क्षेत्रज्ञ
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षेत्रज्ञः, पुं, (क्षेत्रं शरीरं एतच्छरीरं ममेति कृत्वा यो जानाति आपादतलमस्तकं ज्ञानेन विषयीकरोति स्वाभाविकेन औपदेशिकेन वेद- नेन विषयीकरोति वा कृषीवलवत् तत्फल- भोक्तृत्वादित्यर्थः । ज्ञा + “इगुपधज्ञाप्रीकिरःकः ।” ३ । १ । १३५ । इति कः ।) शरीराधिदैवतम् । तत्पर्य्यायः । आत्मा २ पुरुषः ३ । इत्यमरः । १ । ४ । २९ ॥ त्रीणि शरीराधिदैवतेऽन्तर्भोक्तरि । (क्षेत्रेषु सर्व्वदेहेषु सर्व्वान्तर्य्यामितया विराज- मानः सन् “सर्व्वज्ञः सर्व्वशक्तिमान् सर्व्वक्षेत्र- पालयिता” इत्यात्मस्वरूपं जानाति अनुभवति यः प्रज्ञानघनः परमपुरुषः स सर्व्वान्तरात्मा असंसारी परमेश्वरः ।) क्षेत्रं शरीरं जाना- तीति क्षेत्रे शरीरे जानाति ज्ञानवान् भव- तीति वा क्षेत्रज्ञः । हनजनादिति डः । इति भरतः ॥ तस्य पर्य्यायान्तरम् । सुबीजः ४ पुरुषः ५ अन्तर्यामी ६ ईश्वरः ७ पुद्गलः ८ परसंज्ञकः ९ । इति शब्दरत्नावली ॥ प्रधानम् १० । इति जटाधरः ॥ * ॥ (उभयतः प्रमाणं यथा, भगवद्गीतायाम् । १३ । १--२ । “इदं शरीरं कौन्तेय ! क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ क्षेत्रज्ञञ्चापि मां विद्धि सर्व्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥” ईश्वरपक्षे भाष्यकृदर्थो यथा, -- “क्षेत्रक्षेत्रज्ञा- वुक्तौ किमेतावन्मात्रेण ज्ञानेन ज्ञातव्याविति नेत्युच्यते क्षेत्रज्ञमिति । क्षेत्रज्ञं यथोक्तलक्षण- ञ्चापि मां परमेश्वरमसंसारिणं विद्धि जानीहि योऽसौ सर्व्वक्षेत्रेष्वेकः क्षेत्रज्ञो ब्रह्मादिस्तम्ब- पर्य्यन्तानेकक्षेत्रोपाधिप्रविभक्तस्तं निरस्तसर्व्वो- पाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धी- त्यभिप्रायः । हे भारत ! यस्मात् क्षेत्रक्षेत्रज्ञे- श्वरयाथात्म्यव्यतिरेकेण न ज्ञानगोचरमन्यद- वशिष्टमस्ति तस्मात् क्षेत्रक्षेत्रज्ञयोर्ज्ञेयभूतयोर्यज् ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते तज्ज्ञानं सम्यक्ज्ञानमिति मतं अभिप्रेत- मित्यभिप्रायो मम ईश्वरस्य विष्णोः ॥” अपि च तत्रैव । १३ । २२ । “उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥” विष्णुः । यथा, महाभारते । १३ । विष्णुसहस्र- नामकीर्त्तने । १४९ । १५ । “पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥”) वटुकभैरवः । यथा, -- “क्षेत्रज्ञः क्षत्त्रियो विराट् ।” इति तस्य स्तोत्रम् ॥ छेकः । इति मेदिनी ॥ विदग्धः । कृषकः । इति शब्दरत्ना- वली ॥ शेषद्वयार्थे त्रि ॥
अमरकोशः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षेत्रज्ञ पुं।
आत्मा
समानार्थक:क्षेत्रज्ञ,आत्मन्,पुरुष,भाव,स्व
1।4।29।1।1
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्. विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥
: परमात्मा, अन्तरात्मा
पदार्थ-विभागः : , द्रव्यम्, आत्मा
क्षेत्रज्ञ पुं।
पुरुषः
समानार्थक:पुमाम्स,पञ्चजन,पुरुष,पूरुष,नर,क्षेत्रज्ञ,धव
3।3।33।1।1
पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः। संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥
पत्नी : स्त्री
सम्बन्धि2 : पुरुषलिङ्गः,दाढिका
वैशिष्ट्यवत् : पुरुषप्रमाणम्
: द्व्यूढापतिः, कन्यकासुतः, पितृष्वसुः_सुतः, मातृष्वसुः_सुतः, अपरमातृसुतः, पिता, पत्युर्वा_पत्न्याः_वा_पिता, पितुर्भ्राता, मातुर्भ्राता, पत्नीभ्राता, पत्युः_कनिष्ठभ्राता, भगिनीसुताः, पुत्र्याः_पतिः, पितुः_पिता, पितामहस्य_पिता, मातुः_पिता, मातामहस्य_पिता, एकोदरभ्राता, पतिः, मुख्यादन्यभर्ता, बालः, वृद्धः, ज्येष्ठभ्राता, कनिष्ठभ्राता, निर्बलः, बलवान्, स्थूलोदरः, चिपिटनासः, प्रशस्तकेशः, श्लथचर्मवान्, स्वभावन्यूनाधिकाङ्गः, ह्रस्वः, तीक्ष्णनासिकः, गतनासिकः, पशुखुरणसदृशनासिकः, विरलजानुकः, ऊर्ध्वजानुकः, संलग्नजानुकः, श्रवणशक्तिहीनः, कुब्जः, रोगादिना_वक्रकरः, अल्पशरीरः, जङ्घाहीनः, खण्डितकेशः, उन्नतनाभियुक्तपुरुषः, परिवेत्तुर्ज्येष्ठभ्राता, ऋणं_दत्वा_तद्वृत्याजीविपुरुषः, कृषीवलः, कालेप्यश्मश्रुः_पुरुषः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
