खखोल्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खखोल्कः, पुं, (खे आकाशे सूर्य्यरूपेण खेषु इन्द्रियेषु आत्मरूपेण उल्का इव । अन्तर्व्वहिः- प्रकाशकत्वात् तथात्वम् ।) सूर्य्यः । यथा, -- हरिरुवाच । “पुनः सूर्य्यार्च्चनं वक्ष्ये यदुक्तं भृगवे पुरा । ओम् खखोल्काय ओम् नमः ॥” इति गारुडे १६ अध्यायः ॥ खषोल्कायेति च पाठः ॥ (अयं हि काशीस्थिता- दित्यः । इति काशीखण्डम् ॥ यदुक्तं तत्रैव ५० अध्याये । “खखोल्को नाम भगवानादित्यः परिकीर्त्तितः ॥” एतद्विवरणं तत्रैवाध्याये विशेषतो द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खखोल्क¦ पु॰ काशीस्थे आदित्यभेदे तत्कथा काशी॰

५० अ॰ यथा
“खखोल्कोनाम भगवानादित्यः परिकी-र्त्ततः। त्रिपिष्टपोत्तरे भागे सर्वव्याधिविघातकः। यथाखखोल्कैत्याख्या तस्यादित्यख तच्छृणु” इत्युपक्रमे[Page2414-a+ 38]
“खखोल्का निपतेदेषा भृशं गद्गदभाषिणी। मुर्च्छां गत-वती पक्षपुटा धृत्वा विलोरगी। सख्युल्का निपतेदेषावकव्येऽप्यतिसंभ्रमात्। खखोल्केति यदुक्ता गीः कद्रवासम्भ्रान्तचेतसा। तदा खखोल्कनामार्कस्तुतो विनतयाबहु”
“तपस्यन्तीमथालोक्य कदाचिद्विनतां प्रभुः। शिव-स्यैव परोमूर्त्तिः खखल्को नाम भास्करः। दत्त्वा वरंस्वपापघ्नं शिवज्ञानसमन्वितम्। क शीवासिजनानेकरूपपापक्षयङ्करः। विनतादित्य इत्याख्यः खखेल्कस्तत्रसंस्थितः। इत्थं खखोल्क आदित्यः काशीविघ्नतमो-हरः। तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते। काश्यांपैलङ्गिले तीर्थे खखोल्कस्य विलोकनात्। नरश्चिन्तित-माप्नोति नीरागो जायते क्षणात्। नरःश्रुत्वैतदाख्यानंखखोल्कादित्यसम्भवम्। गरुडेशेन सहितं सर्व्वपापैःप्रमुच्यत” तत्रैवाध्यायशेषे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खखोल्क¦ m. (-ल्कः) The sun. E. ख the sky, and खोल्क a meteor, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खखोल्क/ ख--खो m. " sky-meteor " , the sun SkandaP. Ga1rud2aP.

"https://sa.wiktionary.org/w/index.php?title=खखोल्क&oldid=498232" इत्यस्माद् प्रतिप्राप्तम्