क्षुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुतम्, क्ली, (क्षु शब्दे क्षुते च + भावे क्तः ।) ना- सिकाभिघातजन्यसशब्दवायुनिःसरणम् । हा~ची इति भाषा । तत्पर्य्यायः । क्षुत् २ क्षवः ३ । इत्यमरः । २ । ६ । ५२ ॥ क्षुता ४ छिक्का ५ क्षवथुः ६ क्षुतः ७ । इति शब्दरत्नावली ॥ हञ्छिः ८ । इति जटाधरः ॥ * ॥ तस्य शकुनानि यथा, -- “अथ क्षुताख्यं शकुनं क्रमेण महाप्रभावं प्रतिभावयामः । नश्यन्ति यस्माच्छकुनाः समस्ता मृगाधिनाथादिव वन्यसत्त्वाः ॥ सर्व्वस्य सर्व्वत्र च सर्व्वकालं क्षुतं न कार्य्यं क्वचिदेव शस्तम् । यातुः क्षुते तेन न किञ्चिदेव कुर्य्यात् क्षुतं प्राणहरञ्च गन्तुः ॥ निषेधमग्रेऽक्षिणि दक्षिणे च धनक्षयं दक्षिणकर्णदेशे । तत् पृष्ठभागे कुरुतेऽर्थवृद्धिं क्षुतं कदाचित् शुभमादधाति ॥ भोगाय वामश्रवणस्य पृष्ठे कर्णे च वामे कथितं जयाय । सर्व्वार्थलाभाय च वामनेत्रे जातं क्षुतं स्यात् क्रमशोऽष्टधैव ॥ क्रमान्निषेधं गमनस्य विघ्नं कलिं समृद्धिं क्षुतमुग्ररोगम् । करोति रोगक्षयमर्थलाभं दीप्त्यादिनाशञ्च क्षुतं करोति ॥ प्रागास्य पुंसः परतोऽपरा स्यात् पुनः पुनर्व्वा तत एव जातः । वृद्धाच्छिशोर्व्वा कफतो हठाद्वा जातं क्षुतं केऽपि वदन्ति सत्यम् ॥ दक्षिणवक्रेति नासाविशेषणम् । इति च गारुडे ६६ अध्यायः ॥

क्षुतः, पुं, (क्षु + क्तः । आभिधानात् पुंस्त्वम् ।) क्षुतम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत नपुं।

छिक्का

समानार्थक:क्षुत्,क्षुत,क्षव

2।6।52।1।2

स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्. शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत¦ न॰ क्षु--भावेक्त। क्षवथौ (हां चि) अमरः क्षवथुशब्दे वि-[Page2380-b+ 38] वृतिः। क्षुतस्य शुभाशुभसूचकत्वं, वसत्तराजशाकुने

३ प्र॰
“अथ क्षुताख्यं शकुनं क्रमेण महाप्रभावं प्रविभाव-यामः। नश्यन्ति यस्माच्छकुनाः समस्ता मृगाधिनाथा-दिव वन्यसत्वाः। सर्व्वस्य सर्व्वत्र च सर्व्वकालं क्षुतं नकार्य्यं क्वचिदेव शस्तम्। यातुः क्षुते तेन न किञ्चिदेवकुर्य्यात् क्षुतं प्राणहरञ्च गन्तुः। निषेधमग्रेऽक्षिणिदक्षिशे च धनक्षयं दक्षिणकर्णदेशे। तत्पृष्ठभागे कुरुतेऽर्थवृद्धिं क्षतं कदाचित् शुभमादध नि। भोगाय वाम-श्रवणस्य, पृष्ठे कर्णे च वामे कथितं जयाय। सर्व्वार्थला-भाय च वामनेत्रे जातं क्षुतं स्यात् क्रमशोऽष्टधैव। क्रमान्निषेधं गमनस्य विघ्नं कलिं समृद्धिं क्षुतमुग्ररो-गम्। करेति रोगक्षयमर्थनाभं दीप्त्यादिनाशञ्च क्षुतंकरेति। प्रागास्यपुंसः परतो ऽपरा स्यात् पुनः पुन-र्व्वातत एव जातम्। वृद्धाच्छिशोर्व्वा कफतो हठाद्वाजातं क्षुतं केऽपि वदन्ति शस्तम्। आद्यलयोर्न स्वज-ने प्रशस्तं क्षुतं प्रशंसन्ति न भोजनादौ। भवेत् कथ-ञ्चिद्यदि भोजनान्ते भवेत्तदाग्रे न हि भोज्यलाभः। आदौ क्षुतञ्चेत् शकुनैस्ततः किं जातानजातान् शकुना-न्निहन्ति। क्षुतं क्षणेनात्र न संशयोऽस्मिन् प्रयोजनेयत्नकृतेऽपि जातम्। क्षुतं क्षणात्तद्विनिहन्त्यवश्यंवार्य्यात्मकेनापि मनागदोषम्। तस्मादपेक्ष्यं न विचक्ष-णेन क्षुतं यतश्चाशु फलं विधत्ते”। इति।
“छिक्काया लक्षणं वक्ष्ये लभेत् पूर्वे महाफलम्। आग्ने-षे शोकसन्तापौ, दक्षिणे हानिमाप्नुयात्। नैरृते शोक-सन्तापौ, मिष्टान्नञ्चैव पश्चिमे। अन्नं प्राप्नोति वायव्ये,उत्तरे कलहो भवेत्। ईशाने मरणं प्रोक्तं, प्रोक्तंछिक्काफलाफलम्” गारुडपु॰

