खगासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगासनः, पुं, (खगस्य सूर्य्यस्य आसनमिव उदय- स्थानं यत्र । आसनत्वेन कल्पितत्वात्तथात्वम् ।) उदयपर्व्वतः । इति शब्दमाला ॥ (खगो गरुड आसनं यस्येति विग्रहे ।) विष्णुः । (एतद्बिवरणं यथा, महाभारते । १ । सौपर्णे । ३३ । १२--१८ । “तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् । स वव्रे तव तिष्ठेयमुपरीत्यन्तरीक्षगः ॥ उवाच चैनं भूयोऽपि नारायणमिदं वचः । अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥ एवमस्त्विति तं विष्णुरुवाच विनतासुतम् । प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् ॥ भवतेऽपि वरं दद्यां वृणोतु भगवानपि । तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम् । ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम् ॥ एवमस्त्विति तं देवमुक्त्वा नारायणं खगः । वव्राज तरसा वेगाद् वायुं स्पर्द्धन् महाजवः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगासन¦ पु॰ खगः गरुड आसनमस्य।

१ विष्णौ तद्वा-हनत्त्वात्तद्रासनत्वं तस्य तत्कथा च भा॰ आ॰

२३ अ॰ यथा
“विष्णुना च तदाकाशे वैनतेयः समे-यिवान्। तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा। नमुवाचाव्ययो देवो वरदोऽणीति खेचरम्। स वव्रेतव तिष्ठेयमुपरीत्यन्तरीक्षगः। उवाच चैनं भूयोऽपिनारायणमिदं वचः। अजरश्चामररा खाममृतेन विना-प्यहम्। एवमरिचति तं विष्णुरुवाच विनतासुतम्। प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत्। भवतेऽपिवरं दद्यां वृणोतु भगवानपि। तं वव्रे वाहमं विष्णु-र्गरुत्मन्तं महाबलम्। ध्वजञ्च चक्रे भगवानुपरिस्थास्यतीति तम्। एवमस्त्विति तं देवमुक्त्वा नारायणंस्वगः। वब्राज तरसा वेगाद्वायुं स्पर्द्धन्महाजवः”।
“बद्धं कृत्वा अधः शीर्षं यः करोति णगासनम्। अगासनप्रसादेन अमलोपोभवेद्द्रुतम्” रुद्रजा॰ उक्ते

२ आसनभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगासन¦ m. (-नः)
1. The eastern mountain over which the sun rises.
2. A name of VISHNU. E. खग a bird or the sun, and आसन seat or place of abiding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगासन/ ख-- m. " seat of the sun " , N. of the mountain उदय(the eastern mountain on which the sun rises) L.

खगासन/ ख-- m. " sitting on a bird( i.e. on the गरुड) " , विष्णुL.

"https://sa.wiktionary.org/w/index.php?title=खगासन&oldid=498244" इत्यस्माद् प्रतिप्राप्तम्