषितम्।
“पतितान्न-मवक्षुतम्” मनुः
“अवक्षुतम् उपरिकृवक्षुतम्” कुल्लू॰अन्योपसर्गपूर्व्वस्तु तत्तद्द्योत्यार्थयुक्तक्षुतौ।

क्षु¦ पु॰ क्षुद--बा॰ डु।

१ अन्ने निघण्टुः
“तक्षद्यदी मनसोवेनतावाग्ज्येष्ठाय व धर्म्मणि क्षोरनीके” ऋ॰

९ ।

५ ।

७ ।

२२ क्षण--हिंसायां डु।

२ सिंहे एकाक्ष रकोषः

३ स्तवादिशब्देक्षुमत्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षु (टु) टुक्षु¦ r. 2d cl. (क्षौति) To sneeze, to make any such sound.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षु [kṣu], 2 P. [क्षौति, क्षुत]

To sneeze; अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या Śi.9.83; Ch. P.1; Bk. 14.75; ... रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या ॥ Bil. Ch.2.5.

To cough.

क्षु [kṣu], 9 U. To jump (also 5 P.); cf. क्षुणाति च क्षुणीते च क्षुणोत्याप्लवने$पि च । क्षन्दते क्षुन्दते चापि षडाप्लवनवाचिनः ॥ इति भट्टमल्ल.

क्षुः [kṣuḥ], Ved.

Food; विश्वं विवेष्टि द्रविणमुप क्षु Rv.1.61.12

A lion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षु cl.2 P. क्षौति( Gaut. ; pr. p. क्षुवत्Ta1n2d2yaBr. Mn. iv , 43 BhP. ix , 6 , 4 ; perf. चुक्षावBhat2t2. ; Pass. चुक्षुवेS3is3. ix , 83 ; fut. 2nd क्षविष्यतिPa1n2. 7-2 , 10 Siddh. ; fut. 1st क्षविताVop. ; ind.p. क्षुत्वाMn. v , 145 MBh. ) , to sneeze; to cough W. : Desid. चुक्षूषति, to try to sneeze JaimBr. : Caus. Desid. चुक्षावयिषतिPa1n2. Siddh. ; ([ cf. Lith. czaudmi.])

क्षु n. ( घस्Naigh. ii , 7 )food RV. ix , 97 , 22 and x , 61 , 12.

"https://sa.wiktionary.org/w/index.php?title=क्षु&oldid=498068" इत्यस्माद् प्रतिप्राप्तम्