६० अ॰तिथित॰ वर्षकृत्यवाक्यम
“वित्तं ब्रह्मणि, कार्यसिद्धिरतुलाशक्रे, हुताशे भयं, याम्यामग्निभयं, सुरद्विषि कलि, र्लाभःसमुदालये। वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गनाचोत्तरे, एशान्यां मरणं ध्रुवं निगदितं दिग् लक्षणं खञ्जने। ज्येष्ठीरुते क्षुतेऽप्येवमूचुः केचिच्च कोविदाः” इति। क्वचित्तस्य शुभसूचकता यथा
“आसने शयने दाने भोजनेव त्रसंग्रहे। विवाहे च विवाहे च क्षुतं सप्तसु शोभनम्” क्षतनिमित्तं शुद्ध्यर्थमाचमनं कर्त्तव्यम् यथाह याज्ञ॰
“स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा वस्त्रोपसर्पणे। आचान्तःपुनराचामेत् वासोविपरिधाय च”। अशक्तौ स्मृतिः
“क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने। कर्म्मस्थ एषु[Page2381-a+ 38] नाचामेत् दक्षिणं श्रवणं स्पृशेत्”। अन्यक्षुते जीवश्बदःप्रयोज्यः यथा मदनपरिजातधृतम्
“जीवेति क्षवतोब्रूयात् जीवेत्युक्ते त्वया सहेति”
“क्षुतोत्पतनजृम्भासुजीवोत्तिष्ठाक्षुलिध्वनिः। शत्रोरपि च कर्त्तव्योह्यन्यथाब्रह्महा भवेत्” ति॰ त॰।
“दीर्घायुष्कृत् क्षुतं दीर्घं युगपद्द्वित्रिपिण्डितम्” काशीख॰ स्त्रीलक्षणे। असंयुतमुखस्य क्षुत-करणंनिषिद्धं यथा विष्णुध॰
“नासंवृत्तमुखः कुर्य्याद्धास्यंजृम्भां तथा क्षुतम्”।
“स्वनितं प्रतिक्षुतमिवोपशुश्रुवे” माघःताजकोक्तायाम्

२ अरिदृष्टौ अरिशब्दे

३५

५ पृ॰ विवृतिः
“क्षुताख्यदृष्ट्या न शुभंतदापि”।
“क्षुतदृष्ट्या रिपोर्भ-यम्” नीलक॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत¦ mfn. (-तः-ता-तं) Sneezed, sneezing. mf. (-तः-ता)
1. Sneezing.
2. Cough. E. क्षु to sneeze, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुतः [kṣutḥ] क्षुतकः [kṣutakḥ], क्षुतकः Black mustard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुत mfn. one who has sneezed MBh. xiii , 7584

क्षुत mfn. (= अव-क्ष्)sneezed upon ib. 1577

क्षुत mfn. for क्ष्णुत(sharp) L.

क्षुत m. black mustard Gal.

क्षुत n. (also अस्, आmf( आ). L. )sneezing Ya1jn5. i , 196 Sus3r.

"https://sa.wiktionary.org/w/index.php?title=क्षुत&oldid=498072" इत्यस्माद् प्रतिप्राप्तम्