क्षेपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपणम्, क्ली, (क्षिप + भावकर्म्मादिषु ल्युट् ।) प्रेर- णम् । तत्पर्य्यायः । क्षिपा २ । इत्यमरः । ३ । २ । ११ ॥ यापनम् । यथा, -- “विधवा यौवनस्था च नारी भवति कर्कशा । आयुषः क्षेपणार्थन्तु दातव्यं स्त्रीधनं सदा ॥” इति विवादचिन्तामणिधृतहारीतवचनम् ॥ प्रस्तरादीनां दूरप्रेरणार्थरज्जुनिर्म्मितशिक्यम् । फिङ्गा इति भाषा । यथा, श्रीभागवते । ३ । १९ । “प्रववुर्व्वायवश्चण्डास्तमः पांशवमैरयन् । दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव ॥” “पांशुकृततमश्च प्रेरितवन्तः । क्षेपणैर्यन्त्रैः ।” इति तट्टीकायां श्रीधरस्वामी ॥ (परित्यागः । यथाह मनुः । ४ । ११९ । “उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ॥” “उपाकर्म्मणि उत्सर्गे त्रिरात्रमध्ययनक्षेपणम् ।” इति कुल्लूकभट्टः ॥ मल्लयोद्धणां सहसा भूपा- तनरूपनियुद्धकौशलविशेषः । यथा, महा- भारते । ४ । १२ । २८ । “क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः । तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥” “क्षेपणं कथ्यते यत्तु स्थानात् प्रच्यवनं हटात् ॥” इति तट्टीकाकृन्नीलकण्ठधृतमल्लशास्त्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपण नपुं।

प्रेरणम्

समानार्थक:क्षिपा,क्षेपण

3।2।11।2।2

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपण¦ न॰ क्षिप--ल्युट्।

१ अपवादे

२ लङ्घने

३ मारणे

४ विक्षपे

५ यापने च।
“आयुषः क्षेपणार्थञ्च तु दातव्यं स्त्रीधनंविना” हरीतः
“उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणंस्मृतम्” मनुः। करण ल्युट्।

६ क्षेपसाधने मल्लव्यापार-भेदे (फेलान)
“क्षेपणैर्मुष्टिभिश्चैवावरोहोद्धूतनिःस्वनैः” भा॰ वि॰

१३ अ॰
“क्षेपणं कथ्यते यत्तु स्थानात् प्रच्यावनंहठात्” तद्याख्यायां नीलकण्ठधृतं मल्लशास्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपण¦ n. (-णं)
1. Sending, directing.
2. Throwing, casting.
3. Passing away time.
4. Abusing. E. क्षिप् to throw, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपणम् [kṣēpaṇam], [क्षिप्-ल्युट्]

Throwing, casting, sending, directing &c.

Spending (as time).

Omitting.

Abusing.

A sling; दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैर्महिता इव Bhāg.3.19.18. -णिः, -णी f.

An oar.

A net for fishing.

A sling or any instrument with which missiles are thrown.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपण n. the act of throwing , casting , letting fly or go (a bow-string) Nir. ii , 28 MBh. iv , 352 and 1400

क्षेपण n. throwing away (in boxing) VP. v , 20 , 54

क्षेपण n. sending , directing W.

क्षेपण n. sending away MBh. iii , 13272

क्षेपण n. passing away or spending time( v.l. क्षपण)

क्षेपण n. " omitting " , for 1. क्षपणMn. iv , 119

क्षेपण n. sling BhP. iii , 19 , 18 ; x , 11 , 38

"https://sa.wiktionary.org/w/index.php?title=क्षेपण&oldid=498159" इत्यस्माद् प्रतिप्राप्तम्