खद्योत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद्योतः, पुं, (खं आकाशं द्योतयतीति । द्युत् दीप्तौ + णिच् + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।) सूर्य्यः । इति जटाधरः ॥ (यथा, भाग- वते । ४ । २९ । १० । “खद्योताविर्म्मुखी चात्र नेत्रे एकत्र निर्म्मिते । रूपं विभ्राजितं ताभ्यां विचष्टे चक्षषेश्वरः ॥” नेत्रस्य हि सूर्य्याधिष्टातृतया रूपादिदर्शनशक्ति- रिति प्रसिद्धेस्तथात्वम् ॥ खे आकाशे द्योतते इति । द्युत् + अच् ।) कीटविशेषः । जोनाक पोका इति भाषा । तत्पर्य्यायः । ज्योतिरिङ्गणः २ । इत्यमरः । २ । ५ । २८ ॥ खज्योतिः ३ प्रभाकीटः ४ उपसूर्य्यकः ५ । इति राजनिर्घण्टः ॥ ध्वान्तो- न्मेषः ६ तमोमणिः ७ दृष्टिबन्धुः ८ तमोज्योतिः ९ ज्योतिरिङ्गः १० निमेषकः ११ । इति शब्द- रत्नावली ॥ (यथा, श्रीमद्भागवते । ६ । १६ । ४६ । “विदितमनन्तसमस्तं तव जगदात्मनो जनैरिहाचरितम् । विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद्योत पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।31।4।3

भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

खद्योत पुं।

खद्योतः

समानार्थक:खद्योत,ज्योतिरिङ्गण

2।5।28।2।3

भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः। समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद्योत¦ पु॰ खे द्योतते द्युत--अच्।

१ कीटभेदे (जोनाकी-पोका)
“खद्योतवदभिज्ञातं तन्मया विस्मयान्तितम्” भा॰ व॰

१२

२ अ॰।
“खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्” मेघदू॰। खं द्योतयति द्युत--णिच्-अण् उप॰ स॰।

२ सूर्य्ये जटाधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद्योत¦ m. (-तः)
1. A fire-fly.
2. The sun. E. ख the sky, and द्योत what is luminous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खद्योत/ ख--द्योत m. = -ज्योतिस्ChUp. MBh. R. etc.

खद्योत/ ख--द्योत m. (applied fig. to transient happiness) Sarvad. xi

खद्योत/ ख--द्योत m. the sun L.

खद्योत/ ख-द्योत etc. See. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a stage in which ईश्वर roamed like insect during night of ब्रह्मा. Br. II. २४. 9; ३२. ७८.

"https://sa.wiktionary.org/w/index.php?title=खद्योत&oldid=498390" इत्यस्माद् प्रतिप्राप्तम्