क्ष्माभृत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्माभृत्, पुं, (क्ष्मां पृथ्वीं बिभर्त्ति । क्ष्मा + भृ + क्विप् तुगागमश्च ।) राजा । (यथा, पञ्च- तन्त्रे । १ । १६६ । “देशानामुपरि क्ष्माभृदातुराणां चिकित्सकाः । बणिजो ग्राहकाणाञ्च मूर्खाणामपि पण्डिताः ॥”) पर्व्वतः । इत्यमरः । २ । ८ । १ ॥ (यथा, राजेन्द्र- कर्णपूरे । ६७ । “कान्तारेषु च काननेषु च सरित्तीरेषु च क्ष्माभृता- मुत्सङ्गेषु च पत्तनेषु च सरिद्भर्त्तुस्तटान्तेषु च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्माभृत् पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।1।3

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

क्ष्माभृत् पुं।

राजा

समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल

2।8।1।2।4

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या

स्वामी : चक्रवर्ती

सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्

वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्

जन्य : राजपुत्री,राज्ञः_बाला

सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः

 : सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्माभृत्¦ पु॰ क्ष्मां विभर्त्ति पालयति धारयति वा भृ--क्विप्तुक् च।

१ राजनि

२ पर्वते च तस्य भूमिधरत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्माभृत्¦ m, (-सृत्)
1. A king, a prince.
2. A mountain. E. क्ष्मा the earth, and भृत् who nourishes, from भृ, affix क्विप्, तुक added.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्माभृत्/ क्ष्मा--भृत् m. (= -धर)a mountain BhP. x , 67 , 7 Katha1s.

क्ष्माभृत्/ क्ष्मा--भृत् m. = -धृतिPan5cat. Katha1s. lxxiii , 330 Ba1lar. iii , 63.

"https://sa.wiktionary.org/w/index.php?title=क्ष्माभृत्&oldid=498219" इत्यस्माद् प्रतिप्राप्तम्