खगोलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगोलः, पुं, आकाशमण्डलम् । तस्य विवरणं यथा । एतदब्रह्माण्डं सच्छिद्रं कटाहद्बयस्य गोलाकारसम्पुटतुल्यम् । यत्र भूर्भुवःस्वर्महर्जनतपःसत्य- संज्ञकानि सप्तभुवनानि सन्ति । ब्रह्माण्डमध्ये यः परिधिः स आकाशकक्ष्या । तन्मध्ये परावह-परिवह-सुवह-सम्बहोद्बहाख्यानां पञ्चानां वायूनां स्थानानि अधोऽधःक्रमेण सन्ति । तदधस्तातधोऽधःस्थितपूर्ब्बाभिमुखशनिबृहस्पतिराहुकेतुमङ्गलसूर्य्यशुक्रबुधचन्द्रग्रहयुक्तं दक्षिणोत्तरस्थितध्रुवाख्य- ताराद्वयेन बद्धं नक्षत्रचक्रं सदापश्चिमगतिना प्रवहवायुना भ्रमति । ततः अधोऽधःक्रमेण सिद्धविद्याधरमेघविद्युदादियुक्तः सदोत्तरगतिरावहवायुर्भ्रमति एतद्ब्रह्माण्डस्य मध्ये समन्तात् ईश्वरस्य धारणात्मिकां शक्तिं बिभ्राणो भूगोलः शून्ये तिष्ठति । पृथ्व्यन्तर्गता नागासुरसमाश्रया दिव्यौषधिरसोपेता रम्याः पाताल-रसातल-महातल-तलातल-सुतल-वितलातल-संज्ञका ऊर्द्ध्वोर्द्ध्वक्रमेण सप्तपातालभूमयश्च सन्ति । सुमेरुपर्व्वतोपरि शून्ये एका ध्रुवतारा भ्रमति । एवं वडवानलोपरि शून्ये अन्या ध्रुवतारा भ्रमति । अथ कक्ष्यायोजनानि व्यासयोजनानि पृथिव्युच्चयोजनानि आकाशस्य ब्रह्माण्डस्य वा १८७१२०८०८६४०००००० ५९५३८४३९११२७२७२७ २९७६९२१९५५६३६३६३ नक्षत्रस्य २५९८९०००० ८२६९२२७३ ४१३४५३३६ शनेः १२७६६८२५५ ४०६२०२१७ २१३१००५८ राहुकेत्वोः ८०५७२८६३२ २५६३६८२०१ १२८१८८३३०० गुरोः ५१३७५७६४ १६३४६८३४ ८१७२६१७ चन्द्रोच्चस्य ३८३२८४८४ १२७४२८२८ ६३७०६१४ मङ्गलस्य ८१४६९०९ २५९२१९८ १२९५२९९ सूर्य्यस्य ४३३१५०० १३७८२०४ ६८८३०२ शुक्रशीघ्रस्य २६६४६३७ ८४७८३९ ४२३११९ बुधशीघ्रस्य १०४३२०९ ३३१९३० १६५१६५ बुधशुक्रयोः ४३६१५० १३८७७५ ६८५८८ चन्द्रस्य ३२४००० १०३०९१ ५७४५ आवहवायोः ५१०४ १६२४ १२ भूगोलस्य ४९६७ १५८१ ० अथ ग्रहाणां मध्यभुक्तयः । रवेः चन्द्रस्य मङ्गलस्य दिने-- ५९ । ८ । १० । ० ७९० । ३४ । ५२ ३१ । २६ । २८ कलाद्याः ५९ । ८ । १० । ० ७९० । ३४ । ५२ ३१ । २६ । २८ वर्षे-- १२ । ० । ० । ० ४ । १२ । ४६ । ४० । ४८ ६ । ११ । २४ । ९ । ३६ राश्याद्याः १२ । ० । ० । ० ४ । १२ । ४६ । ४० । ४८ ६ । ११ । २४ । ९ । ३६ युगे-- ४३२०००० ५७७५३३३६ २२९५८३२ भगणाद्याः ४३२०००० ५७७५३३३६ २२९५८३२ कल्पे-- ४३२००००००० ५७७५३३३६००० २२९५८३२००० भगणाद्याः ४३२००००००० ५७७५३३३६००० २२९५८३२००० बधशीघ्रस्य बृहस्पतेः शुक्रशीघ्रस्य दिने-- २४५ । ३२ । २१ ४ । २९ । ९ ९६ । ७ । ४३ कलाद्याः २४५ । ३२ । २१ ४ । २९ । ९ ९६ । ७ । ४३ वर्षे-- १ । २४ । ४५ । २२ । ४८ १ । ० । २१ । ३ । ३६ ७ । १५ । ११ । ४९ । १२ राश्याद्याः १ । २४ । ४५ । २२ । ४८ १ । ० । २१ । ३ । ३६ ७ । १५ । ११ । ४९ । १२ युगे-- ७१९३७०६० ३६४२२० ३०१२३७६ भगणाद्याः ७१९३७०६० ३६४२२० ३०१२३७६ कल्पे-- ७१९३७०६०००० ३६४२२०००० ३०१२३७६००० भगणाद्याः ७१९३७०६०००० ३६४२२०००० ३०१२३७६०००

"https://sa.wiktionary.org/w/index.php?title=खगोलः&oldid=130335" इत्यस्माद् प्रतिप्राप्तम्