खण्डप्रलय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
खण्डप्रलय¦ पु॰ खण्डस्य भूम्यादिखण्डस्य प्रलयः। चतुर्युग-सहस्ररूपब्राह्मदिनावसाने भूम्यादिखण्ड लयाधारेकालभेदे
“वृद्धिर्विधेरह्नि भुवः समन्तात् स्याद्यो-जनं भूभवभूतपूर्वैः। ब्राह्मे लये योजनमात्रवृद्धे-र्नाशो भुवः प्राकृतिकेऽखिलायाः” सि॰ शि॰।
“अत्रलयो नाम भूतविनाशः। प्रत्यहमुत्पद्यते। सदैनंदिन उच्यते। यो ब्रह्मदिनान्ते चतुर्युग-सहस्रावसाने लोकत्रयस्य संहारः स ब्राह्मलयउच्यते। तत्राक्षीणपुण्यपापा एव लोकाः कालवशेनब्रह्मशरीरं प्रविशन्ति। तत्र मुखं ब्राह्मणाः, बाह्वन्तरं क्षत्रियाः, ऊरुद्वयं वैश्याः, पादद्वयं शूद्राः। ततो निशावशाने पुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादि-[Page2462-b+ 38] स्थानेभ्यः कर्मपुटान्तरत्वाद्ब्राह्मणादयस्तत एव निःस-रन्ति। तस्मिन् प्रलये भुवो योजनभात्रवृद्धेर्विलयोनाखिलायाः” प्रमि॰। खण्डप्रलयप्रकारश्च हरिवं॰
१९
८ ।
१९
९ अ॰ उक्तो यथा
“दिव्यं द्वादशसाहस्रं यदेतद्युगमुच्यते। तदेकसप्ततिगुणंमन्वन्तरमिहोच्यते। एतच्चतुर्द्दशगुणमहर्व्राह्ममिहो-च्यते। ततोऽहनि गते तस्मिन् सर्वषामेव देहिनाम्। शरीरनिर्वृतिञ्चक्रे रुद्रः संहारबुद्धिमान्। दैवतानाञ्चसर्वेषां व्राह्मणानां महीपते!। दैत्यानां दानवानाञ्च यक्ष-किन्नररक्षसाम्। देवर्षीणां ब्रह्मर्पीणां तथा राजर्पी-णामपि। गन्धर्वाणामप्सरसां भुजगानां तथैव च। पर्वतानां नदीनाञ्च पशूनाञ्चैव भारत!। तिर्य्यग्ये नि-गतानाञ्च सत्त्वानां क्रिमीणां तथा। महाभूतपतिर्द्देवःपञ्च भूतानि भूतहृत्। जगत्संहरणार्थाय कुरुते वैशसंमहत्। भूत्वा सूर्य्यश्चक्षुषी चाददाति भूत्वा वायुःसंहरन् प्राणिजालम्। भूत्वा वह्निर्निर्द्दहन् सर्वलोकान्मेवो भूत्वा भूय एवाभ्यवर्षत्
१९
८ अ॰। वैशम्पायन उवाच। भूत्वा नारायणो योगी सप्तमूर्त्तिर्विभावसुः। गमस्तिभिःप्रदीप्ताभिः संशोषयति सागरान्। पीत्वाऽर्णवांश्चवै सर्वान्नदी
१ कूपंश्च सर्वशः। पर्वतानाञ्च सलिलं सर्वमादायरश्मिभिः। भित्त्वा सहस्रशश्चैव महीं गत्वा रसा-तलम्। रसातलगतं कृत्स्नं पिबते रसमुत्तमम्। अप्सुसृजन् क्लेदमन्यद्ददाति प्राणिनां ध्रुवम्। तत् सर्व-मरविन्दाक्ष आदत्ते पुरुषोत्तमः! वायुश्च बलवान् मूत्वास विधूयाखिलं जगत्। प्राणेदयं सुराणाञ्च वायुनाकुरुते हरिः। ततो देवगणानाञ्च सर्शेषामेव देहि-नाम्। ये चेन्द्रियगणाः सर्वे ये चान्ये भूतसम्भवाः। तथा घ्राणं शरीरञ्च पृथिवीमाश्रिता गुणाः। जिह्वारसश्च स्नेहश्च संश्रिताः सलिलं गुणाः। रूपं चक्षु-र्विपाकश्च ज्योतिरेवाश्रिता गुणाः। स्पर्शः प्राःणश्च चेष्टाच पवनं मंश्रिता गुणाः। परमेष्ठिनमेते वै हृषीकेशंसमाश्रिताः। ततो मगवता तत्र रश्मिभिः परिवा-रिताः। वायुना कृष्यमाणाश्च रूपान्योऽन्यसनाश्रथात्। तेषां सङ्घर्षजोद्भूतः पावकः शतधा ज्वलन्। अदह-न्निखिलान् लोकानुग्रः संवर्त्तकोऽनलः। स पर्वतान्द्रुमान् गुल्मान् लतावल्लीस्तृणानि च। विमानानिच दिव्यानि पुराणि विविधानि च। आश्रमाश्च तथापुण्यान् दिव्यान्यायतनानि च। यानि चाश्रयणीयानि[Page2463-a+ 38] तानि सर्वाणि चादहत्। भस्मीभूतांस्ततः सर्वान्लोकान् लोकगुरुर्हरिः। भूयो निर्वापयामास जल-युक्तेन कर्मणा। सहस्रदृङ्महातेजा भूत्वा कृष्णो महा-घनः। दिव्यतोयेन हविषा तर्पयामास मेदिनीम्। ततःक्षीरनिकाशेन स्वादुना परमाम्भसा। शिवेन पुण्येनमही निर्वाणमगमत् परम्। तेन सा जलसञ्छन्नापयसा सर्वतो धरा। एकार्णवजला भूत्वा सर्वसत्त्व-विवर्जिता। महाभूतान्यपि च तं प्रविष्टान्यमितौजसम्। नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्ज्जिते। संशोषयित्वापीत्वा च कल्पयि{??} च देहिनम्। दग्ध्वा सन्ताप-यित्वा च वसत्येकः सनातनः। पौराणं रूपमास्थायकिमप्यमितबुद्धिमान्। एकार्णवजलावासी योगी योग-मुपासते। अयुतानां सहस्राणि शतान्येकार्णवाम्भसि”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
खण्डप्रलय¦ m. (-यः) Partial destruction of the universe, the destruction of the division of the terrestrial world. E. खण्ड, and प्रलय destruc- tion.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
खण्डप्रलय/ खण्ड--प्रलय m. partial destruction of the universe (all the spheres beneath स्वर्गor heaven being dissolved) W.
खण्डप्रलय/ खण्ड--प्रलय m. the dissolution of the bonds of friendship , quarrel (for -प्रणय?) W.