गजकूर्म्माशिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकूर्म्माशी, [न्] पुं, (गजश्च कूर्म्मश्च तौ गज- कूर्म्मौ । तौ अश्नातीति । अश ग भोजने + णिनि ।) गरुडः । इति शब्दरत्नावली ॥ (पुरा हि कदाचित् विभावसुसुप्रतीकनामानौ द्वौ भ्रातरौ ब्राह्मणकुमारौ पितृधनार्थमन्योन्य- मभिशप्तौ गजत्वं कूर्म्मत्वं च गतावपि पूर्ब्बवैर- मनुस्मरन्तो सुचिरं युध्यमानौ प्रजापतिकश्यपा- दिष्टेन पतगेश्वरेण गरुडेन भक्षितौ । एतद्वि- वरणन्तु महाभारतीयादिपर्व्वणि सौपर्णे २९ अध्याये सविस्तरं दर्शनीयम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकूर्म्माशिन्¦ पु॰ गजश्च कूर्म्मश्च तौ अश्नाति अश--भो-जने णिनि।

१ गरुडे शब्दरत्ना॰ गजकच्छपभोजीत्या-दयोऽप्यत्र। तौ च विभावसुप्रतीकमुनी अन्योन्यशापाद्गजंकूर्न्मतां प्राप्तौ गरुडेन भक्षितौ यथाह भा॰आ॰

२९ अ॰
“आसीद्विभावसुर्नाम भहर्विः कोपनो भृशम्। भ्रातातखानुजश्चासीत् सुपतौको महावपाः। स नेच्छतिधनं भ्रात्ना सहैकस्थं महामुनिः। विभागं कीर्त्तय-त्येव सुप्ततीकी हि निव्यशः। अथाब्रवीच्च तं भ्रातासुप्रतीकं विभावसुः। विभागं बहवो मोहात् कर्त्तु-मिच्छन्ति निव्यशः। ततो विभक्तास्त्वस्योऽन्यं विरु-ध्यस्तेऽर्थमोहिताः। ततः स्वार्थपरान् मूढान् पृथ-द्भूतान् स्वकैर्धनैः। विदित्वा भेदयन्त्येतानमित्रा मित्र-रूपिणः। विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ। भिन्नानामतुलो नाशः क्षिपमेव प्रवर्त्तते। तस्माद्विमाय[Page2494-a+ 38] भ्रातॄणां न प्रशंसन्ति साधवः। गुरुशास्त्रेऽनिवद्धाना-मन्योऽन्येनाभिशङ्किनाम्। नियन्तुं नहि शक्यस्त्वंभेदतो धनमिच्छसि। यस्मात्तस्मात् सुप्रतीक! हस्तित्वंसमवाप्स्यसि। शप्तस्त्वेवं सुप्रतीको विभावसुमथाव्रवीत्। त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि। एवमन्यीऽन्य-शापात्तौ सुप्रतीकविभावसू। गजकच्छपतां प्राप्तावर्थार्थंमूढचेतसौ। रोषदोषानुषङ्गेण तिर्य्यग्योनिगतावुभौ। परस्परद्वेषरतौ प्रमाणबलदर्पितौ। सरस्यस्मिन्महा-कायौ पूर्ववैरानुसारिणौ। तयोरन्यतरः श्रीमान् समु-पैति महागजः। यस्य वृंहितशब्देन कूर्म्मोऽप्यन्त-र्ज्जलेशयः। उत्थितोऽसौ महाकायः कृत्स्नं विक्षो-भयन् सरः। यं दृष्ट्वा वेष्टितकरः पतत्येष गजोजलम्। दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्य्यवान्। विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्। कूर्म्मोऽप्य-भ्युद्यतशिरा युद्धायाभ्येति वीर्य्यवान्। षडुच्छ्रितोयोजनानि गजस्तद्द्विगुणायतः। कूर्म्मस्त्रियोजनोत्-सेधो दशयोजनमण्डलः। तावुभौ युद्धसम्मत्तौ पर-स्परबधैषिणौ। उपयुज्याशु कर्मेदं साधयेहितमात्मनः। महाभ्रघनसङ्काशौ तौ भुक्त्वाऽमृतमानय”। इत्येवं पित्रानुशिष्टो गरुडस्तावभक्षयत् यथाह तत्रैव

३० अ॰।
“मक्षयामास गरुडस्तावुभौ गजकच्छपौ”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकूर्म्माशिन्¦ m. (-शी) A name of GARURA the bird and vehicle of VISHNU. E. गज an elephant, कूर्म्म a tortoise, and अशिन् who eats; alluding to a legend of his swallowing both animals whilst engaged in a contest with each other.

"https://sa.wiktionary.org/w/index.php?title=गजकूर्म्माशिन्&oldid=320747" इत्यस्माद् प्रतिप्राप्तम्