क्षुधा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुधा, स्त्री, (क्षुध् बुभुक्षायां सम्पदादित्वाद् क्विप् हलन्तत्वाद् वा टाप् ।) भोजनेच्छा । इति दुर्गादासः ॥ अभ्यवहारजिहीर्षा इति ॥ “या देवी सर्व्वभूतेषु क्षुधारूपेण संस्थिता” । इति देवी- माहात्म्यटीकायां नागोजीभट्टः ॥ तत्पर्य्यायः । अशनाया २ बुभुक्षा ३ क्षुत् ४ । इत्यमरः शब्द- रत्नावली च ॥ जिघत्सा ५ । इति जटाधरः ॥ * ॥ तत्कार्य्याणि यथा, -- “व्याधयो निर्जिताः सर्व्वे क्षुधया नृपसत्तम ! ॥ कुण्डली मुकुटी स्रग्वी तथैवालङ्कृतो नरः । क्षुधार्त्तो न विराजेत प्रेतवत्तृषितो नृणाम् ॥ स्त्रीरत्नविविधान् भोगान् वस्त्राण्याभरणानि च । न चेच्छति नरः किञ्चित् क्षुधया कलुषीकृतः ॥ यथा भूमिगतं तोयं रविरश्मिभिः शुष्यति । शरीरस्थस्तथा धातुः शुष्यते जाठराग्निना ॥ न शृणोति न चाघ्राति चक्षुषा न च पश्यति । दह्यते वेपते भूढः शुष्यते च क्षुधार्द्दितः ॥ मूकत्वं बधिरत्वञ्च जरान्धत्वन्तु पङ्गुताम् । रौद्रं मर्य्यादहीनत्वं क्षुधा सर्व्वं प्रवर्त्तते ॥ भगिनीं जननीं पुत्त्रं भार्य्यां दुहितरं तथा । भ्रातरं स्वजनं वापि क्षुधाविष्टो न विन्दति” ॥ इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुधा¦ f. (-धा) Hunger. E. क्षुध् to be hungry, affixes अङ् and टाप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुधा f. ( g. अजा-दिGan2ar. 40 ) id. Nal. Pan5cat.

क्षुधा f. a mystical N. of the letter य्Ra1matUp.

"https://sa.wiktionary.org/w/index.php?title=क्षुधा&oldid=498112" इत्यस्माद् प्रतिप्राप्तम्