खटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटी, स्त्री, (खट् + अच् । गौरादित्वात् ङीष् ।) लेखनद्रव्यम् । खडी इति भाषा । तत्पर्य्यायः । खटिनी २ खटिका ३ धवलमृत्तिका ४ सितधातुः ५ पाण्डुमृत् ६ पाण्डुमृत्तिका ७ । अस्या गुणाः । मधुरत्वम् । तिक्तत्वम् । शीतलत्वम् । पित्तदाह- व्रणदोपकफास्रनेत्ररोगनाशित्वञ्च । इति राज- निर्धण्टः ॥ अस्याः पर्य्यायान्तराणि कठिनीशब्दे द्रवृव्यानि ॥ (यथास्याः पर्य्याया गुणाश्च भाव- प्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “खटिका कठिनी चापि लेखनी च निगद्यते । खटिका दाहजिच्छीता मधुरा विषशोथजित् ॥ लेपादेतद्गुणाः प्रोक्ता भक्षिता मृत्तिका समा । खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्त्तिते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटी¦ स्त्री खट--अच् गौरा॰ ङीष्। (खडी) लेखनसाधन-द्रव्यभेदे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटी¦ f. (-टी) Chalk. E. खट् to seek, अच् and ङीष् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटी f. chalk L.

"https://sa.wiktionary.org/w/index.php?title=खटी&oldid=498291" इत्यस्माद् प्रतिप्राप्तम्