खङ्गपरीक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गपरीक्षा¦ स्त्री खङ्गस्य परीक्षा। खडगस्य रूपघटनादिनाशुभाशुभज्ञानोपयोगिन्यां परीक्षायाम् सा च युक्तिकल्पतरौउक्ता यथा
“खङ्गरूपं तथा जातिर्नेत्रारिष्टे च भूभिका। ध्वनिर्मानमिति प्रोक्तं खङ्गज्ञानात्मकं शुभम्। अभिन्नेदृश्यते यादृक् विच्छिद्य घटिते तथा। यदेव दृश्यते चिह्नतदङ्गं सम्प्रचक्षते। नीलकृष्णादिकं खङ्ग रूपमित्य-भिधीयते। तेनैब यत् प्रतीत स्यात् तत् जातिरितिगद्यते। अङ्गातिरिक्त यज्जातिस्तन्माहात्म्योपसूच-चम्। तन्नेत्रमिति जानीयात् खङ्गे खङ्गविशारदः। अङ्गातिरिक्तं खङ्गादेर्यच्छुद्धत्वावसूचकम्। तदरिष्ट-मिति प्राहुर्भूमिरङ्गादिधारणम्। यः खड्गे जायतेशब्दोनखदण्डादिनाहते। स ध्वनिस्तुलना मानम्ज्ञानमष्टविधन्त्विदम्। पञ्चाद्या निपुणैः खङ्गे सम्भाव्य-न्तेऽपि कृत्रिमाः। अन्त्यावकृत्रिमौ ज्ञेयौ तावेव सहजाविति। शतमङ्गानि चत्वारि रूपाणि जातयस्तथा। त्रिंशन्नत्राणि जानीयादरिष्टानि तथैव च। भूमिश्चद्विविधा ज्ञेया ध्वनिरष्टविधो मतः। मानन्तु द्विविधंप्रोक्तमित्येषां सङ्ग्रहो मतः”। अधिकमसिशब्दे दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=खङ्गपरीक्षा&oldid=314053" इत्यस्माद् प्रतिप्राप्तम्