खड्गी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गी, [न्] पुं, (खड्गस्तदाकारं शृङ्गमस्या- स्तीति । इनिः ।) वनजन्तुविशेषः । गण्डार इति भाषा । तत्पर्य्यायः । गण्डकः २ खड्गः ३ । इत्यमरः । २ । ५ । ४ ॥ खड्गमृगः ४ क्रोडीमुखः ५ तुङ्गमुखः ६ बली ७ वज्रचर्म्मा ८ वार्द्ध्रीनसः ९ । इति राजनिर्घण्टः ॥ एकचरः १० गणोत्- साहः ११ । इति त्रिकाण्डशेषः ॥ गण्डः १२ स्वनोत्साहः १३ । इति शब्दरत्नावली ॥ अस्य मांसगुणाः । बलकारित्वम् । बृंहणत्वम् । गुरु- त्वम् । इति राजनिर्घण्टः ॥ कफवायुनाशित्वम् । कषायत्वम् । पितृलोकतृप्तिकारित्वम् । पवित्र- त्वम् । आयुर्हितत्वम् । मूत्रबन्धकारित्वम् । रूक्षत्वञ्च । इति राजवल्लभः ॥ (“कफघ्नं खड्गिपिशितं कषायमनिलापहम् । पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ॥” इति सुश्रुते सूत्रस्थाने षट्चत्वारिंशत्तमेऽध्याये ॥ महादेवः । यथा, महाभारते । १३ । १७ । ४२ । “अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥” खड्गो विद्यतेऽस्य इति व्युत्पत्या तु वाच्य- लिङ्गः । यथा, भागवते । ८ । १५ । ८ । “सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥”)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHAḌGĪ : See under Kalki.


_______________________________
*8th word in left half of page 408 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खड्गी&oldid=498331" इत्यस्माद् प्रतिप्राप्तम्