क्षोभक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोभकः, पुं, (क्षोभ + संज्ञायां कन् ।) कामाख्यास्थ- पर्व्वतविशेषः । यथा, -- “दुर्ज्जराख्यस्य पूर्ब्बस्यां पुरं नाम वरासनम् । तद्दक्षिणे महाशैलः क्षोभको नाम नामतः ॥ तस्मिन् गिरौ शिलापृष्ठे वक्त्रे देवी व्यवस्थिता । पञ्चपुष्करिणी नाम्ना पञ्चयोनिस्वरूपिणी ॥ एकत्र पञ्चभिर्दुर्गा योनिभिः पञ्चवक्त्रकम् । स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा ॥” इति कालिकापुराणे कामाख्यारूपनिर्णये ८१ अध्यायः ॥ * ॥ (क्षुभ् + कर्त्तरि + ण्वुल् ।) क्षोभजनके त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोभक¦ पु॰
“दुर्जराख्यस्य पूर्वस्यां पुरं नाम वरासनम्। तद्दक्षिणे[Page2410-b+ 38] महाशैलः क्षोभको नाम नामतः” कालिकापु॰

७ अ॰उक्ते कामाख्यतीर्थस्थनगरभेदे। क्षुभ--ण्वुल्।

२ क्षोभ-कारके त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षोभक mfn. shaking , causing agitation VP. i , 2 , 31

क्षोभक m. of a mountain in सं-कुचित(sacred to the goddess दुर्गा) Ka1lP.

"https://sa.wiktionary.org/w/index.php?title=क्षोभक&oldid=498197" इत्यस्माद् प्रतिप्राप्तम्