खचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचरः, पुं, (खे आकाशे चरतीति । चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।) मेघः । इति शब्दचन्द्रिका ॥ वायुः । राक्षसः । सूर्य्यः । एतेषां प्रमाणं यथा । महाभारते द्रोणपर्व्वणि । “खचरस्य सुतस्य सुतः खचरः खचरस्य पिता न पुनः खचरः । खचरस्य सुतेन हतः खचरः खचरी परिरोदिति हा खचर ! ॥” आकाशगामिनि त्रि । यथा । स्मृतिः । “पवनो दिक्पतिर्भूमि-राकाशं स्वचरामराः ॥” रूपकभेदः । यथा । सङ्गीतदामोदरः । “खचरो रङ्गताले स्यात् गुरुरादौ लघुस्तथा ॥ शान्तेऽथवा हास्यरसे भवेदेष दशाक्षरः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचर¦ पु॰ खे आकाशे चरति चर--ट।

१ मेघे शब्दच॰।

२ वायौ

३ सूर्य्य च।

४ राक्षसे पु॰ स्त्री मेदि॰ स्त्रियां ङीष्।
“खचरस्य सुतस्य सुतः खचरः खचरस्य पिता न{??}नःखचरः। खचरस्य सुतेन हतः खचरः खचरी परि-रोदिति हा खचर!” इति शब्दकल्पद्रुमे द्रोणपर्व्वीयतयालिखितं तत्तु घटोत्कचबधपर्वण्येव सम्भवदपि तत्र नदृश्यते। तस्य श्लोकस्यायमथः खचरस्य वायोः सुतस्यभीमस्य सुतः पुत्रः खचरः घटोत्कचः। खचरस्य राक्ष-सस्य तस्य पिता भीमः न खचरः राक्षसः। खचरःघटोत्कचः खचरस्य सूर्य्यस्य सुतेन कर्णेन हतः। खचरीहिडम्बा तन्माता राक्षसी हा खचरेत्युक्त्वा रोदितीति।

५ आकाशगामिमात्रे देवपक्षिशरग्रहादी त्रि॰ स्त्रियांङीप्।
“पवनोदिक्पतिर्भूमिराकाशं खचरामराः”। संकल्पादौ पाठ्यमन्त्रः। अत्र खचरशब्दे न ग्रहा उच्यन्तेअमरपबनयोः पृथङ्निर्द्देशात्।
“खचरनगरकल्पं त्रा-सयन् पाण्डवानाम्” भा॰ द्रो॰

७ अ॰।
“पुरं सुरमणीयञ्चखचरं सुमहाप्रभम्” भा॰ व॰

१७

३ अ॰। खपुरशब्देविवृतिः।
“जितकाशिनश्च खचरास्त्वरिताश्च महारथाः” भा॰ व॰

२४

३ अ॰। खचरा गन्धर्वाः॥ वृ॰ स॰

१४ अ॰कूर्मविभागे उत्तरस्यामुक्ते

६ देशभेदे पु॰ ब॰ व॰।
“उत्तरतःकैलासः” इत्युपक्रमे
“हेमतालराजन्यखचरगव्याश्च”
“खचरो रङ्गताले स्यात् गुरुरादौ लघुस्तथा। शान्ते-ऽथ वा हास्यरसे भवेदेष दशाक्षरः” संगीतदा॰ उक्ते

७ गीतभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचर¦ mfn. (-रः-री-रं) Moving in the sky, flying in the air. m. (-रः)
1. A cloud.
2. An aerial spirit.
3. Air, wind.
4. A demon.
5. The sun.
6. A bird. E. ख the sky, and चर who goes, from चर् to go, affix ट; see also खेचर।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खचर/ ख--चर mfn. moving in the air , flying MBh. R. BhP.

खचर/ ख--चर m. a bird R.

खचर/ ख--चर m. a planet Su1ryas. Gol.

खचर/ ख--चर m. the sun L.

खचर/ ख--चर m. a cloud L.

खचर/ ख--चर m. the wind L.

खचर/ ख--चर m. an aerial spirit , विद्याधरKatha1s. cx , 139

खचर/ ख--चर m. a रक्षस्or demon L.

खचर/ ख--चर m. (in music) a kind of रूपकor measure L.

खचर/ ख--चर m. pl. N. of a fabulous people VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=खचर&oldid=498255" इत्यस्माद् प्रतिप्राप्तम्