गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गः, पुं, (गच्छति सर्व्वं जानाति इच्छामात्रेण अभिलषितं सर्व्वं प्राप्नोति वा सर्व्वज्ञत्वात् प्राप्त- सर्व्वैश्वर्य्यत्वाच्च । गम् + डः ।) गणेशः । (गायति इति । गै + डः ।) गन्धर्व्वः । इत्येकाक्षरकोषः ॥ (गुरुसंज्ञकवर्णः स तु छन्दसो गणविशेषः । यथा, छन्दोमञ्जर्य्यां १ मे स्तवके । “म्यरस्तजभ्नगैर्लान्तैरभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥” “गुरुरेको गकारस्तु लकारो लघुरेककः ॥” वाच्यलिङ्गे तु उपसर्गरहितः कर्म्मोपपदश्च स्यात् । तत्र “गापोष्टक् ।” ३ । २ । ८ । इति टक् । यथा, साम गायतीति सामगः । तथा च मनुः । २ । ६२ । “हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभि- रन्ततः ॥”)

"https://sa.wiktionary.org/w/index.php?title=गः&oldid=130898" इत्यस्माद् प्रतिप्राप्तम्