क्षेत्रज्ञ वि।
कुशलः
समानार्थक:प्रवीण,निपुण,अभिज्ञ,विज्ञ,निष्णात,शिक्षित,वैज्ञानिक,कृतमुख,कृतिन्,कुशल,क्षेत्रज्ञ
3।3।33।1।1
पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः। संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षेत्रज्ञ¦ पु॰ क्षवमात्मत्वेन सर्व्वज्ञत्वेन वा जानाति ज्ञा--क।
१ आत्मत्मत्वेन देहाद्यभिमानिनि जीवे
२ सर्व्वज्ञे परमेश्वरे।
“इदं शरीरं कौन्तेय! क्षेत्रमित्यभिधीयते। एतद्योवेत्तितं प्राहुः क्षेत्रज्ञ इति तद्विदः। क्षेत्रज्ञञ्चापि मां विद्धिसर्वक्षेत्रेषु भारत!। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतंमम! तत् क्षेत्रं यच्च यादृक् चं यद्विकारि यतश्च यत्। स च योयत्प्रभावश्च तत् समासेन मे शृणु। ऋषिभि-र्बहुवा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैवहेतुमद्भिर्विनिश्चितैः। महाभूतान्यहङ्कारोबुद्धिरव्यक्त-मेव च। इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः। इच्छाद्वेषः सुखं दुःखं संघातश्चेतना धृतिः। एतत् क्षेत्रंसमासेन सविकारमुदाहृतम्” गीता।
“अव्ययः पुरुषःसाक्षी क्षेत्रज्ञोऽक्षर एव च” विष्णु स॰
३ साक्षिणि च।
“प्रकृत्यास्तु विकाराये क्षेत्रज्ञस्तैरधिष्ठितः” नचैनं तेप्रजानान्ति स तु जानाति तानि वै” भा॰ शा॰
२४
३ अ॰।
“यस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते” इति मनूक्ते
४ अन्तर्यामिणि
“हृदि स्थितः कर्म्मसाक्षी क्षेत्रज्ञो यस्यतुष्यति” भा॰ आ॰
३०
१६ श्लो॰।
५ वटुकभैरवे
“क्षेत्रज्ञःक्षत्रियोविराट्” वटुकस्तवः।
६ विदग्धे त्रि॰ मेदि॰
७ कृषकेत्रि॰ शब्दरत्ना॰
८ क्षेत्रज्ञातरि त्रि॰
“तद्यथा हिरण्य-निधिं निहितमक्षेत्रज्ञ उपर्य्युपरि सञ्चरन्तो न विन्देयुः” छा॰ उ॰। ततः व्राह्मणा॰ भावे ष्यञ् क्षेत्रज्ञ्य युवा॰अण्। क्षैत्रज्ञ तद्भावे न॰।
शब्दसागरः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षेत्रज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं)
1. Clever, dexterous, skilful.
2. A husbandman, &c. m. (-ज्ञः)
1. The soul, the emanation of divinity residing in the body.
2. A libertine, a whore-monger. E. क्षेत्र a field, the body, &c, and ज्ञ who knows.
Monier-Williams[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षेत्रज्ञ/ क्षेत्र--ज्ञ mfn. knowing localities TBr. iii AitBr. Ta1n2d2yaBr. S3Br. xiii ChUp.
क्षेत्रज्ञ/ क्षेत्र--ज्ञ mfn. familiar with the cultivation of the soil (as a husbandman) L.
क्षेत्रज्ञ/ क्षेत्र--ज्ञ mfn. clever , dexterous , skilful (with gen. ) MBh. i , 3653
क्षेत्रज्ञ/ क्षेत्र--ज्ञ mfn. cunning L.
क्षेत्रज्ञ/ क्षेत्र--ज्ञ m. " knowing the body " i.e. the soul , the conscious principle in the corporeal frame S3vetUp. Mn. viii , 96 ; xii , 12 and 14 Ya1jn5. MBh. Hariv. 11297 , etc.
क्षेत्रज्ञ/ क्षेत्र--ज्ञ m. a form of भैरव(or शिव)
क्षेत्रज्ञ/ क्षेत्र--ज्ञ m. N. of a prince BhP. xii , 1 , 4 ( vv.ll. क्षत्रौ-जस्and क्षेमा-र्चिस्)
Purana index[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--the son of क्षेमधर्मन् and father of विधिसार. भा. XII. 1. 5. [page१-492+ ३२]
(II)--is पुरुष; फलकम्:F1: Br. II. ३२. ८५; IV. 3. ८६-90, १०२ and १०८; 4. १९.फलकम्:/F four powers of ज्ञानम्, वै- राग्यम्, ऐश्वर्यम् and धर्म; ety. फलकम्:F2: M. १४५. ७२-8.फलकम्:/F Lord of प्रकृतिस्; फलकम्:F3: वा. १०१. २२३, २२८; १०२. ३३, १०८-9; १०३. २७.फलकम्:/F called Mati by his knowledge of क्षेत्रा. फलकम्:F4: वा. ५९. ७०; Br. I. 3. ३७.फलकम्:/F
(III)--involuntary for his action and stands in its own natural place; when क्षेत्र and क्षेत्रज्ञ have equal गुणस् and no वैषम्य takes place; वैषम्य or excess or otherwise of these गुणस् when they take to the quality of भोज्य भोक्तृत्व; the २४ गुणस् from महत् to विशेष। वा. १०३. १५-19.