खेटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खेटः, पुं, (खे आकाशे अटति । अट् + अच् ।) ग्रहः । यथा, भावविवेके । “यस्मिन् राशौ स्थितः खेटस्तेन तं परिपूरयेत् ॥”

खेटः, त्रि, (खिट् + अच् । खेट् + कः वा ।) अधमः । इत्यमरः । ३ । १ । ५४ ॥ घोटकः । इति शब्दरत्ना- वली ॥ सुनिन्दकः । इति विश्वः ॥ सुनन्दक इति पाठे बलरामस्य गदा इति कश्चित् ॥

खेटः, पुं, क्ली, (खिट्यते भवमुत्पद्यते अस्मा- दनेन वा । खिट् + अपादाने करणे वा घञ् ।) मृगया । इत्यमरहेमचन्द्रौ ॥ कफः । (खेट्यते भक्षोपयोगिशस्यादिना उपजीव्यते अस्मात् ।) ग्रामभेदः । स तु कर्षकग्रामः । (तथा च भाग- वते । १ । ६ । ११ । “खेटखर्ब्बटवाटीश्च वनान्युपवनानि च ॥” “खेटाः कर्षकग्रामाः ।” इति श्रीधरस्वामी ॥) चर्म्म । इति मेदिनीशब्दरत्नावल्यौ ॥

खेटः पुं, (खेटति भयमुत्पादयत्यनेन । खिट् + करणे घञ् । खेट + स्वार्थे कः ।) यष्टिः । यथा, --

"https://sa.wiktionary.org/w/index.php?title=खेटः&oldid=130843" इत्यस्माद् प्रतिप्राप्तम्