क्षेत्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्री, [न्] त्रि, (क्षेत्रमस्यास्तीति इनिः ।) क्षेत्र- विशिष्टः । कृषीवलः । यथा, हेमचन्द्रः । “कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्विकौ ॥” (यथा च मानवे । ९ । ५१ । “तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः । कुर्व्वन्ति क्षत्रिणामर्थं न बीजी लभते फलम् ॥”) परगवादिना शस्यविनाशे तत्प्राप्तिर्यथा, -- “यावत् शस्यं विनश्येत्तु क्षेत्री तावत् फलं लभेत् । पालस्ताड्योऽथ गोस्वामी पूर्ब्बोक्तं दण्डमर्हति ॥ इति याज्ञवल्क्यवचने गवादिदोषेण यावत् शस्यं विनश्यति तावदेव पालकात् प्राप्तव्यं पालका- शक्तौ पालकस्ताड्यः गोस्वामी पूर्ब्बोक्तं दण्डा- दिकं अर्हति ।” इति प्रायश्चित्ततत्त्वम् ॥

क्षेत्री, [न्] पुं, (क्षेत्रं स्त्री अस्त्यस्य । क्षेत्र + इनिः ।) स्वामी । भर्त्ता । यथा, मनुः । ९ । ३२ ॥ “भर्त्तुः पुत्त्रं विजानन्ति श्रुतिद्वैधन्तु भर्त्तरि । आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः ॥” “भर्त्तुरिति । भर्त्तुः पुत्त्रो भवतीति मुनयो मन्यन्ते । भर्त्तरि द्विप्रकारा श्रुतिर्वर्त्तते । केचिदुत् पादकमवोढारमपि भर्त्तारं तेन पुत्त्रेण पुत्त्रिण- माहुः । अन्ये तु वोढारं भर्त्तारमनुत्पादक- मपि अन्यजनितेन पुत्त्रेण पुत्त्रिणमाहुः ।” इति तट्टीकायां कुल्लूकभट्टः ॥ (परमात्मा । यथा, गीतायाम् । १३ । ३३ । “यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ! ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेत्री f. only dat. त्रियैfor त्रियात्( AV. ii , 10 , 1 ) TBr. ii , 5 , 6 , 1

"https://sa.wiktionary.org/w/index.php?title=क्षेत्री&oldid=498155" इत्यस्माद् प्रतिप्राप्तम्